🪷 Mahābhārata · Droṇa-Parva · Chapter 131

The Book of Droṇa · Parva 7 · 135 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 135 Shlokas

MBh 7.131.1
संजय उवाच प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत्
MBh 7.131.2
क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः तं त्वं सात्वत संत्यज्य दस्युधर्मे कथं रतः
MBh 7.131.3
पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे
MBh 7.131.4
द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत
MBh 7.131.5
कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे नृशंसं पतनीयं च तादृशं कृतवानसि
MBh 7.131.6
शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम्
MBh 7.131.7
अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् न हन्यां निरये घोरे पतेयं वृष्णिपांसन
MBh 7.131.8
एवमुक्त्वा सुसंक्रुद्धः सोमदत्तो महाबलः दध्मौ शङ्खं च तारेण सिंहनादं ननाद च
MBh 7.131.9
ततः कमलपत्राक्षः सिंहदंष्ट्रो महाबलः सात्वतो भृशसंक्रुद्धः सोमदत्तमथाब्रवीत्
MBh 7.131.10
हतो भूरिश्रवा वीरस्तव पुत्रो महारथः शलश्चैव तथा राजन्भ्रातृव्यसनकर्शितः
MBh 7.131.11
त्वां चाप्यद्य वधिष्यामि सपुत्रपशुबान्धवम् तिष्ठेदानीं रणे यत्तः कौरवोऽसि विशेषतः
MBh 7.131.12
यस्मिन्दानं दमः शौचमहिंसा ह्रीर्धृतिः क्षमा अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे
MBh 7.131.13
मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा सकर्णसौबलः संख्ये विनाशं समुपेष्यसि
MBh 7.131.14
शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह यदि त्वां ससुतं पापं न हन्यां युधि रोषितः अपयास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि
MBh 7.131.15
एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ प्रवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ
MBh 7.131.16
ततो गजसहस्रेण रथानामयुतेन च दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः
MBh 7.131.17
शकुनिश्च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः स्यालस्तव महाबाहुर्वज्रसंहननो युवा
MBh 7.131.18
साग्रं शतसहस्रं तु हयानां तस्य धीमतः सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत
MBh 7.131.19
रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् तं छाद्यमानं विशिखैर्दृष्ट्वा संनतपर्वभिः धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम्
MBh 7.131.20
चण्डवाताभिसृष्टानामुदधीनामिव स्वनः आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम्
MBh 7.131.21
विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः सात्यकिर्दशभिश्चैनमवधीत्कुरुपुंगवम्
MBh 7.131.22
सोऽतिविद्धो बलवता समरे दृढधन्वना रथोपस्थं समासाद्य मुमोह गतचेतनः
MBh 7.131.23
तं विमूढं समालक्ष्य सारथिस्त्वरयान्वितः अपोवाह रणाद्वीरं सोमदत्तं महारथम्
MBh 7.131.24
तं विसंज्ञं समालोक्य युयुधानशरार्दितम् द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि
MBh 7.131.25
तमापतन्तं संप्रेक्ष्य शैनेयस्य रथं प्रति भैमसेनिः सुसंक्रुद्धः प्रत्यमित्रमवारयत्
MBh 7.131.26
कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् युक्तं गजनिभैर्वाहैर्न हयैर्नापि वा गजैः
MBh 7.131.27
विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता
MBh 7.131.28
लोहितार्द्रपताकं तमन्त्रमालाविभूषितम् अष्टचक्रसमायुक्तमास्थाय विपुलं रथम्
MBh 7.131.29
शूलमुद्गरधारिण्या शैलपादपहस्तया रक्षसां घोररूपाणामक्षौहिण्या समावृतः
MBh 7.131.30
तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः युगान्तकालसमये दण्डहस्तमिवान्तकम्
MBh 7.131.31
भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी
MBh 7.131.32
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम्
MBh 7.131.33
ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः संध्याकालाधिकबलैः प्रमुक्ता राक्षसैः क्षितौ
MBh 7.131.34
आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा
MBh 7.131.35
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः
MBh 7.131.36
तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम्
MBh 7.131.37
निहतायां तु मायायाममर्षी स घटोत्कचः विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन्
MBh 7.131.38
भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः
MBh 7.131.39
अश्वत्थामा तु संक्रुद्धो लघुहस्तः प्रतापवान् घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः
MBh 7.131.40
घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम्
MBh 7.131.41
क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया
MBh 7.131.42
वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः अभाग्यस्येव संकल्पस्तन्मोघं न्यपतद्भुवि
MBh 7.131.43
घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम्
MBh 7.131.44
घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट्
MBh 7.131.45
पौत्रेण भीमसेनस्य शरैः सोऽञ्जनपर्वणा बभौ मेघेन धाराभिर्गिरिर्मेरुरिवार्दितः
MBh 7.131.46
अश्वत्थामा त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः
MBh 7.131.47
द्वाभ्यां तु रथयन्तारं त्रिभिश्चास्य त्रिवेणुकम् धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्
MBh 7.131.48
विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम् विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाकरोत्
MBh 7.131.49
गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बसूनुना भ्राम्योत्क्षिप्ता शरैः सापि द्रौणिनाभ्याहतापतत्
MBh 7.131.50
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात्
MBh 7.131.51
ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः
MBh 7.131.52
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते महीधर इवात्युच्चः श्रीमानञ्जनपर्वतः
MBh 7.131.53
तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम् जघानाञ्जनपर्वाणं महेश्वर इवान्धकम्
MBh 7.131.54
अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम् द्रौणेः सकाशमभ्येत्य रोषात्प्रचलिताङ्गदः
MBh 7.131.55
प्राह वाक्यमसंभ्रान्तो वीरं शारद्वतीसुतम् दहन्तं पाण्डवानीकं वनमग्निमिवोद्धतम्
MBh 7.131.56
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा
MBh 7.131.57
अश्वत्थामोवाच गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम न हि पुत्रेण हैडिम्बे पिता न्याय्यं प्रबाधितुम्
MBh 7.131.58
कामं खलु न मे रोषो हैडिम्बे विद्यते त्वयि किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत
MBh 7.131.59
संजय उवाच श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः अश्वत्थामानमायस्तो भैमसेनिरभाषत
MBh 7.131.60
किमहं कातरो द्रौणे पृथग्जन इवाहवे भीमात्खल्वहमुत्पन्नः कुरूणां विपुले कुले
MBh 7.131.61
पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् रक्षसामधिराजोऽहं दशग्रीवसमो बले
MBh 7.131.62
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे
MBh 7.131.63
इत्युक्त्वा रोषताम्राक्षो राक्षसः सुमहाबलः द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी
MBh 7.131.64
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः रथिनामृषभं द्रौणिं धाराभिरिव तोयदः
MBh 7.131.65
शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत्
MBh 7.131.66
अथास्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समाबभौ विभावरीमुखे व्योम खद्योतैरिव चित्रितम्
MBh 7.131.67
निशाम्य निहतां मायां द्रौणिना रणमानिना घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः
MBh 7.131.68
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसंकटैः शूलप्रासासिमुसलजलप्रस्रवणो महान्
MBh 7.131.69
तमञ्जनचयप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् प्रपतद्भिश्च बहुभिः शस्त्रसंघैर्न चुक्षुभे
MBh 7.131.70
ततः स्मयन्निव द्रौणिर्वज्रमस्त्रमुदीरयत् स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रमनश्यत
MBh 7.131.71
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे
MBh 7.131.72
अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम्
MBh 7.131.73
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः शतं रथसहस्राणां जघान द्विपदां वरः
MBh 7.131.74
स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम् घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम्
MBh 7.131.75
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि
MBh 7.131.76
विवृतास्यशिरोग्रीवैर्हैडिम्बानुचरैः सह पौलस्त्यैर्यातुधानैश्च तामसैश्चोग्रविक्रमैः
MBh 7.131.77
नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः
MBh 7.131.78
उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः विषण्णमभिसंप्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत्
MBh 7.131.79
तिष्ठ दुर्योधनाद्य त्वं न कार्यः संभ्रमस्त्वया सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः
MBh 7.131.80
निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम्
MBh 7.131.81
दुर्योधन उवाच न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः अस्मासु च परा भक्तिस्तव गौतमिनन्दन
MBh 7.131.82
संजय उवाच अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् वृतः शतसहस्रेण रथानां रणशोभिनाम्
MBh 7.131.83
षष्ट्या गजसहस्रैश्च प्रयाहि त्वं धनंजयम् कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च
MBh 7.131.84
उदीच्याः कृतवर्मा च पुरुमित्रः श्रुतार्पणः दुःशासनो निकुम्भश्च कुण्डभेदी उरुक्रमः
MBh 7.131.85
पुरंजयो दृढरथः पताकी हेमपङ्कजः शल्यारुणीन्द्रसेनाश्च संजयो विजयो जयः
MBh 7.131.86
कमलाक्षः पुरुः क्राथी जयवर्मा सुदर्शनः एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट्
MBh 7.131.87
जहि भीमं यमौ चोभौ धर्मराजं च मातुल असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता
MBh 7.131.88
दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् जहि मातुल कौन्तेयानसुरानिव पावकिः
MBh 7.131.89
एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान्
MBh 7.131.90
अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे विभावर्यां सुतुमुलं शक्रप्रह्रादयोरिव
MBh 7.131.91
ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् जघानोरसि संक्रुद्धो विषाग्निप्रतिमैर्दृढैः
MBh 7.131.92
स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः
MBh 7.131.93
भूयश्चाञ्जलिकेनास्य मार्गणेन महाप्रभम् द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः
MBh 7.131.94
ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं महत् ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः
MBh 7.131.95
ततः शारद्वतीपुत्रः प्रेषयामास भारत सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्खचरान्प्रति
MBh 7.131.96
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम्
MBh 7.131.97
विधम्य राक्षसान्बाणैः साश्वसूतरथान्विभुः ददाह भगवान्वह्निर्भूतानीव युगक्षये
MBh 7.131.98
स दग्ध्वाक्षौहिणीं बाणैर्नैरृतान्रुरुचे भृशम् पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः
MBh 7.131.99
युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान्
MBh 7.131.100
तेषु राजसहस्रेषु पाण्डवेयेषु भारत नैनं निरीक्षितुं कश्चिच्छक्नोति द्रौणिमाहवे ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात्
MBh 7.131.101
स पुनर्भरतश्रेष्ठ क्रोधाद्रक्तान्तलोचनः तलं तलेन संहत्य संदश्य दशनच्छदम् स्वसूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह
MBh 7.131.102
स ययौ घोररूपेण तेन जैत्रपताकिना द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः
MBh 7.131.103
स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः अष्टचक्रां महारौद्रामशनीं रुद्रनिर्मिताम्
MBh 7.131.104
तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे
MBh 7.131.105
साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा
MBh 7.131.106
द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् यदवप्लुत्य जग्राह घोरां शंकरनिर्मिताम्
MBh 7.131.107
धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि
MBh 7.131.108
धृष्टद्युम्नोऽप्यसंभ्रान्तो मुमोचाशीविषोपमान् सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि
MBh 7.131.109
ततो मुमोच नाराचान्द्रौणिस्ताभ्यां सहस्रशः तावप्यग्निशिखाप्रख्यैर्जघ्नतुस्तस्य मार्गणान्
MBh 7.131.110
अतितीव्रमभूद्युद्धं तयोः पुरुषसिंहयोः योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ
MBh 7.131.111
ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमाव्रजत्
MBh 7.131.112
ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् अयोधयत धर्मात्मा द्रौणिरक्लिष्टकर्मकृत्
MBh 7.131.113
तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् अशक्यं कर्तुमन्येन सर्वभूतेषु भारत
MBh 7.131.114
निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत्
MBh 7.131.115
मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च
MBh 7.131.116
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः
MBh 7.131.117
निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः
MBh 7.131.118
क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये
MBh 7.131.119
प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् छत्रहंसावलीजुष्टां फेनचामरमालिनीम्
MBh 7.131.120
कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम् रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम्
MBh 7.131.121
शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम् मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम्
MBh 7.131.122
केशशैवलकल्माषां भीरूणां कश्मलावहाम् नागेन्द्रहययोधानां शरीरव्ययसंभवाम्
MBh 7.131.123
शोणितौघमहावेगां द्रौणिः प्रावर्तयन्नदीम् योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम्
MBh 7.131.124
प्रायादतिमहाघोरं यमक्षयमहोदधिम् निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बमार्दयत्
MBh 7.131.125
पुनरप्यतिसंक्रुद्धः सवृकोदरपार्षतान् स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः
MBh 7.131.126
जघान सुरथं नाम द्रुपदस्य सुतं विभुः पुनः श्रुतंजयं नाम सुरथस्यानुजं रणे
MBh 7.131.127
बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम्
MBh 7.131.128
त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खै रुक्ममालिनम् शत्रुंजयं च बलिनं शक्रलोकं निनाय ह
MBh 7.131.129
जघान स पृषध्रं च चन्द्रदेवं च मानिनम् कुन्तिभोजसुतांश्चाजौ दशभिर्दश जघ्निवान्
MBh 7.131.130
अश्वत्थामा सुसंक्रुद्धः संधायोग्रमजिह्मगम् मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम्
MBh 7.131.131
स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते
MBh 7.131.132
तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये रथान्तरम्
MBh 7.131.133
तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत
MBh 7.131.134
अथ शरशतभिन्नकृत्तदेहै;र्हतपतितैः क्षणदाचरैः समन्तात् निधनमुपगतैर्मही कृताभू;द्गिरिशिखरैरिव दुर्गमातिरौद्रा
MBh 7.131.135
तं सिद्धगन्धर्वपिशाचसंघा; नागाः सुपर्णाः पितरो वयांसि रक्षोगणा भूतगणाश्च द्रौणि;मपूजयन्नप्सरसः सुराश्च

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 135 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.131local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷