🪷 Mahābhārata · Droṇa-Parva · Chapter 15

The Book of Droṇa · Parva 7 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 52 Shlokas

MBh 7.15.1
संजय उवाच तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया
MBh 7.15.2
शरा दश दिशो मुक्ता वृषसेनेन मारिष विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान्
MBh 7.15.3
तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः भानोरिव महाबाहो ग्रीष्मकाले मरीचयः
MBh 7.15.4
तेनार्दिता महाराज रथिनः सादिनस्तथा निपेतुरुर्व्यां सहसा वातनुन्ना इव द्रुमाः
MBh 7.15.5
हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः अपातयद्रणे राजञ्शतशोऽथ सहस्रशः
MBh 7.15.6
दृष्ट्वा तमेवं समरे विचरन्तमभीतवत् सहिताः सर्वराजानः परिवव्रुः समन्ततः
MBh 7.15.7
नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः
MBh 7.15.8
तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः
MBh 7.15.9
कर्णात्मजं शरव्रातैश्चक्रुश्चादृश्यमञ्जसा तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः
MBh 7.15.10
छादयन्तो महाराज द्रौपदेयान्महारथान् शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव
MBh 7.15.11
तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः
MBh 7.15.12
तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः
MBh 7.15.13
एवमुत्तमसंरम्भा युयुधुः कुरुपाण्डवाः परस्परमुदीक्षन्तः परस्परकृतागसः
MBh 7.15.14
तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम् युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम्
MBh 7.15.15
भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः बभासे स रणोद्देशः कालसूर्यैरिवोदितैः
MBh 7.15.16
तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् महाबलानां बलिभिर्दानवानां यथा सुरैः
MBh 7.15.17
ततो युधिष्ठिरानीकमुद्धूतार्णवनिस्वनम् त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम्
MBh 7.15.18
तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत
MBh 7.15.19
ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत्
MBh 7.15.20
तमविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत्
MBh 7.15.21
चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः दधार द्रोणमायान्तं वेलेव सरितां पतिम्
MBh 7.15.22
द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम्
MBh 7.15.23
कुमारस्तु ततो द्रोणं सायकेन महाहवे विव्याधोरसि संक्रुद्धः सिंहवच्चानदन्मुहुः
MBh 7.15.24
संवार्य तु रणे द्रोणः कुमारं वै महाबलः शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः
MBh 7.15.25
तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम् चक्ररक्षमपामृद्नात्कुमारं द्विजसत्तमः
MBh 7.15.26
स मध्यं प्राप्य सेनायाः सर्वाः परिचरन्दिशः तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः
MBh 7.15.27
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः
MBh 7.15.28
युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः
MBh 7.15.29
व्यक्षोभयद्रणे योधान्यथामुख्यानभिद्रवन् अभ्यवर्तत संप्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्
MBh 7.15.30
युगंधरस्ततो राजन्भारद्वाजं महारथम् वारयामास संक्रुद्धं वातोद्धूतमिवार्णवम्
MBh 7.15.31
युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः युगंधरं च भल्लेन रथनीडादपाहरत्
MBh 7.15.32
ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः व्याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान्
MBh 7.15.33
एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून्
MBh 7.15.34
व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः पञ्चाशद्भिः शितै राजंस्तत उच्चुक्रुशुर्जनाः
MBh 7.15.35
त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् प्राहसत्सहसा हृष्टस्त्रासयन्वै यतव्रतम्
MBh 7.15.36
ततो विस्फार्य नयने धनुर्ज्यामवमृज्य च तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत्
MBh 7.15.37
ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामहरद्बली
MBh 7.15.38
तान्प्रमृद्य शरव्रातैः पाण्डवानां महारथान् युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः
MBh 7.15.39
ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले हृतो राजेति योधानां समीपस्थे यतव्रते
MBh 7.15.40
अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे
MBh 7.15.41
एवं संजल्पतां तेषां तावकानां महारथः आयाज्जवेन कौन्तेयो रथघोषेण नादयन्
MBh 7.15.42
शोणितोदां रथावर्तां कृत्वा विशसने नदीम् शूरास्थिचयसंकीर्णां प्रेतकूलापहारिणीम्
MBh 7.15.43
तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः
MBh 7.15.44
ततः किरीटी सहसा द्रोणानीकमुपाद्रवत् छादयन्निषुजालेन महता मोहयन्निव
MBh 7.15.45
शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः
MBh 7.15.46
न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी अदृश्यत महाराज बाणभूतमिवाभवत्
MBh 7.15.47
नादृश्यत तदा राजंस्तत्र किंचन संयुगे बाणान्धकारे महति कृते गाण्डीवधन्वना
MBh 7.15.48
सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते नाज्ञायत तदा शत्रुर्न सुहृन्न च किंचन
MBh 7.15.49
ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः तान्विदित्वा भृशं त्रस्तानयुद्धमनसः परान्
MBh 7.15.50
स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः
MBh 7.15.51
एवं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनंजयः पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः
MBh 7.15.52
मसारगल्वर्कसुवर्णरूप्यै;र्वज्रप्रवालस्फटिकैश्च मुख्यैः चित्रे रथे पाण्डुसुतो बभासे; नक्षत्रचित्रे वियतीव चन्द्रः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 52 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.15local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷