🪷 Mahābhārata · Droṇa-Parva · Chapter 145

The Book of Droṇa · Parva 7 · 68 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 68 Shlokas

MBh 7.145.1
संजय उवाच तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत
MBh 7.145.2
संमृजानो धनुः श्रेष्ठं ज्यां विकर्षन्पुनः पुनः अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम्
MBh 7.145.3
धृष्टद्युम्नं तदायान्तं द्रोणस्यान्तचिकीर्षया परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह
MBh 7.145.4
तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम् पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे
MBh 7.145.5
बलार्णवौ ततस्तौ तु समेयातां निशामुखे वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराविव
MBh 7.145.6
ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः विव्याध हृदये तूर्णं सिंहनादं ननाद च
MBh 7.145.7
तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे चिच्छेदान्येन भल्लेन धनुरस्य महाप्रभम्
MBh 7.145.8
धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ उत्ससर्ज धनुस्तूर्णं संदश्य दशनच्छदम्
MBh 7.145.9
ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान् आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्तचिकीर्षया
MBh 7.145.10
विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः
MBh 7.145.11
स विसृष्टो बलवता शरो घोरो महामृधे भासयामास तत्सैन्यं दिवाकर इवोदितः
MBh 7.145.12
तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः
MBh 7.145.13
तं तु सायकमप्राप्तमाचार्यस्य रथं प्रति कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत्
MBh 7.145.14
स छिन्नो बहुधा राजन्सूतपुत्रेण मारिष निपपात शरस्तूर्णं निकृत्तः कर्णसायकैः
MBh 7.145.15
छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः धृष्टद्युम्नं रणे कर्णो विव्याध दशभिः शरैः
MBh 7.145.16
पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणश्च सप्तभिः शल्यश्च नवभिर्बाणैस्त्रिभिर्दुःशासनस्तथा
MBh 7.145.17
दुर्योधनश्च विंशत्या शकुनिश्चापि पञ्चभिः पाञ्चाल्यं त्वरिताविध्यन्सर्व एव महारथाः
MBh 7.145.18
स विद्धः सप्तभिर्वीरैर्द्रोणत्राणार्थमाहवे सर्वानसंभ्रमाद्राजन्प्रत्यविध्यत्त्रिभिस्त्रिभिः द्रोणं द्रौणिं च कर्णं च विव्याध तव चात्मजम्
MBh 7.145.19
ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर्मृधे विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः
MBh 7.145.20
द्रुमसेनस्तु संक्रुद्धो राजन्विव्याध पत्रिणा त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्
MBh 7.145.21
स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर्युधि
MBh 7.145.22
भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम् उन्ममाथ शिरः कायाद्द्रुमसेनस्य वीर्यवान्
MBh 7.145.23
तच्छिरो न्यपतद्भूमौ संदष्टौष्ठपुटं रणे महावातसमुद्धूतं पक्वं तालफलं यथा
MBh 7.145.24
तांश्च विद्ध्वा पुनर्वीरान्वीरः सुनिशितैः शरैः राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः
MBh 7.145.25
न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा निकर्तनमिवात्युग्रो लाङ्गूलस्य यथा हरिः
MBh 7.145.26
सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन् अभ्यवर्षच्छरौघैस्तं धृष्टद्युम्नं महाबलम्
MBh 7.145.27
दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड्रथर्षभाः पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया
MBh 7.145.28
षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि
MBh 7.145.29
एतस्मिन्नेव काले तु दाशार्हो विकिरञ्शरान् धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत
MBh 7.145.30
तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम् राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः
MBh 7.145.31
तं सात्यकिर्महाराज विव्याध दशभिः शरैः पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत्
MBh 7.145.32
स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः आसीत्समागमो घोरो बलिवासवयोरिव
MBh 7.145.33
त्रासयंस्तलघोषेण क्षत्रियान्क्षत्रियर्षभः राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत
MBh 7.145.34
कम्पयन्निव घोषेण धनुषो वसुधां बली सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत्
MBh 7.145.35
विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि कर्णः शरशतैश्चापि शैनेयं प्रत्यविध्यत
MBh 7.145.36
तथैव युयुधानोऽपि वृष्णीनां प्रवरो रथः अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम्
MBh 7.145.37
तावकाश्च महाराज कर्णपुत्रश्च दंशितः सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः
MBh 7.145.38
अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य चाभिभो अविध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे
MBh 7.145.39
तेन बाणेन निर्विद्धो वृषसेनो विशां पते न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान्
MBh 7.145.40
ततः कर्णो हतं मत्वा वृषसेनं महारथः पुत्रशोकाभिसंतप्तः सात्यकिं प्रत्यपीडयत्
MBh 7.145.41
पीड्यमानस्तु कर्णेन युयुधानो महारथः विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः
MBh 7.145.42
स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः सहस्तावापधनुषी तयोश्चिच्छेद सात्वतः
MBh 7.145.43
तावन्ये धनुषी सज्ये कृत्वा शत्रुभयंकरे युयुधानमविध्येतां समन्तान्निशितैः शरैः
MBh 7.145.44
वर्तमाने तु संग्रामे तस्मिन्वीरवरक्षये अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः
MBh 7.145.45
श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्वनम् सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः
MBh 7.145.46
एष सर्वाञ्शिबीन्हत्वा मुख्यशश्च नरर्षभान् पौरवांश्च महेष्वासान्गाण्डीवनिनदो महान्
MBh 7.145.47
श्रूयते रथघोषश्च वासवस्येव नर्दतः करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः
MBh 7.145.48
एषा विदीर्यते राजन्बहुधा भारती चमूः विप्रकीर्णान्यनीकानि नावतिष्ठन्ति कर्हिचित्
MBh 7.145.49
वातेनेव समुद्धूतमभ्रजालं विदीर्यते सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे
MBh 7.145.50
द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः विद्धानां शतशो राजञ्श्रूयते निनदो महान् निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे
MBh 7.145.51
हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान् शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति
MBh 7.145.52
अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वताधमः इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान्
MBh 7.145.53
एष पाञ्चालराजस्य पुत्रो द्रोणेन संगतः सर्वतः संवृतो योधै राजन्पुरुषसत्तमैः
MBh 7.145.54
सात्यकिं यदि हन्यामो धृष्टद्युम्नं च पार्षतम् असंशयं महाराज ध्रुवो नो विजयो भवेत्
MBh 7.145.55
सौभद्रवदिमौ वीरौ परिवार्य महारथौ प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ
MBh 7.145.56
सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुंगवैः
MBh 7.145.57
तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम्
MBh 7.145.58
ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम् यथा तूर्णं व्रजत्येष परलोकाय माधवः
MBh 7.145.59
कर्णस्य मतमाज्ञाय पुत्रस्ते प्राह सौबलम् यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम्
MBh 7.145.60
वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम् रथैश्च दशसाहस्रैर्वृतो याहि धनंजयम्
MBh 7.145.61
दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः
MBh 7.145.62
जहि कृष्णौ महाबाहो धर्मराजं च मातुल नकुलं सहदेवं च भीमसेनं च भारत
MBh 7.145.63
देवानामिव देवेन्द्रे जयाशा मे त्वयि स्थिता जहि मातुल कौन्तेयानसुरानिव पावकिः
MBh 7.145.64
एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः महत्या सेनया सार्धं तव पुत्रैस्तथा विभो
MBh 7.145.65
प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् ततः प्रववृते युद्धं तावकानां परैः सह
MBh 7.145.66
प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् बलेन महता युक्तः सूतपुत्रस्तु सात्वतम्
MBh 7.145.67
अभ्ययात्त्वरितं युद्धे किरञ्शरशतान्बहून् तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन्
MBh 7.145.68
महद्युद्धं तदासीत्तु द्रोणस्य निशि भारत धृष्टद्युम्नेन शूरेण पाञ्चालैश्च महात्मनः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 68 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.145local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷