🪷 Mahābhārata · Droṇa-Parva · Chapter 123
The Book of Droṇa · Parva 7 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 41 Shlokas
MBh 7.123.1
धृतराष्ट्र उवाच
तथा गतेषु शूरेषु तेषां मम च संजय
किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व संजय
MBh 7.123.2
संजय उवाच
विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः
अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत्
MBh 7.123.3
पुनः पुनस्तूबरक मूढ औदरिकेति च
अकृतास्त्रक मा योधीर्बाल संग्रामकातर
MBh 7.123.4
इति मामब्रवीत्कर्णः पश्यतस्ते धनंजय
एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत
MBh 7.123.5
एतद्व्रतं महाबाहो त्वया सह कृतं मया
यथैतन्मम कौन्तेय तथा तव न संशयः
MBh 7.123.6
तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम
यथा भवति तत्सत्यं तथा कुरु धनंजय
MBh 7.123.7
तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः
ततोऽर्जुनोऽब्रवीत्कर्णं किंचिदभ्येत्य संयुगे
MBh 7.123.8
कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत
अधर्मबुद्धे शृणु मे यत्त्वा वक्ष्यामि सांप्रतम्
MBh 7.123.9
द्विविधं कर्म शूराणां युद्धे जयपराजयौ
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः
MBh 7.123.10
मुमूर्षुर्युयुधानेन विरथोऽसि विसर्जितः
यदृच्छया भीमसेनं विरथं कृतवानसि
MBh 7.123.11
अधर्मस्त्वेष राधेय यत्त्वं भीममवोचथाः
युद्धधर्मं विजानन्वै युध्यन्तमपलायिनम्
पूरयन्तं यथाशक्ति शूरकर्माहवे तथा
MBh 7.123.12
पश्यतां सर्वसैन्यानां केशवस्य ममैव च
विरथो भीमसेनेन कृतोऽसि बहुशो रणे
न च त्वां परुषं किंचिदुक्तवान्पण्डुनन्दनः
MBh 7.123.13
यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः
परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम
MBh 7.123.14
तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि
त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते
MBh 7.123.15
तस्माद्वध्योऽसि मे मूढ सभृत्यबलवाहनः
कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम्
MBh 7.123.16
हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे
ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः
तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे
MBh 7.123.17
त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे
दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम्
MBh 7.123.18
अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु
महान्सुतुमुलः शब्दो बभूव रथिनां तदा
MBh 7.123.19
तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये
मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपागमत्
MBh 7.123.20
ततो राजन्हृषीकेशः संग्रामशिरसि स्थितम्
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदमब्रवीत्
MBh 7.123.21
दिष्ट्या संपादिता जिष्णो प्रतिज्ञा महती त्वया
दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः
MBh 7.123.22
धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत
सीदेत समरे जिष्णो नात्र कार्या विचारणा
MBh 7.123.23
न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित्
त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम्
MBh 7.123.24
महाप्रभावा बहवस्त्वया तुल्याधिकापि वा
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात्
ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः
MBh 7.123.25
तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम्
नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम्
यादृशं कृतवानद्य त्वमेकः शत्रुतापनः
MBh 7.123.26
एवमेव हते कर्णे सानुबन्धे दुरात्मनि
वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम्
MBh 7.123.27
तमर्जुनः प्रत्युवाच प्रसादात्तव माधव
प्रतिज्ञेयं मयोत्तीर्णा विबुधैरपि दुस्तरा
MBh 7.123.28
अनाश्चर्यो जयस्तेषां येषां नाथोऽसि माधव
त्वत्प्रसादान्महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः
MBh 7.123.29
तवैव भारो वार्ष्णेय तवैव विजयः प्रभो
वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन
MBh 7.123.30
एवमुक्तः स्मयन्कृष्णः शनकैर्वाहयन्हयान्
दर्शयामास पार्थाय क्रूरमायोधनं महत्
MBh 7.123.31
श्रीकृष्ण उवाच
प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः
MBh 7.123.32
विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः
संछिन्नभिन्नवर्माणो वैक्लव्यं परमं गताः
MBh 7.123.33
ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः
सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः
MBh 7.123.34
तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः
वाहनैरायुधैश्चैव संपूर्णां पश्य मेदिनीम्
MBh 7.123.35
वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः
उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः
MBh 7.123.36
कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सुप्रभैः
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी
MBh 7.123.37
चामरैर्व्यजनैश्चित्रैर्ध्वजैश्चाश्वरथद्विपैः
विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः
MBh 7.123.38
कुथाभिश्च विचित्राभिर्वरूथैश्च महाधनैः
संस्तीर्णां वसुधां पश्य चित्रपट्टैरिवावृताम्
MBh 7.123.39
नागेभ्यः पतितानन्यान्कल्पितेभ्यो द्विपैः सह
सिंहान्वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान्
MBh 7.123.40
संस्यूतान्वाजिभिः सार्धं धरण्यां पश्य चापरान्
पदातिसादिसंघांश्च क्षतजौघपरिप्लुतान्
MBh 7.123.41
संजय उवाच
एवं संदर्शयन्कृष्णो रणभूमिं किरीटिनः
स्वैः समेतः स मुदितः पाञ्चजन्यं व्यनादयत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 122
- Next chapter · Droṇa-Parva Ch 124 →
Sources and Connected Readings
Continue from these 41 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.123local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷