🪷 Mahābhārata · Droṇa-Parva · Chapter 119
The Book of Droṇa · Parva 7 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 28 Shlokas
MBh 7.119.1
धृतराष्ट्र उवाच
अजितो द्रोणराधेयविकर्णकृतवर्मभिः
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे
MBh 7.119.2
स कथं कौरवेयेण समरेष्वनिवारितः
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः
MBh 7.119.3
संजय उवाच
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा
यथा च भूरिश्रवसो यत्र ते संशयो नृप
MBh 7.119.4
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः
बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः
MBh 7.119.5
पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः
नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः
MBh 7.119.6
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः
यदोरभूदन्ववाये देवमीढ इति श्रुतः
MBh 7.119.7
यादवस्तस्य च सुतः शूरस्त्रैलोक्यसंमतः
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः
MBh 7.119.8
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि
तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः
MBh 7.119.9
एतस्मिन्नेव काले तु देवकस्य महात्मनः
दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे
MBh 7.119.10
तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान्
निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः
MBh 7.119.11
तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप
MBh 7.119.12
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम्
बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव
MBh 7.119.13
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः
MBh 7.119.14
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः
कृपया च पुनस्तेन जीवेति स विसर्जितः
MBh 7.119.15
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष
प्रसादयन्महादेवममर्षवशमास्थितः
MBh 7.119.16
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः
वरेण छन्दयामास स तु वव्रे वरं नृपः
MBh 7.119.17
पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम्
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे
MBh 7.119.18
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव
एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत
MBh 7.119.19
स तेन वरदानेन लब्धवान्भूरिदक्षिणम्
न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम्
MBh 7.119.20
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि
न हि शक्या रणे जेतुं सात्वता मनुजर्षभ
MBh 7.119.21
लब्धलक्ष्याश्च संग्रामे बहवश्चित्रयोधिनः
देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः
MBh 7.119.22
न तुल्यं वृष्णिभिरिह दृश्यते किंचन प्रभो
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ
MBh 7.119.23
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः
जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे
MBh 7.119.24
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः
एतेषां रक्षितारश्च ये स्युः कस्यांचिदापदि
MBh 7.119.25
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः
समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च
MBh 7.119.26
नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते
MBh 7.119.27
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम्
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप
MBh 7.119.28
एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो
कुरुराज नरश्रेष्ठ तव ह्यपनयो महान्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 118
- Next chapter · Droṇa-Parva Ch 120 →
Sources and Connected Readings
Continue from these 28 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.119local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷