🪷 Mahābhārata · Bhīṣma-Parva · Chapter 98
The Book of Bhīṣma · Parva 6 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 38 Shlokas
MBh 6.98.1
धृतराष्ट्र उवाच
कथं द्रोणो महेष्वासः पाण्डवश्च धनंजयः
समीयतू रणे शूरौ तन्ममाचक्ष्व संजय
MBh 6.98.2
प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः
आचार्यश्च रणे नित्यं प्रियः पार्थस्य संजय
MBh 6.98.3
तावुभौ रथिनौ संख्ये दृप्तौ सिंहाविवोत्कटौ
कथं समीयतुर्युद्धे भारद्वाजधनंजयौ
MBh 6.98.4
संजय उवाच
न द्रोणः समरे पार्थं जानीते प्रियमात्मनः
क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे
MBh 6.98.5
न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम्
निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह
MBh 6.98.6
रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः
नाचिन्तयत तान्बाणान्पार्थचापच्युतान्युधि
MBh 6.98.7
शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे
प्रजज्वाल च रोषेण गहनेऽग्निरिवोत्थितः
MBh 6.98.8
ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः
वारयामास राजेन्द्र नचिरादिव भारत
MBh 6.98.9
ततो दुर्योधनो राजा सुशर्माणमचोदयत्
द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात्
MBh 6.98.10
त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम्
छादयामास समरे पार्थं बाणैरयोमुखैः
MBh 6.98.11
ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे
हंसा इव महाराज शरत्काले नभस्तले
MBh 6.98.12
ते शराः प्राप्य कौन्तेयं समस्ता विविशुः प्रभो
फलभारनतं यद्वत्स्वादुवृक्षं विहंगमाः
MBh 6.98.13
अर्जुनस्तु रणे नादं विनद्य रथिनां वरः
त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः
MBh 6.98.14
ते वध्यमानाः पार्थेन कालेनेव युगक्षये
पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः
मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति
MBh 6.98.15
शरवृष्टिं ततस्तां तु शरवर्षेण पाण्डवः
प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः
MBh 6.98.16
तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम्
विमुक्तां बहुभिः शूरैः शस्त्रवृष्टिं दुरासदाम्
MBh 6.98.17
यदेको वारयामास मारुतोऽभ्रगणानिव
कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः
MBh 6.98.18
अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत
मुमोचास्त्रं महाराज वायव्यं पृतनामुखे
MBh 6.98.19
प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम्
पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान्
MBh 6.98.20
ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम्
शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह
MBh 6.98.21
द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे महामृधे
प्रशशाम ततो वायुः प्रसन्नाश्चाभवन्दिशः
MBh 6.98.22
ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान्
निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान्
MBh 6.98.23
ततो दुर्योधनो राजा कृपश्च रथिनां वरः
अश्वत्थामा ततः शल्यः काम्बोजश्च सुदक्षिणः
MBh 6.98.24
विन्दानुविन्दावावन्त्यौ बाह्लिकश्च सबाह्लिकः
महता रथवंशेन पार्थस्यावारयन्दिशः
MBh 6.98.25
तथैव भगदत्तश्च श्रुतायुश्च महाबलः
गजानीकेन भीमस्य ताववारयतां दिशः
MBh 6.98.26
भूरिश्रवाः शलश्चैव सौबलश्च विशां पते
शरौघैर्विविधैस्तूर्णं माद्रीपुत्राववारयन्
MBh 6.98.27
भीष्मस्तु सहितः सर्वैर्धार्तराष्ट्रस्य सैनिकैः
युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत्
MBh 6.98.28
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः
लेलिहन्सृक्किणी वीरो मृगराडिव कानने
MBh 6.98.29
ततस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे
अवप्लुत्य रथात्तूर्णं तव सैन्यमभीषयत्
MBh 6.98.30
तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः
परिवव्रू रणे यत्ता भीमसेनं समन्ततः
MBh 6.98.31
गजमध्यमनुप्राप्तः पाण्डवश्च व्यराजत
मेघजालस्य महतो यथा मध्यगतो रविः
MBh 6.98.32
व्यधमत्स गजानीकं गदया पाण्डवर्षभः
महाभ्रजालमतुलं मातरिश्वेव संततम्
MBh 6.98.33
ते वध्यमाना बलिना भीमसेनेन दन्तिनः
आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव
MBh 6.98.34
बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः
फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि
MBh 6.98.35
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत्
विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम्
पातयामास समरे दण्डहस्त इवान्तकः
MBh 6.98.36
शोणिताक्तां गदां बिभ्रन्मेदोमज्जाकृतच्छविः
कृताङ्गदः शोणितेन रुद्रवत्प्रत्यदृश्यत
MBh 6.98.37
एवं ते वध्यमानास्तु हतशेषा महागजाः
प्राद्रवन्त दिशो राजन्विमृद्नन्तः स्वकं बलम्
MBh 6.98.38
द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 97
- Next chapter · Bhīṣma-Parva Ch 99 →
Sources and Connected Readings
Continue from these 38 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.98local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷