🪷 Mahābhārata · Droṇa-Parva · Chapter 24
The Book of Droṇa · Parva 7 · 61 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 61 Shlokas
MBh 7.24.1
संजय उवाच
महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः
MBh 7.24.2
तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव
ततो हतममन्याम द्रोणं दृष्टिपथे हते
MBh 7.24.3
तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत्
MBh 7.24.4
यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः
वारयध्वं यथायोगं पाण्डवानामनीकिनीम्
MBh 7.24.5
ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव
आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम्
MBh 7.24.6
तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे
तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत्
MBh 7.24.7
त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः
बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि
MBh 7.24.8
कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते
पर्यवारयदायान्तं शूरं समितिशोभनम्
MBh 7.24.9
तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत्
कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम्
MBh 7.24.10
सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम्
उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत्
MBh 7.24.11
क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके
नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत्
MBh 7.24.12
अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत्
विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः
MBh 7.24.13
युयुत्सुं पाण्डवार्थाय यतमानं महारथम्
सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत्
MBh 7.24.14
सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ
युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ
MBh 7.24.15
राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम्
वेलेव सागरं क्षुब्धं मद्रराट्समवारयत्
MBh 7.24.16
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत्
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम्
MBh 7.24.17
तस्य नानदतः केतुमुच्चकर्त सकार्मुकम्
क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः
MBh 7.24.18
तथैव राजा बाह्लीको राजानं द्रुपदं शरैः
आद्रवन्तं सहानीकं सहानीको न्यवारयत्
MBh 7.24.19
तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः
यथा महायूथपयोर्द्विपयोः संप्रभिन्नयोः
MBh 7.24.20
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम्
MBh 7.24.21
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम्
मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम्
MBh 7.24.22
नाकुलिं तु शतानीकं भूतकर्मा सभापतिः
अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत्
MBh 7.24.23
ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः
चक्रे विबाहुशिरसं भूतकर्माणमाहवे
MBh 7.24.24
सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम्
द्रोणायाभिमुखं वीरं विविंशतिरवारयत्
MBh 7.24.25
सुतसोमस्तु संक्रुद्धः स्वपितृव्यमजिह्मगैः
विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः
MBh 7.24.26
अथ भीमरथः शाल्वमाशुगैरायसैः शितैः
षड्भिः साश्वनियन्तारमनयद्यमसादनम्
MBh 7.24.27
श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः
चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत्
MBh 7.24.28
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ
पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम्
MBh 7.24.29
तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे
द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत्
MBh 7.24.30
तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः
सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम्
MBh 7.24.31
प्रवपन्निव बीजानि बीजकाले नरर्षभ
द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत्
MBh 7.24.32
यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः
तं पटच्चरहन्तारं लक्ष्मणः समवारयत्
MBh 7.24.33
स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत
लक्ष्मणे शरजालानि विसृजन्बह्वशोभत
MBh 7.24.34
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम्
पर्यवारयदायान्तं युवानं समरे युवा
MBh 7.24.35
ततस्तमिषुजालेन याज्ञसेनिः समावृणोत्
विधूय तद्बाणजालं बभौ तव सुतो बली
MBh 7.24.36
अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत्
MBh 7.24.37
स संप्रहारस्तुमुलस्तयोः पुरुषसिंहयोः
सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः
MBh 7.24.38
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली
द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत्
MBh 7.24.39
स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत्
तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम्
MBh 7.24.40
कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान्
द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत्
MBh 7.24.41
ते चैनं भृशसंक्रुद्धाः शरव्रातैरवाकिरन्
स च तांश्छादयामास शरजालैः पुनः पुनः
MBh 7.24.42
नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः
साश्वसूतध्वजरथाः परस्परशराचिताः
MBh 7.24.43
पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह
नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन्
MBh 7.24.44
तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम्
सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः
MBh 7.24.45
क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि
द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः
MBh 7.24.46
तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत्
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने
MBh 7.24.47
राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम्
चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत्
MBh 7.24.48
तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया
स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत्
MBh 7.24.49
वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः
अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत्
MBh 7.24.50
युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ
ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः
MBh 7.24.51
सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम्
पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन्
MBh 7.24.52
स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने
पुनः पताकां सूतं च छत्रं चापातयद्रथात्
MBh 7.24.53
अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा
साश्वसूतध्वजरथं तं चकर्त वरासिना
MBh 7.24.54
रथं च स्वं समास्थाय धनुरादाय चापरम्
स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम्
MBh 7.24.55
मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वधैः
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः
MBh 7.24.56
आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन्
सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः
MBh 7.24.57
तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः
राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः
MBh 7.24.58
तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः
तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः
MBh 7.24.59
एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम्
पदातीनां च भद्रं ते तव तेषां च संकुलम्
MBh 7.24.60
नैतादृशो दृष्टपूर्वः संग्रामो नैव च श्रुतः
द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत्
MBh 7.24.61
इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो
तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 23
- Next chapter · Droṇa-Parva Ch 25 →
Sources and Connected Readings
Continue from these 61 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.24local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷