🪷 Mahābhārata · Droṇa-Parva · Chapter 18

The Book of Droṇa · Parva 7 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 39 Shlokas

MBh 7.18.1
संजय उवाच दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः वासुदेवं महात्मानमर्जुनः समभाषत
MBh 7.18.2
चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः
MBh 7.18.3
पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव
MBh 7.18.4
ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः
MBh 7.18.5
बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः
MBh 7.18.6
मण्डलानि ततश्चक्रे गतप्रत्यागतानि च यथा शक्ररथो राजन्युद्धे देवासुरे पुरा
MBh 7.18.7
अथ नारायणाः क्रुद्धा विविधायुधपाणयः छादयन्तः शरव्रातैः परिवव्रुर्धनंजयम्
MBh 7.18.8
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम्
MBh 7.18.9
क्रुद्धस्तु फल्गुनः संख्ये द्विगुणीकृतविक्रमः गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे
MBh 7.18.10
बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम् देवदत्तं महाशङ्खं पूरयामास पाण्डवः
MBh 7.18.11
अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक्
MBh 7.18.12
आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे
MBh 7.18.13
अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे
MBh 7.18.14
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः
MBh 7.18.15
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम्
MBh 7.18.16
अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः
MBh 7.18.17
ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च
MBh 7.18.18
ततो नैवार्जुनस्तत्र न रथो न च केशवः प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः
MBh 7.18.19
ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा
MBh 7.18.20
भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष
MBh 7.18.21
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन्
MBh 7.18.22
तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत्
MBh 7.18.23
ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् उवाह भगवान्वायुः शुष्कपर्णचयानिव
MBh 7.18.24
उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष
MBh 7.18.25
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः जघान निशितैर्बाणैः सहस्राणि शतानि च
MBh 7.18.26
शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत्
MBh 7.18.27
पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन् नानाङ्गावयवैर्हीनांश्चकारारीन्धनंजयः
MBh 7.18.28
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान्
MBh 7.18.29
मुण्डतालवनानीव तत्र तत्र चकाशिरे छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित्
MBh 7.18.30
सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः
MBh 7.18.31
चामरापीडकवचाः स्रस्तान्त्रनयनासवः सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ
MBh 7.18.32
विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः
MBh 7.18.33
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ
MBh 7.18.34
रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः मही चाप्यभवद्दुर्गा कबन्धशतसंकुला
MBh 7.18.35
तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून्
MBh 7.18.36
ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः
MBh 7.18.37
सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समन्ततः
MBh 7.18.38
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत्
MBh 7.18.39
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.18local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷