🪷 Mahābhārata · Droṇa-Parva · Chapter 120

The Book of Droṇa · Parva 7 · 89 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 89 Shlokas

MBh 7.120.1
धृतराष्ट्र उवाच तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व संजय
MBh 7.120.2
संजय उवाच भूरिश्रवसि संक्रान्ते परलोकाय भारत वासुदेवं महाबाहुरर्जुनः समचूचुदत्
MBh 7.120.3
चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः अस्तमेति महाबाहो त्वरमाणो दिवाकरः
MBh 7.120.4
एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः
MBh 7.120.5
नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम्
MBh 7.120.6
ततः कृष्णो महाबाहू रजतप्रतिमान्हयान् हयज्ञश्चोदयामास जयद्रथरथं प्रति
MBh 7.120.7
तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः त्वरमाणा महाराज सेनामुख्याः समाव्रजन्
MBh 7.120.8
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः
MBh 7.120.9
समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम् नेत्राभ्यां क्रोधदीप्ताभ्यां संप्रैक्षन्निर्दहन्निव
MBh 7.120.10
ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति
MBh 7.120.11
अयं स वैकर्तन युद्धकालो; विदर्शयस्वात्मबलं महात्मन् यथा न वध्येत रणेऽर्जुनेन; जयद्रथः कर्ण तथा कुरुष्व
MBh 7.120.12
अल्पावशिष्टं दिवसं नृवीर; विघातयस्वाद्य रिपुं शरौघैः दिनक्षयं प्राप्य नरप्रवीर; ध्रुवं हि नः कर्ण जयो भविष्यति
MBh 7.120.13
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम्
MBh 7.120.14
अनर्जुनायां च भुवि मुहूर्तमपि मानद जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः
MBh 7.120.15
विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम् वसुंधरामिमां कर्ण भोक्ष्यामो हतकण्टकाम्
MBh 7.120.16
दैवेनोपहतः पार्थो विपरीतश्च मानद कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे
MBh 7.120.17
नूनमात्मविनाशाय पाण्डवेन किरीटिना प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति
MBh 7.120.18
कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः अनस्तंगत आदित्ये हन्यात्सैन्धवकं नृपम्
MBh 7.120.19
रक्षितं मद्रराजेन कृपेण च महात्मना जयद्रथं रणमुखे कथं हन्याद्धनंजयः
MBh 7.120.20
द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः
MBh 7.120.21
युध्यन्ते बहवः शूरा लम्बते च दिवाकरः शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद
MBh 7.120.22
स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे
MBh 7.120.23
एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम्
MBh 7.120.24
दृढलक्ष्येण शूरेण भीमसेनेन धन्विना भृशमुद्वेजितः संख्ये शरजालैरनेकशः
MBh 7.120.25
स्थातव्यमिति तिष्ठामि रणे संप्रति मानद नैवाङ्गमिङ्गति किंचिन्मे संतप्तस्य रणेषुभिः
MBh 7.120.26
योत्स्यामि तु तथा राजञ्शक्त्याहं परया रणे यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम्
MBh 7.120.27
न हि मे युध्यमानस्य सायकांश्चास्यतः शितान् सैन्धवं प्राप्स्यते वीरः सव्यसाची धनंजयः
MBh 7.120.28
यत्तु शक्तिमता कार्यं सततं हितकारिणा तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः
MBh 7.120.29
अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः त्वदर्थं पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः
MBh 7.120.30
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः पश्यन्तु सर्वभूतानि दारुणं लोमहर्षणम्
MBh 7.120.31
कर्णकौरवयोरेवं रणे संभाषमाणयोः अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम्
MBh 7.120.32
चिच्छेद तीक्ष्णाग्रमुखैः शूराणामनिवर्तिनाम् भुजान्परिघसंकाशान्हस्तिहस्तोपमान्रणे
MBh 7.120.33
शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः हस्तिहस्तान्हयग्रीवा रथाक्षांश्च समन्ततः
MBh 7.120.34
शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान् क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च
MBh 7.120.35
हयवारणमुख्याश्च प्रापतन्त सहस्रशः ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च
MBh 7.120.36
कक्षमग्निमिवोद्धूतः प्रदहंस्तव वाहिनीम् अचिरेण महीं पार्थश्चकार रुधिरोत्तराम्
MBh 7.120.37
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली आससाद दुराधर्षः सैन्धवं सत्यविक्रमः
MBh 7.120.38
बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः स बभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः
MBh 7.120.39
तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसंमताः नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः
MBh 7.120.40
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः
MBh 7.120.41
संरब्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः
MBh 7.120.42
संग्रामकोविदं पार्थं सर्वे युद्धविशारदाः अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम्
MBh 7.120.43
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽर्जुनाच्युतौ सूर्यास्तमयमिच्छन्तो लोहितायति भास्करे
MBh 7.120.44
ते भुजैर्भोगिभोगाभैर्धनूंष्यायम्य सायकान् मुमुचुः सूर्यरश्म्याभाञ्शतशः फल्गुनं प्रति
MBh 7.120.45
तानस्तानस्यमानांश्च किरीटी युद्धदुर्मदः द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान्रणे
MBh 7.120.46
सिंहलाङ्गूलकेतुस्तु दर्शयञ्शक्तिमात्मनः शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत्
MBh 7.120.47
स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः अतिष्ठद्रथमार्गेषु सैन्धवं परिपालयन्
MBh 7.120.48
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः महता रथवंशेन सर्वतः पर्यवारयन्
MBh 7.120.49
विस्फारयन्तश्चापानि विसृजन्तश्च सायकान् सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते
MBh 7.120.50
तत्र पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च
MBh 7.120.51
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च एकैकं नवभिर्बाणैः सर्वानेव समर्पयत्
MBh 7.120.52
तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः
MBh 7.120.53
त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः विधुन्वन्तश्च चापानि सर्वतः पर्यवारयन्
MBh 7.120.54
श्लिष्टं तु सर्वतश्चक्रू रथमण्डलमाशु ते सूर्यास्तमयमिच्छन्तस्त्वरमाणा महारथाः
MBh 7.120.55
त एनमभिनर्दन्तो विधुन्वाना धनूंषि च सिषिचुर्मार्गणैर्घोरैर्गिरिं मेघा इवाम्बुभिः
MBh 7.120.56
ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन् धनंजयस्य गात्रेषु शूराः परिघबाहवः
MBh 7.120.57
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली आससाद दुराधर्षः सैन्धवं सत्यविक्रमः
MBh 7.120.58
तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः मिषतो भीमसेनस्य सात्वतस्य च भारत
MBh 7.120.59
तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः
MBh 7.120.60
सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः
MBh 7.120.61
तान्कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह
MBh 7.120.62
तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्यवारयत्
MBh 7.120.63
फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे सायकानां शतेनैव सर्वमर्मस्वताडयत्
MBh 7.120.64
रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः
MBh 7.120.65
ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे सायकैर्नवभिर्वीरस्त्वरमाणो धनंजयः
MBh 7.120.66
वधार्थं चास्य समरे सायकं सूर्यवर्चसम् चिक्षेप त्वरया युक्तस्त्वराकाले धनंजयः
MBh 7.120.67
तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम् अर्धचन्द्रेण तीक्ष्णेन स छिन्नः प्रापतद्भुवि
MBh 7.120.68
अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान् कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया
MBh 7.120.69
तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ सायकौघप्रतिच्छन्नं चक्रतुः खमजिह्मगैः अदृश्यौ च शरौघैस्तौ निघ्नतामितरेतरम्
MBh 7.120.70
पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तुदतां तथा
MBh 7.120.71
युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे
MBh 7.120.72
प्रशस्यमानौ समरे सिद्धचारणवातिकैः अयुध्येतां महाराज परस्परवधैषिणौ
MBh 7.120.73
ततो दुर्योधनो राजंस्तावकानभ्यभाषत यत्ता रक्षत राधेयं नाहत्वा समरेऽर्जुनम् निवर्तिष्यति राधेय इति मामुक्तवान्वृषः
MBh 7.120.74
एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान् अनयन्मृत्युलोकाय चतुर्भिः सायकोत्तमैः
MBh 7.120.75
सारथिं चास्य भल्लेन रथनीडादपाहरत् छादयामास च शरैस्तव पुत्रस्य पश्यतः
MBh 7.120.76
स छाद्यमानः समरे हताश्वो हतसारथिः मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत
MBh 7.120.77
तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत्
MBh 7.120.78
मद्रराजस्तु कौन्तेयमविध्यत्त्रिंशता शरैः शारद्वतस्तु विंशत्या वासुदेवं समार्पयत् धनंजयं द्वादशभिराजघान शिलीमुखैः
MBh 7.120.79
चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः पृथक्पृथङ्महाराज कृष्णपार्थावविध्यताम्
MBh 7.120.80
तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनंजयः द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च
MBh 7.120.81
सैन्धवं दशभिर्भल्लैर्वृषसेनं त्रिभिः शरैः शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत्
MBh 7.120.82
ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः सहितास्तावकास्तूर्णमभिपेतुर्धनंजयम्
MBh 7.120.83
अथार्जुनः सर्वतोधारमस्त्रं; प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान् तं प्रत्युदीयुः कुरवः पाण्डुसूनुं; रथैर्महार्हैः शरवर्षाण्यवर्षन्
MBh 7.120.84
ततस्तु तस्मिंस्तुमुले समुत्थिते; सुदारुणे भारत मोहनीये नामुह्यत प्राप्य स राजपुत्रः; किरीटमाली विसृजन्पृषत्कान्
MBh 7.120.85
राज्यप्रेप्सुः सव्यसाची कुरूणां; स्मरन्क्लेशान्द्वादशवर्षवृत्तान् गाण्डीवमुक्तैरिषुभिर्महात्मा; सर्वा दिशो व्यावृणोदप्रमेयैः
MBh 7.120.86
प्रदीप्तोल्कमभवच्चान्तरिक्षं; देहेषु भूरीण्यपतन्वयांसि यत्पिङ्गलज्येन किरीटमाली; क्रुद्धो रिपूनाजगवेन हन्ति
MBh 7.120.87
किरीटमाली महता महायशाः; शरासनेनास्य शराननीकजित् हयप्रवेकोत्तमनागधूर्गता;न्कुरुप्रवीरानिषुभिर्न्यपातयत्
MBh 7.120.88
गदाश्च गुर्वीः परिघानयस्मया;नसींश्च शक्तीश्च रणे नराधिपाः महान्ति शस्त्राणि च भीमदर्शनाः; प्रगृह्य पार्थं सहसाभिदुद्रुवुः
MBh 7.120.89
स तानुदीर्णान्सरथाश्ववारणा;न्पदातिसंघांश्च महाधनुर्धरः विपन्नसर्वायुधजीवितान्रणे; चकार वीरो यमराष्ट्रवर्धनान्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 89 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.120local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷