🪷 Mahābhārata · Droṇa-Parva · Chapter 2

The Book of Droṇa · Parva 7 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 37 Shlokas

MBh 7.2.1
संजय उवाच हतं भीष्ममाधिरथिर्विदित्वा; भिन्नां नावमिवात्यगाधे कुरूणाम् सोदर्यवद्व्यसनात्सूतपुत्रः; संतारयिष्यंस्तव पुत्रस्य सेनाम्
MBh 7.2.2
श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं; निपातितं शांतनवं महारथम् अथोपायात्तूर्णममित्रकर्शनो; धनुर्धराणां प्रवरस्तदा वृषः
MBh 7.2.3
हते तु भीष्मे रथसत्तमे परै;र्निमज्जतीं नावमिवार्णवे कुरून् पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः; संतारयिष्यंस्तव पुत्रस्य सेनाम्
MBh 7.2.4
कर्ण उवाच यस्मिन्धृतिर्बुद्धिपराक्रमौजो; दमः सत्यं वीरगुणाश्च सर्वे अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः; प्रिया च वागनपायीनि भीष्मे
MBh 7.2.5
ब्रह्मद्विषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म स चेत्प्रशान्तः परवीरहन्ता; मन्ये हतानेव हि सर्वयोधान्
MBh 7.2.6
नेह ध्रुवं किंचन जातु विद्यते; अस्मिँल्लोके कर्मणोऽनित्ययोगात् सूर्योदये को हि विमुक्तसंशयो; भावं कुर्वीताद्य महाव्रते हते
MBh 7.2.7
वसुप्रभावे वसुवीर्यसंभवे; गते वसूनेव वसुंधराधिपे वसूनि पुत्रांश्च वसुंधरां तथा; कुरूंश्च शोचध्वमिमां च वाहिनीम्
MBh 7.2.8
संजय उवाच महाप्रभावे वरदे निपातिते; लोकश्रेष्ठे शांतनवे महौजसि पराजितेषु भरतेषु दुर्मनाः; कर्णो भृशं न्यश्वसदश्रु वर्तयन्
MBh 7.2.9
इदं तु राधेयवचो निशम्य ते; सुताश्च राजंस्तव सैनिकाश्च ह परस्परं चुक्रुशुरार्तिजं भृशं; तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत्
MBh 7.2.10
प्रवर्तमाने तु पुनर्महाहवे; विगाह्यमानासु चमूषु पार्थिवैः अथाब्रवीद्धर्षकरं वचस्तदा; रथर्षभान्सर्वमहारथर्षभः
MBh 7.2.11
कर्ण उवाच जगत्यनित्ये सततं प्रधावति; प्रचिन्तयन्नस्थिरमद्य लक्षये भवत्सु तिष्ठत्स्विह पातितो रणे; गिरिप्रकाशः कुरुपुंगवः कथम्
MBh 7.2.12
निपातिते शांतनवे महारथे; दिवाकरे भूतलमास्थिते यथा न पार्थिवाः सोढुमलं धनंजयं; गिरिप्रवोढारमिवानिलं द्रुमाः
MBh 7.2.13
हतप्रधानं त्विदमार्तरूपं; परैर्हतोत्साहमनाथमद्य वै मया कुरूणां परिपाल्यमाहवे; बलं यथा तेन महात्मना तथा
MBh 7.2.14
समाहितं चात्मनि भारमीदृशं; जगत्तथानित्यमिदं च लक्षये निपातितं चाहवशौण्डमाहवे; कथं नु कुर्यामहमाहवे भयम्
MBh 7.2.15
अहं तु तान्कुरुवृषभानजिह्मगैः; प्रवेरयन्यमसदनं रणे चरन् यशः परं जगति विभाव्य वर्तिता; परैर्हतो युधि शयिताथ वा पुनः
MBh 7.2.16
युधिष्ठिरो धृतिमतिधर्मतत्त्ववा;न्वृकोदरो गजशततुल्यविक्रमः तथार्जुनस्त्रिदशवरात्मजो यतो; न तद्बलं सुजयमथामरैरपि
MBh 7.2.17
यमौ रणे यत्र यमोपमौ बले; ससात्यकिर्यत्र च देवकीसुतः न तद्बलं कापुरुषोऽभ्युपेयिवा;न्निवर्तते मृत्युमुखादिवासकृत्
MBh 7.2.18
तपोऽभ्युदीर्णं तपसैव गम्यते; बलं बलेनापि तथा मनस्विभिः मनश्च मे शत्रुनिवारणे ध्रुवं; स्वरक्षणे चाचलवद्व्यवस्थितम्
MBh 7.2.19
एवं चैषां बुध्यमानः प्रभावं; गत्वैवाहं ताञ्जयाम्यद्य सूत मित्रद्रोहो मर्षणीयो न मेऽयं; भग्ने सैन्ये यः सहायः स मित्रम्
MBh 7.2.20
कर्तास्म्येतत्सत्पुरुषार्यकर्म; त्यक्त्वा प्राणाननुयास्यामि भीष्मम् सर्वान्संख्ये शत्रुसंघान्हनिष्ये; हतस्तैर्वा वीरलोकं गमिष्ये
MBh 7.2.21
संप्राक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे मया कृत्यमिति जानामि सूत; तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये
MBh 7.2.22
कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसं;स्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन् सर्वान्संख्ये शत्रुसंघान्निहत्य; दास्याम्यहं धार्तराष्ट्राय राज्यम्
MBh 7.2.23
निबध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि शिरस्त्राणं चार्कसमानभासं; धनुः शरांश्चापि विषाहिकल्पान्
MBh 7.2.24
उपासङ्गान्षोडश योजयन्तु; धनूंषि दिव्यानि तथाहरन्तु असींश्च शक्तीश्च गदाश्च गुर्वीः; शङ्खं च जाम्बूनदचित्रभासम्
MBh 7.2.25
एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे ध्वजमिन्दीवराभम् श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व; चित्रां मालां चात्र बद्ध्वा सजालाम्
MBh 7.2.26
अश्वानग्र्यान्पाण्डुराभ्रप्रकाशा;न्पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः तप्तैर्भाण्डैः काञ्चनैरभ्युपेता;ञ्शीघ्राञ्शीघ्रं सूतपुत्रानयस्व
MBh 7.2.27
रथं चाग्र्यं हेमजालावनद्धं; रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः द्रव्यैर्युक्तं संप्रहारोपपन्नै;र्वाहैर्युक्तं तूर्णमावर्तयस्व
MBh 7.2.28
चित्राणि चापानि च वेगवन्ति; ज्याश्चोत्तमाः संहननोपपन्नाः तूणांश्च पूर्णान्महतः शराणा;मासज्य गात्रावरणानि चैव
MBh 7.2.29
प्रायात्रिकं चानयताशु सर्वं; कन्याः पूर्णं वीरकांस्यं च हैमम् आनीय मालामवबध्य चाङ्गे; प्रवादयन्त्वाशु जयाय भेरीः
MBh 7.2.30
प्रयाहि सूताशु यतः किरीटी; वृकोदरो धर्मसुतो यमौ च तान्वा हनिष्यामि समेत्य संख्ये; भीष्माय वैष्यामि हतो द्विषद्भिः
MBh 7.2.31
यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः; समास्थितो भीमसेनार्जुनौ च वासुदेवः सात्यकिः सृञ्जयाश्च; मन्ये बलं तदजय्यं महीपैः
MBh 7.2.32
तं चेन्मृत्युः सर्वहरोऽभिरक्षे;त्सदाप्रमत्तः समरे किरीटिनम् तथापि हन्तास्मि समेत्य संख्ये; यास्यामि वा भीष्मपथा यमाय
MBh 7.2.33
न त्वेवाहं न गमिष्यामि तेषां; मध्ये शूराणां तत्तथाहं ब्रवीमि मित्रद्रुहो दुर्बलभक्तयो ये; पापात्मानो न ममैते सहायाः
MBh 7.2.34
संजय उवाच स सिद्धिमन्तं रथमुत्तमं दृढं; सकूबरं हेमपरिष्कृतं शुभम् पताकिनं वातजवैर्हयोत्तमै;र्युक्तं समास्थाय ययौ जयाय
MBh 7.2.35
संपूज्यमानः कुरुभिर्महात्मा; रथर्षभः पाण्डुरवाजियाता ययौ तदायोधनमुग्रधन्वा; यत्रावसानं भरतर्षभस्य
MBh 7.2.36
वरूथिना महता सध्वजेन; सुवर्णमुक्तामणिवज्रशालिना सदश्वयुक्तेन रथेन कर्णो; मेघस्वनेनार्क इवामितौजाः
MBh 7.2.37
हुताशनाभः स हुताशनप्रभे; शुभः शुभे वै स्वरथे धनुर्धरः स्थितो रराजाधिरथिर्महारथः; स्वयं विमाने सुरराडिव स्थितः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 37 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.2local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷