🪷 Mahābhārata · Droṇa-Parva · Chapter 122
The Book of Droṇa · Parva 7 · 88 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 88 Shlokas
MBh 7.122.1
धृतराष्ट्र उवाच
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना
मामका यदकुर्वन्त तन्ममाचक्ष्व संजय
MBh 7.122.2
संजय उवाच
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष
अमर्षवशमापन्नः कृपः शारद्वतस्तदा
MBh 7.122.3
महता शरवर्षेण पाण्डवं समवाकिरत्
द्रौणिश्चाभ्यद्रवत्पार्थं रथमास्थाय फल्गुनम्
MBh 7.122.4
तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम्
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम्
MBh 7.122.5
स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः
पीड्यमानः परामार्तिमगमद्रथिनां वरः
MBh 7.122.6
सोऽजिघांसुर्गुरुं संख्ये गुरोस्तनयमेव च
चकाराचार्यकं तत्र कुन्तीपुत्रो धनंजयः
MBh 7.122.7
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत्
MBh 7.122.8
ते नातिभृशमभ्यघ्नन्विशिखा जयचोदिताः
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम्
MBh 7.122.9
अथ शारद्वतो राजन्कौन्तेयशरपीडितः
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह
MBh 7.122.10
विह्वलं तमभिज्ञाय भर्तारं शरपीडितम्
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत्
MBh 7.122.11
तस्मिन्सन्ने महाराज कृपे शारद्वते युधि
अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम्
MBh 7.122.12
दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम्
रथ एव महेष्वासः कृपणं पर्यदेवयत्
MBh 7.122.13
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्
कुलान्तकरणे पापे जातमात्रे सुयोधने
MBh 7.122.14
नीयतां परलोकाय साध्वयं कुलपांसनः
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम्
MBh 7.122.15
तदिदं समनुप्राप्तं वचनं सत्यवादिनः
तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम्
MBh 7.122.16
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्
को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः
MBh 7.122.17
ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा
एष शेते रथोपस्थे मद्बाणैरभिपीडितः
MBh 7.122.18
अकामयानेन मया विशिखैरर्दितो भृशम्
अवासीदद्रथोपस्थे प्राणान्पीडयतीव मे
MBh 7.122.19
शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः
प्रत्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै
MBh 7.122.20
शोचयत्येष निपतन्भूयः पुत्रवधाद्धि माम्
कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम्
MBh 7.122.21
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः
प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते
MBh 7.122.22
ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः
घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः
MBh 7.122.23
तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम्
आचार्यं शरवर्षेण रथे सादयता कृपम्
MBh 7.122.24
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः
न कथंचन कौरव्य प्रहर्तव्यं गुराविति
MBh 7.122.25
तदिदं वचनं साधोराचार्यस्य महात्मनः
नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता
MBh 7.122.26
नमस्तस्मै सुपूज्याय गौतमायापलायिने
धिगस्तु मम वार्ष्णेय यो ह्यस्मै प्रहराम्यहम्
MBh 7.122.27
तथा विलपमाने तु सव्यसाचिनि तं प्रति
सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत्
MBh 7.122.28
उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः
प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत्
MBh 7.122.29
एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति
न मृष्यति हतं नूनं भूरिश्रवसमाहवे
MBh 7.122.30
यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन
मा सोमदत्तेः पदवीं गमयेत्सात्यकिं वृषः
MBh 7.122.31
एवमुक्तो महाबाहुः केशवः सव्यसाचिना
प्रत्युवाच महातेजाः कालयुक्तमिदं वचः
MBh 7.122.32
अलमेष महाबाहुः कर्णायैको हि पाण्डव
किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः
MBh 7.122.33
न च तावत्क्षमः पार्थ कर्णेन तव संगरः
प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी
त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन्
MBh 7.122.34
अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा
अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः
MBh 7.122.35
धृतराष्ट्र उवाच
योऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः
हते तु भूरिश्रवसि सैन्धवे च निपातिते
MBh 7.122.36
सात्यकिश्चापि विरथः कं समारूढवान्रथम्
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व संजय
MBh 7.122.37
संजय उवाच
हन्त ते वर्णयिष्यामि यथावृत्तं महारणे
शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः
MBh 7.122.38
पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो
विजेतव्यो यथा वीरः सात्यकिर्यूपकेतुना
MBh 7.122.39
अतीतानागतं राजन्स हि वेत्ति जनार्दनः
अतः सूतं समाहूय दारुकं संदिदेश ह
रथो मे युज्यतां काल्यमिति राजन्महाबलः
MBh 7.122.40
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः
मानवा वा विजेतारः कृष्णयोः सन्ति केचन
MBh 7.122.41
पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः
तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा
MBh 7.122.42
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम्
दध्मौ शङ्खं महावेगमार्षभेणाथ माधवः
MBh 7.122.43
दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम्
रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम्
MBh 7.122.44
स केशवस्यानुमते रथं दारुकसंयुतम्
आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम्
MBh 7.122.45
कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः
हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः
MBh 7.122.46
युक्तं समारुह्य च तं विमानप्रतिमं रथम्
अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून्
MBh 7.122.47
चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ
धनंजयरथं हित्वा राधेयं प्रत्युदीययुः
MBh 7.122.48
राधेयोऽपि महाराज शरवर्षं समुत्सृजन्
अभ्यद्रवत्सुसंक्रुद्धो रणे शैनेयमच्युतम्
MBh 7.122.49
नैव दैवं न गान्धर्वं नासुरोरगराक्षसम्
तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत
MBh 7.122.50
उपारमत तत्सैन्यं सरथाश्वनरद्विपम्
तयोर्दृष्ट्वा महाराज कर्म संमूढचेतनम्
MBh 7.122.51
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम्
तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च
MBh 7.122.52
गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः
सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः
MBh 7.122.53
नभस्तलगताश्चैव देवगन्धर्वदानवाः
अतीवावहिता द्रष्टुं कर्णशैनेययो रणम्
MBh 7.122.54
मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे
कर्णश्चामरसंकाशो युयुधानश्च सात्यकिः
MBh 7.122.55
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम्
प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः
MBh 7.122.56
अमृष्यमाणो निधनं कौरव्यजलसंधयोः
कर्णः शोकसमाविष्टो महोरग इव श्वसन्
MBh 7.122.57
स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा
अभ्यद्रवत वेगेन पुनः पुनररिंदमः
MBh 7.122.58
तं तु संप्रेक्ष्य संक्रुद्धं सात्यकिः प्रत्यविध्यत
महता शरवर्षेण गजः प्रतिगजं यथा
MBh 7.122.59
तौ समेत्य नरव्याघ्रौ व्याघ्राविव तरस्विनौ
अन्योन्यं संततक्षाते रणेऽनुपमविक्रमौ
MBh 7.122.60
ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः
बिभेद सर्वगात्रेषु पुनः पुनररिंदमः
MBh 7.122.61
सारथिं चास्य भल्लेन रथनीडादपाहरत्
अश्वांश्च चतुरः श्वेतान्निजघ्ने निशितैः शरैः
MBh 7.122.62
छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः
चकार विरथं कर्णं तव पुत्रस्य पश्यतः
MBh 7.122.63
ततो विमनसो राजंस्तावकाः पुरुषर्षभाः
वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा
MBh 7.122.64
द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन्
ततः पर्याकुलं सर्वं न प्राज्ञायत किंचन
MBh 7.122.65
तथा सात्यकिना वीरे विरथे सूतजे कृते
हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत्
MBh 7.122.66
कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः
दुर्योधनरथं राजन्नारुरोह विनिःश्वसन्
MBh 7.122.67
मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम्
कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन्
MBh 7.122.68
तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव
दुःशासनमुखाञ्शूरान्नावधीत्सात्यकिर्वशी
MBh 7.122.69
रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा
विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत्
MBh 7.122.70
भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः
पुनर्द्यूते च पार्थेन वधः कर्णस्य संश्रुतः
MBh 7.122.71
वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा
नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः
MBh 7.122.72
द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः
निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः
काङ्क्षता परलोकं च धर्मराजस्य च प्रियम्
MBh 7.122.73
कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः
कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः
शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते
MBh 7.122.74
धृतराष्ट्र उवाच
अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः
विरथं कृतवान्कर्णं वासुदेवसमो युवा
MBh 7.122.75
दारुकेण समायुक्तं स्वबाहुबलदर्पितः
कच्चिदन्यं समारूढः स रथं सात्यकिः पुनः
MBh 7.122.76
एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम्
असह्यं तमहं मन्ये तन्ममाचक्ष्व संजय
MBh 7.122.77
संजय उवाच
शृणु राजन्यथा तस्य रथमन्यं महामतिः
दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम्
MBh 7.122.78
आयसैः काञ्चनैश्चापि पट्टैर्नद्धं सकूबरम्
तारासहस्रखचितं सिंहध्वजपताकिनम्
MBh 7.122.79
अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः
पाण्डुरैरिन्दुसंकाशैः सर्वशब्दातिगैर्दृढैः
MBh 7.122.80
चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशां पते
घण्टाजालाकुलरवं शक्तितोमरविद्युतम्
MBh 7.122.81
वृतं सांग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम्
रथं संपादयामास मेघगम्भीरनिस्वनम्
MBh 7.122.82
तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत्
दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम्
MBh 7.122.83
कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः
चित्रकाञ्चनसंनाहैः सदश्वैर्वेगवत्तरैः
MBh 7.122.84
हेमकक्ष्याध्वजोपेतं कॢप्तयन्त्रपताकिनम्
अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम्
MBh 7.122.85
उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून्
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
MBh 7.122.86
भूयश्चापि निबोध त्वं तवापनयजं क्षयम्
एकत्रिंशत्तव सुता भीमसेनेन पातिताः
MBh 7.122.87
दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम्
शतशो निहताः शूराः सात्वतेनार्जुनेन च
MBh 7.122.88
भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष
एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 121
- Next chapter · Droṇa-Parva Ch 123 →
Sources and Connected Readings
Continue from these 88 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.122local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷