🪷 Mahābhārata · Droṇa-Parva · Chapter 16
The Book of Droṇa · Parva 7 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 49 Shlokas
MBh 7.16.1
संजय उवाच
ते सेने शिबिरं गत्वा न्यविशेतां विशां पते
यथाभागं यथान्यायं यथागुल्मं च सर्वशः
MBh 7.16.2
कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः
दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत्
MBh 7.16.3
उक्तमेतन्मया पूर्वं न तिष्ठति धनंजये
शक्यो ग्रहीतुं संग्रामे देवैरपि युधिष्ठिरः
MBh 7.16.4
इति तद्वः प्रयततां कृतं पार्थेन संयुगे
मातिशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ
MBh 7.16.5
अपनीते तु योगेन केनचिच्छ्वेतवाहने
तत एष्यति ते राजन्वशमद्य युधिष्ठिरः
MBh 7.16.6
कश्चिदाह्वयतां संख्ये देशमन्यं प्रकर्षतु
तमजित्वा तु कौन्तेयो न निवर्तेत्कथंचन
MBh 7.16.7
एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप
ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः
MBh 7.16.8
अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम्
मामुपायान्तमालोक्य गृहीतमिति विद्धि तम्
MBh 7.16.9
एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम्
समानेष्यामि सगणं वशमद्य न संशयः
MBh 7.16.10
यदि तिष्ठति संग्रामे मुहूर्तमपि पाण्डवः
अथापयाति संग्रामाद्विजयात्तद्विशिष्यते
MBh 7.16.11
द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः
भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत्
MBh 7.16.12
वयं विनिकृता राजन्सदा गाण्डीवधन्वना
अनागःस्वपि चागस्कृदस्मासु भरतर्षभ
MBh 7.16.13
ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान्
क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः
MBh 7.16.14
स नो दिव्यास्त्रसंपन्नश्चक्षुर्विषयमागतः
कर्तारः स्म वयं सर्वं यच्चिकीर्षाम हृद्गतम्
MBh 7.16.15
भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम्
वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः
MBh 7.16.16
अद्यास्त्वनर्जुना भूमिरत्रिगर्ताथ वा पुनः
सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति
MBh 7.16.17
एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत
सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च
MBh 7.16.18
सहिता भ्रातरः पञ्च रथानामयुतेन च
न्यवर्तन्त महाराज कृत्वा शपथमाहवे
MBh 7.16.19
मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः
सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः
MBh 7.16.20
माचेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि
रथानामयुतेनैव सोऽशपद्भ्रातृभिः सह
MBh 7.16.21
नानाजनपदेभ्यश्च रथानामयुतं पुनः
समुत्थितं विशिष्टानां संशपार्थमुपागतम्
MBh 7.16.22
ततो ज्वलनमादाय हुत्वा सर्वे पृथक्पृथक्
जगृहुः कुशचीराणि चित्राणि कवचानि च
MBh 7.16.23
ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः
मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः
MBh 7.16.24
यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः
योक्ष्यमाणास्तदात्मानं यशसा विजयेन च
MBh 7.16.25
ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः
प्राप्य लोकान्सुयुद्धेन क्षिप्रमेव यियासवः
MBh 7.16.26
ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्त्वा पृथक्पृथक्
गाश्च वासांसि च पुनः समाभाष्य परस्परम्
MBh 7.16.27
प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणे व्रतम्
तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः
MBh 7.16.28
शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे
धृत्वा धनंजयवधे प्रतिज्ञां चापि चक्रिरे
MBh 7.16.29
ये वै लोकाश्चानृतानां ये चैव ब्रह्मघातिनाम्
पानपस्य च ये लोका गुरुदाररतस्य च
MBh 7.16.30
ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः
शरणागतं च त्यजतो याचमानं तथा घ्नतः
MBh 7.16.31
अगारदाहिनां ये च ये च गां निघ्नतामपि
अपचारिणां च ये लोका ये च ब्रह्मद्विषामपि
MBh 7.16.32
जायां च ऋतुकाले वै ये मोहादभिगच्छताम्
श्राद्धसंगतिकानां च ये चाप्यात्मापहारिणाम्
MBh 7.16.33
न्यासापहारिणां ये च श्रुतं नाशयतां च ये
कोपेन युध्यमानानां ये च नीचानुसारिणाम्
MBh 7.16.34
नास्तिकानां च ये लोका येऽग्निहोरापितृत्यजाम्
तानाप्नुयामहे लोकान्ये च पापकृतामपि
MBh 7.16.35
यद्यहत्वा वयं युद्धे निवर्तेम धनंजयम्
तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः
MBh 7.16.36
यदि त्वसुकरं लोके कर्म कुर्याम संयुगे
इष्टान्पुण्यकृतां लोकान्प्राप्नुयाम न संशयः
MBh 7.16.37
एवमुक्त्वा ततो राजंस्तेऽभ्यवर्तन्त संयुगे
आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति
MBh 7.16.38
आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरंजयः
धर्मराजमिदं वाक्यमपदान्तरमब्रवीत्
MBh 7.16.39
आहूतो न निवर्तेयमिति मे व्रतमाहितम्
संशप्तकाश्च मां राजन्नाह्वयन्ति पुनः पुनः
MBh 7.16.40
एष च भ्रातृभिः सार्धं सुशर्माह्वयते रणे
वधाय सगणस्यास्य मामनुज्ञातुमर्हसि
MBh 7.16.41
नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ
सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि
MBh 7.16.42
युधिष्ठिर उवाच
श्रुतमेतत्त्वया तात यद्द्रोणस्य चिकीर्षितम्
यथा तदनृतं तस्य भवेत्तद्वत्समाचर
MBh 7.16.43
द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः
प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ
MBh 7.16.44
अर्जुन उवाच
अयं वै सत्यजिद्राजन्नद्य ते रक्षिता युधि
ध्रियमाणे हि पाञ्चाल्ये नाचार्यः काममाप्स्यति
MBh 7.16.45
हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो
सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन
MBh 7.16.46
संजय उवाच
अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः
प्रेम्णा दृष्टश्च बहुधा आशिषा च प्रयोजितः
MBh 7.16.47
विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली
क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव
MBh 7.16.48
ततो दौर्योधनं सैन्यं मुदा परमया युतम्
गतेऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे
MBh 7.16.49
ततोऽन्योन्येन ते सेने समाजग्मतुरोजसा
गङ्गासरय्वोर्वेगेन प्रावृषीवोल्बणोदके
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 15
- Next chapter · Droṇa-Parva Ch 17 →
Sources and Connected Readings
Continue from these 49 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.16local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷