🪷 Mahābhārata · Droṇa-Parva · Chapter 1

The Book of Droṇa · Parva 7 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 49 Shlokas

MBh 7.1.1
जनमेजय उवाच तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना
MBh 7.1.2
धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः किमचेष्टत विप्रर्षे हते पितरि वीर्यवान्
MBh 7.1.3
तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति
MBh 7.1.4
तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम
MBh 7.1.5
वैशंपायन उवाच निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः
MBh 7.1.6
तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा
MBh 7.1.7
शिबिरात्संजयं प्राप्तं निशि नागाह्वयं पुरम् आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत
MBh 7.1.8
श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा
MBh 7.1.9
धृतराष्ट्र उवाच संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम् किमकार्षुः परं तात कुरवः कालचोदिताः
MBh 7.1.10
तस्मिन्विनिहते शूरे दुराधर्षे महौजसि किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे
MBh 7.1.11
तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि संजय भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम्
MBh 7.1.12
देवव्रते तु निहते कुरूणामृषभे तदा यदकार्षुर्नृपतयस्तन्ममाचक्ष्व संजय
MBh 7.1.13
संजय उवाच शृणु राजन्नेकमना वचनं ब्रुवतो मम यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे
MBh 7.1.14
निहते तु तदा भीष्मे राजन्सत्यपराक्रमे तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक्
MBh 7.1.15
विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने
MBh 7.1.16
शयनं कल्पयामासुर्भीष्मायामिततेजसे सोपधानं नरव्याघ्र शरैः संनतपर्वभिः
MBh 7.1.17
विधाय रक्षां भीष्माय समाभाष्य परस्परम् अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम्
MBh 7.1.18
क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम् पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः
MBh 7.1.19
ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः तावकानामनीकानि परेषां चापि निर्ययुः
MBh 7.1.20
व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते अमर्षवशमापन्नाः कालोपहतचेतसः
MBh 7.1.21
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः
MBh 7.1.22
मोहात्तव सपुत्रस्य वधाच्छांतनवस्य च कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः
MBh 7.1.23
अजावय इवागोपा वने श्वापदसंकुले भृशमुद्विग्नमनसो हीना देवव्रतेन ते
MBh 7.1.24
पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना
MBh 7.1.25
विपन्नसस्येव मही वाक्चैवासंस्कृता यथा आसुरीव यथा सेना निगृहीते पुरा बलौ
MBh 7.1.26
विधवेव वरारोहा शुष्कतोयेव निम्नगा वृकैरिव वने रुद्धा पृषती हतयूथपा
MBh 7.1.27
स्वाधर्षा हतसिंहेव महती गिरिकन्दरा भारती भरतश्रेष्ठ पतिते जाह्नवीसुते
MBh 7.1.28
विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता
MBh 7.1.29
सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ
MBh 7.1.30
तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः पाताल इव मज्जन्तो हीना देवव्रतेन ते कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः
MBh 7.1.31
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् बन्धुमापद्गतस्येव तमेवोपागमन्मनः
MBh 7.1.32
चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम्
MBh 7.1.33
स हि नायुध्यत तदा दशाहानि महायशाः सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम्
MBh 7.1.34
भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः रथेषु गण्यमानेषु बलविक्रमशालिषु संख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः
MBh 7.1.35
रथातिरथसंख्यायां योऽग्रणीः शूरसंमतः पितृवित्ताम्बुदेवेशानपि यो योद्धुमुत्सहेत्
MBh 7.1.36
स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् त्वयि जीवति कौरव्य नाहं योत्स्ये कथंचन
MBh 7.1.37
त्वया तु पाण्डवेयेषु निहतेषु महामृधे दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव
MBh 7.1.38
पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान्
MBh 7.1.39
एवमुक्त्वा महाराज दशाहानि महायशाः नायुध्यत ततः कर्णः पुत्रस्य तव संमते
MBh 7.1.40
भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव जघान समरे योधानसंख्येयपराक्रमः
MBh 7.1.41
तस्मिंस्तु निहते शूरे सत्यसंधे महौजसि त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम्
MBh 7.1.42
तावकास्तव पुत्राश्च सहिताः सर्वराजभिः हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवन्
MBh 7.1.43
जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव
MBh 7.1.44
स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभयात् त्रिदशानिव गोविन्दः सततं सुमहाभयात्
MBh 7.1.45
वैशंपायन उवाच तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम्
MBh 7.1.46
यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम्
MBh 7.1.47
अपि तन्न मृषाकार्षीद्युधि सत्यपराक्रमः संभ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम्
MBh 7.1.48
अपि तत्पूरयां चक्रे धनुर्धरवरो युधि यत्तद्विनिहते भीष्मे कौरवाणामपावृतम्
MBh 7.1.49
तत्खण्डं पूरयामास परेषामादधद्भयम् कृतवान्मम पुत्राणां जयाशां सफलामपि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 49 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.1local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷