🪷 Mahābhārata · Droṇa-Parva · Chapter 19
The Book of Droṇa · Parva 7 · 64 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 64 Shlokas
MBh 7.19.1
संजय उवाच
परिणाम्य निशां तां तु भारद्वाजो महारथः
बहूक्त्वा च ततो राजन्राजानं च सुयोधनम्
MBh 7.19.2
विधाय योगं पार्थेन संशप्तकगणैः सह
निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति
MBh 7.19.3
व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम्
अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया
MBh 7.19.4
व्यूहं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा
व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः
MBh 7.19.5
मुखमासीत्सुपर्णस्य भारद्वाजो महारथः
शिरो दुर्योधनो राजा सोदर्यैः सानुगैः सह
MBh 7.19.6
चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः
भूतवर्मा क्षेमशर्मा करकर्षश्च वीर्यवान्
MBh 7.19.7
कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः
शका यवनकाम्बोजास्तथा हंसपदाश्च ये
MBh 7.19.8
ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः
गजाश्वरथपत्त्यौघास्तस्थुः शतसहस्रशः
MBh 7.19.9
भूरिश्रवाः शलः शल्यः सोमदत्तश्च बाह्लिकः
अक्षौहिण्या वृता वीरा दक्षिणं पक्षमाश्रिताः
MBh 7.19.10
विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः
वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः
MBh 7.19.11
पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः
गान्धाराः शकुनिप्राग्याः पार्वतीया वसातयः
MBh 7.19.12
पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः
महत्या सेनया तस्थौ नानाध्वजसमुत्थया
MBh 7.19.13
जयद्रथो भीमरथः सांयात्रिकसभो जयः
भूमिंजयो वृषक्राथो नैषधश्च महाबलः
MBh 7.19.14
वृता बलेन महता ब्रह्मलोकपुरस्कृताः
व्यूहस्योपरि ते राजन्स्थिता युद्धविशारदाः
MBh 7.19.15
द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः
वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते
MBh 7.19.16
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः
सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे
MBh 7.19.17
तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम्
आस्थितः शुशुभे राजन्नंशुमानुदये यथा
MBh 7.19.18
माल्यदामवता राजा श्वेतच्छत्रेण धार्यता
कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना
MBh 7.19.19
नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ
अभिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान्
MBh 7.19.20
नानानृपतिभिर्वीरैर्विविधायुधभूषणैः
समन्वितः पार्वतीयैः शक्रो देवगणैरिव
MBh 7.19.21
ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम्
अजय्यमरिभिः संख्ये पार्षतं वाक्यमब्रवीत्
MBh 7.19.22
ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो
पारावतसवर्णाश्व तथा नीतिर्विधीयताम्
MBh 7.19.23
धृष्टद्युम्न उवाच
द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत
अहमावारयिष्यामि द्रोणमद्य सहानुगम्
MBh 7.19.24
मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि
न हि शक्तो रणे द्रोणो विजेतुं मां कथंचन
MBh 7.19.25
संजय उवाच
एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली
पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत्
MBh 7.19.26
अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम्
क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव
MBh 7.19.27
तं तु संप्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्शनः
प्रियं चिकीर्षन्द्रोणस्य धृष्टद्युम्नमवारयत्
MBh 7.19.28
स संप्रहारस्तुमुलः समरूप इवाभवत्
पार्षतस्य च शूरस्य दुर्मुखस्य च भारत
MBh 7.19.29
पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम्
भारद्वाजं शरौघेण महता समवारयत्
MBh 7.19.30
द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः
नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत्
MBh 7.19.31
तयोर्विषक्तयोः संख्ये पाञ्चाल्यकुरुमुख्ययोः
द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः
MBh 7.19.32
अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः
तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित्
MBh 7.19.33
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम्
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत
MBh 7.19.34
नैव स्वे न परे राजन्नज्ञायन्त परस्परम्
अनुमानेन संज्ञाभिर्युद्धं तत्समवर्तत
MBh 7.19.35
चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु
तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे
MBh 7.19.36
तत्प्रकीर्णपताकानां रथवारणवाजिनाम्
बलाकाशबलाभ्राभं ददृशे रूपमाहवे
MBh 7.19.37
नरानेव नरा जघ्नुरुदग्राश्च हया हयान्
रथांश्च रथिनो जघ्नुर्वारणा वरवारणान्
MBh 7.19.38
समुच्छ्रितपताकानां गजानां परमद्विपैः
क्षणेन तुमुलो घोरः संग्रामः समवर्तत
MBh 7.19.39
तेषां संसक्तगात्राणां कर्षतामितरेतरम्
दन्तसंघातसंघर्षात्सधूमोऽग्निरजायत
MBh 7.19.40
विप्रकीर्णपताकास्ते विषाणजनिताग्नयः
बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः
MBh 7.19.41
विक्षरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः
संबभूव मही कीर्णा मेघैर्द्यौरिव शारदी
MBh 7.19.42
तेषामाहन्यमानानां बाणतोमरवृष्टिभिः
वारणानां रवो जज्ञे मेघानामिव संप्लवे
MBh 7.19.43
तोमराभिहताः केचिद्बाणैश्च परमद्विपाः
वित्रेसुः सर्वभूतानां शब्दमेवापरेऽव्रजन्
MBh 7.19.44
विषाणाभिहताश्चापि केचित्तत्र गजा गजैः
चक्रुरार्तस्वरं घोरमुत्पातजलदा इव
MBh 7.19.45
प्रतीपं ह्रियमाणाश्च वारणा वरवारणैः
उन्मथ्य पुनराजह्रुः प्रेरिताः परमाङ्कुशैः
MBh 7.19.46
महामात्रा महामात्रैस्ताडिताः शरतोमरैः
गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः
MBh 7.19.47
निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः
छिन्नाभ्राणीव संपेतुः संप्रविश्य परस्परम्
MBh 7.19.48
हतान्परिवहन्तश्च यन्त्रिताः परमायुधैः
दिशो जग्मुर्महानागाः केचिदेकचरा इव
MBh 7.19.49
ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वधैः
पेतुरार्तस्वरं कृत्वा तदा विशसने गजाः
MBh 7.19.50
तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः
आहता सहसा भूमिश्चकम्पे च ननाद च
MBh 7.19.51
सादितैः सगजारोहैः सपताकैः समन्ततः
मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः
MBh 7.19.52
गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे
रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः
MBh 7.19.53
क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः
परान्स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश
MBh 7.19.54
गजाश्वरथसंघानां शरीरौघसमावृता
बभूव पृथिवी राजन्मांसशोणितकर्दमा
MBh 7.19.55
प्रमथ्य च विषाणाग्रैः समुत्क्षिप्य च वारणैः
सचक्राश्च विचक्राश्च रथैरेव महारथाः
MBh 7.19.56
रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः
हतारोहाश्च मातङ्गा दिशो जग्मुः शरातुराः
MBh 7.19.57
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा
इत्यासीत्तुमुलं युद्धं न प्रज्ञायत किंचन
MBh 7.19.58
आ गुल्फेभ्योऽवसीदन्त नराः शोणितकर्दमे
दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः
MBh 7.19.59
शोणितैः सिच्यमानानि वस्त्राणि कवचानि च
छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत
MBh 7.19.60
हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः
संवृत्ताः पुनरावृत्ता बहुधा रथनेमिभिः
MBh 7.19.61
स गजौघमहावेगः परासुनरशैवलः
रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः
MBh 7.19.62
तं वाहनमहानौभिर्योधा जयधनैषिणः
अवगाह्यावमज्जन्तो नैव मोहं प्रचक्रिरे
MBh 7.19.63
शरवर्षाभिवृष्टेषु योधेष्वजितलक्ष्मसु
न हि स्वचित्ततां लेभे कश्चिदाहतलक्षणः
MBh 7.19.64
वर्तमाने तथा युद्धे घोररूपे भयंकरे
मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 18
- Next chapter · Droṇa-Parva Ch 20 →
Sources and Connected Readings
Continue from these 64 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.19local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷