🪷 Mahābhārata · Droṇa-Parva · Chapter 25

The Book of Droṇa · Parva 7 · 59 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 59 Shlokas

MBh 7.25.1
धृतराष्ट्र उवाच तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः कथं युयुधिरे पार्था मामकाश्च तरस्विनः
MBh 7.25.2
किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति संशप्तका वा पार्थस्य किमकुर्वत संजय
MBh 7.25.3
संजय उवाच तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः
MBh 7.25.4
स नाग इव नागेन गोवृषेणेव गोवृषः समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत्
MBh 7.25.5
स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः अभिनत्कुञ्जरानीकमचिरेणैव मारिष
MBh 7.25.6
ते गजा गिरिसंकाशाः क्षरन्तः सर्वतो मदम् भीमसेनस्य नाराचैर्विमुखा विमदीकृताः
MBh 7.25.7
विधमेदभ्रजालानि यथा वायुः समन्ततः व्यधमत्तान्यनीकानि तथैव पवनात्मजः
MBh 7.25.8
स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः
MBh 7.25.9
ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः
MBh 7.25.10
तथा गजानां कदनं कुर्वाणमनिलात्मजम् क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः
MBh 7.25.11
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः
MBh 7.25.12
स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव
MBh 7.25.13
तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः
MBh 7.25.14
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः
MBh 7.25.15
तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम् कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम्
MBh 7.25.16
तस्य कायं विनिर्भिद्य ममज्ज धरणीतले ततः पपात द्विरदो वज्राहत इवाचलः
MBh 7.25.17
तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः
MBh 7.25.18
तस्मिन्निपतिते वीरे संप्राद्रवत सा चमूः संभ्रान्ताश्वद्विपरथा पदातीनवमृद्नती
MBh 7.25.19
तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत्
MBh 7.25.20
येन नागेन मघवानजयद्दैत्यदानवान् स नागप्रवरो भीमं सहसा समुपाद्रवत्
MBh 7.25.21
श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम्
MBh 7.25.22
ततः सर्वस्य सैन्यस्य नादः समभवन्महान् हा हा विनिहतो भीमः कुञ्जरेणेति मारिष
MBh 7.25.23
तेन नादेन वित्रस्ता पाण्डवानामनीकिनी सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः
MBh 7.25.24
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् भगदत्तं सपाञ्चालः सर्वतः समवारयत्
MBh 7.25.25
तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः
MBh 7.25.26
स विघातं पृषत्कानामङ्कुशेन समाचरन् गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः
MBh 7.25.27
तदद्भुतमपश्याम भगदत्तस्य संयुगे तथा वृद्धस्य चरितं कुञ्जरेण विशां पते
MBh 7.25.28
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् तिर्यग्यातेन नागेन समदेनाशुगामिना
MBh 7.25.29
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा
MBh 7.25.30
प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत्
MBh 7.25.31
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः जघान द्विरदस्थं तं शत्रुं प्रचलितासनम्
MBh 7.25.32
उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः रथानीकेन महता सर्वतः पर्यवारयत्
MBh 7.25.33
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः
MBh 7.25.34
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् किरतां शरवर्षाणि स नागः पर्यवर्तत
MBh 7.25.35
ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् प्रेषयामास सहसा युयुधानरथं प्रति
MBh 7.25.36
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत्
MBh 7.25.37
बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः तस्थौ सात्यकिमासाद्य संप्लुतस्तं रथं पुनः
MBh 7.25.38
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान्
MBh 7.25.39
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः तमेकं द्विरदं संख्ये मेनिरे शतशो नृपाः
MBh 7.25.40
ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः ऐरावतस्थेन यथा देवराजेन दानवाः
MBh 7.25.41
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः गजवाजिकृतः शब्दः सुमहान्समजायत
MBh 7.25.42
भगदत्तेन समरे काल्यमानेषु पाण्डुषु प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात्
MBh 7.25.43
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः
MBh 7.25.44
ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः
MBh 7.25.45
ततो रुचिरपर्वाणं शरेण नतपर्वणा सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम्
MBh 7.25.46
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम्
MBh 7.25.47
त एनं शरधाराभिर्धाराभिरिव तोयदाः सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः
MBh 7.25.48
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम्
MBh 7.25.49
सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् पुत्रस्तु तव संभ्रान्तः सौभद्रस्याप्लुतो रथम्
MBh 7.25.50
स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन्
MBh 7.25.51
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः
MBh 7.25.52
सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान्
MBh 7.25.53
नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम्
MBh 7.25.54
गोपाल इव दण्डेन यथा पशुगणान्वने आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः
MBh 7.25.55
क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः
MBh 7.25.56
स नागराजः प्रवराङ्कुशाहतः; पुरा सपक्षोऽद्रिवरो यथा नृप भयं तथा रिपुषु समादधद्भृशं; वणिग्गणानां क्षुभितो यथार्णवः
MBh 7.25.57
ततो ध्वनिर्द्विरदरथाश्वपार्थिवै;र्भयाद्द्रवद्भिर्जनितोऽतिभैरवः क्षितिं वियद्द्यां विदिशो दिशस्तथा; समावृणोत्पार्थिव संयुगे तदा
MBh 7.25.58
स तेन नागप्रवरेण पार्थिवो; भृशं जगाहे द्विषतामनीकिनीम् पुरा सुगुप्तां विबुधैरिवाहवे; विरोचनो देववरूथिनीमिव
MBh 7.25.59
भृशं ववौ ज्वलनसखो वियद्रजः; समावृणोन्मुहुरपि चैव सैनिकान् तमेकनागं गणशो यथा गजाः; समन्ततो द्रुतमिव मेनिरे जनाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 59 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.25local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷