🪷 Mahābhārata · Droṇa-Parva · Chapter 146

The Book of Droṇa · Parva 7 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 51 Shlokas

MBh 7.146.1
संजय उवाच ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः अमृष्यमाणाः संरब्धा युयुधानरथं प्रति
MBh 7.146.2
ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः सादिभिश्च गजैश्चैव परिवव्रुः स्म सात्वतम्
MBh 7.146.3
अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः सिंहनादांस्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम्
MBh 7.146.4
तेऽभ्यवर्षञ्शरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् त्वरमाणा महावीर्या माधवस्य वधैषिणः
MBh 7.146.5
तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून्
MBh 7.146.6
तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः
MBh 7.146.7
हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान् क्षुरप्रैः पातयामास तावकानां स माधवः
MBh 7.146.8
पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो
MBh 7.146.9
तेषां तु युयुधानेन युध्यतां युधि भारत बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम्
MBh 7.146.10
तेन शब्देन महता पूरितासीद्वसुंधरा रात्रिः समभवच्चैव तीव्ररूपा भयावहा
MBh 7.146.11
दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम्
MBh 7.146.12
सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः
MBh 7.146.13
तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान् सूतः संचोदयामास युयुधानरथं प्रति
MBh 7.146.14
ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत्
MBh 7.146.15
ततः पूर्णायतोत्सृष्टैर्मांसशोणितभोजनैः दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत
MBh 7.146.16
दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः
MBh 7.146.17
ततः समभवद्युद्धमाकुलं भरतर्षभ पाञ्चालानां च सर्वेषां भारतानां च दारुणम्
MBh 7.146.18
शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् सायकानामशीत्या तु विव्याधोरसि भारत
MBh 7.146.19
ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् सारथिं च रथात्तूर्णं पातयामास पत्रिणा
MBh 7.146.20
हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति
MBh 7.146.21
शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत् चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते
MBh 7.146.22
अथापरेण भल्लेन मुष्टिदेशे महद्धनुः चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष
MBh 7.146.23
विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः
MBh 7.146.24
दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् द्रावयामास विशिखैर्निशामध्ये विशां पते
MBh 7.146.25
शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः रथैरनेकसाहस्रैर्गजैश्चैव सहस्रशः तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत्
MBh 7.146.26
ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः
MBh 7.146.27
तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम्
MBh 7.146.28
ततस्तु समरे शूरः शकुनिः सौबलस्तदा विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव
MBh 7.146.29
पुनश्चैव शतेनास्य संरुरोध महारथम् तमर्जुनस्तु विंशत्या विव्याध युधि भारत
MBh 7.146.30
अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत संवार्य तान्बाणगणैर्युधि राजन्धनंजयः अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान्
MBh 7.146.31
भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः समास्तीर्णा धरा तत्र बभौ पुष्पैरिवाचिता
MBh 7.146.32
स विद्ध्वा शकुनिं भूयः पञ्चभिर्नतपर्वभिः उलूकं त्रिभिराजघ्ने त्रिभिरेव महायसैः
MBh 7.146.33
तमुलूकस्तथा विद्ध्वा वासुदेवमताडयत् ननाद च महानादं पूरयन्वसुधातलम्
MBh 7.146.34
अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत् निन्ये च चतुरो वाहान्यमस्य सदनं प्रति
MBh 7.146.35
ततो रथादवप्लुत्य सौबलो भरतर्षभ उलूकस्य रथं तूर्णमारुरोह विशां पते
MBh 7.146.36
तावेकरथमारूढौ पितापुत्रौ महारथौ पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवोत्थितौ
MBh 7.146.37
तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः
MBh 7.146.38
अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः विच्छिन्नानि तथा राजन्बलान्यासन्विशां पते
MBh 7.146.39
तद्बलं भरतश्रेष्ठ वध्यमानं तथा निशि प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम्
MBh 7.146.40
उत्सृज्य वाहान्समरे चोदयन्तस्तथापरे संभ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे
MBh 7.146.41
विजित्य समरे योधांस्तावकान्भरतर्षभ दध्मतुर्मुदितौ शङ्खौ वासुदेवधनंजयौ
MBh 7.146.42
धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह
MBh 7.146.43
तन्निधाय धनुर्नीडे द्रोणः क्षत्रियमर्दनः आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम्
MBh 7.146.44
धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे
MBh 7.146.45
तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः
MBh 7.146.46
वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी
MBh 7.146.47
उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी यथा वैतरणी राजन्यमराष्ट्रपुरं प्रति
MBh 7.146.48
द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् अत्यराजत तेजस्वी शक्रो देवगणेष्विव
MBh 7.146.49
अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ यमौ च युयुधानश्च पाण्डवश्च वृकोदरः
MBh 7.146.50
जित्वा रथसहस्राणि तावकानां महारथाः सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः
MBh 7.146.51
पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशां पते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 51 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.146local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷