🪷 Mahābhārata · Droṇa-Parva · Chapter 132

The Book of Droṇa · Parva 7 · 42 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 42 Shlokas

MBh 7.132.1
संजय उवाच द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः
MBh 7.132.2
युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः युयुधानश्च संयत्ता युद्धायैव मनो दधुः
MBh 7.132.3
सोमदत्तः पुनः कुर्द्धो दृष्ट्वा सात्यकिमाहवे महता शरवर्षेण छादयामास सर्वतः
MBh 7.132.4
ततः समभवद्युद्धमतीव भयवर्धनम् त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम्
MBh 7.132.5
दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम् सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत
MBh 7.132.6
सात्वतस्त्वभिसंक्रुद्धः पुत्राधिभिरभिप्लुतम् वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम्
MBh 7.132.7
विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः
MBh 7.132.8
ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि
MBh 7.132.9
सात्यकिश्चाग्निसंकाशं मुमोच शरमुत्तमम् सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि
MBh 7.132.10
युगपत्पेततुरथ घोरौ परिघमार्गणौ शरीरे सोमदत्तस्य स पपात महारथः
MBh 7.132.11
व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत् विसृजञ्शरवर्षाणि कालवर्षीव तोयदः
MBh 7.132.12
भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः पीडयन्वै महात्मानं विव्याध रणमूर्धनि
MBh 7.132.13
प्रातिपीयस्तु संक्रुद्धः शक्तिं भीमस्य वक्षसि निचखान महाबाहुः पुरंदर इवाशनिम्
MBh 7.132.14
स तयाभिहतो भीमश्चकम्पे च मुमोह च प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह
MBh 7.132.15
सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत् स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट्
MBh 7.132.16
तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभे पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः
MBh 7.132.17
नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत्
MBh 7.132.18
ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः जघान भीमं नाराचैस्तमप्यभ्यवधीद्बली
MBh 7.132.19
ततः सप्त रथान्वीरः स्यालानां तव भारत निहत्य भीमो नाराचैः शतचन्द्रमपोथयत्
MBh 7.132.20
अमर्षयन्तो निहतं शतचन्द्रं महारथम् शकुनेर्भ्रातरो वीरा गजाक्षः शरभो विभुः अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन्
MBh 7.132.21
स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः जघान पञ्चभिर्बाणैः पञ्चैवातिबलो रथान् तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः
MBh 7.132.22
ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत् मिषतः कुम्भयोनेश्च पुत्राणां च तवानघ
MBh 7.132.23
अम्बष्ठान्मालवाञ्शूरांस्त्रिगर्तान्सशिबीनपि प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः
MBh 7.132.24
अभीषाहाञ्शूरसेनान्बाह्लीकान्सवसातिकान् निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम्
MBh 7.132.25
यौधेयारट्टराजन्यमद्रकाणां गणान्युधि प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः
MBh 7.132.26
हताहरत गृह्णीत विध्यत व्यवकृन्तत इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति
MBh 7.132.27
सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत्
MBh 7.132.28
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान्
MBh 7.132.29
तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम्
MBh 7.132.30
क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन्
MBh 7.132.31
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसंभवः प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत जिघांसुर्धर्मतनयं तव पुत्रहिते रतः
MBh 7.132.32
पतिः कुरूणां गजसिंहगामी; विशालवक्षाः पृथुलोहिताक्षः प्रादुश्चकारास्त्रमहीनतेजा; माहेन्द्रमन्यत्स जघान तेऽस्त्रे
MBh 7.132.33
विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः युधिष्ठिरवधप्रेप्सुर्ब्राह्ममस्त्रमुदैरयत्
MBh 7.132.34
ततो नाज्ञासिषं किंचिद्घोरेण तमसावृते सर्वभूतानि च परं त्रासं जग्मुर्महीपते
MBh 7.132.35
ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत्
MBh 7.132.36
ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ
MBh 7.132.37
ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् व्यधमद्रोषताम्राक्षो वायव्यास्त्रेण भारत
MBh 7.132.38
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् पश्यतो भीमसेनस्य पार्थस्य च महात्मनः
MBh 7.132.39
ततः किरीटी भीमश्च सहसा संन्यवर्तताम् महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव
MBh 7.132.40
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम्
MBh 7.132.41
तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः
MBh 7.132.42
ततः सा भारती सेना वध्यमाना किरीटिना द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च नाशक्यन्त महाराज योधा वारयितुं तदा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 42 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.132local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷