🪷 Mahābhārata · Bhīṣma-Parva · Chapter 99
The Book of Bhīṣma · Parva 6 · 47 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 47 Shlokas
MBh 6.99.1
संजय उवाच
मध्याह्ने तु महाराज संग्रामः समपद्यत
लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः
MBh 6.99.2
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम्
व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः
MBh 6.99.3
संममर्द च तत्सैन्यं पिता देवव्रतस्तव
धान्यानामिव लूनानां प्रकरं गोगणा इव
MBh 6.99.4
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा
भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम्
MBh 6.99.5
धृष्टद्युम्नं ततो विद्ध्वा विराटं च त्रिभिः शरैः
द्रुपदस्य च नाराचं प्रेषयामास भारत
MBh 6.99.6
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना
चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः
MBh 6.99.7
शिखण्डी तं च विव्याध भरतानां पितामहम्
स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः
MBh 6.99.8
धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन्
पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
MBh 6.99.9
द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः
शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः
MBh 6.99.10
सोऽतिविद्धो महाराज भीष्मः संख्ये महात्मभिः
वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ
MBh 6.99.11
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः
द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष
MBh 6.99.12
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः
सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि
MBh 6.99.13
ततो भीमो महाराज द्रौपद्याः पञ्च चात्मजाः
केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः
MBh 6.99.14
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरहितेप्सया
रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नमुखान्रणे
MBh 6.99.15
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः
प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप
MBh 6.99.16
तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम्
नराश्वरथनागानां यमराष्ट्रविवर्धनम्
MBh 6.99.17
रथी रथिनमासाद्य प्राहिणोद्यमसादनम्
तथेतरान्समासाद्य नरनागाश्वसादिनः
MBh 6.99.18
अनयन्परलोकाय शरैः संनतपर्वभिः
अस्त्रैश्च विविधैर्घोरैस्तत्र तत्र विशां पते
MBh 6.99.19
रथाश्च रथिभिर्हीना हतसारथयस्तथा
विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः
MBh 6.99.20
मर्दमाना नरान्राजन्हयांश्च सुबहून्रणे
वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः
MBh 6.99.21
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः
कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषिताः
MBh 6.99.22
देवपुत्रसमा रूपे शौर्ये शक्रसमा युधि
ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम्
MBh 6.99.23
सर्वलोकेश्वराः शूरास्तत्र तत्र विशां पते
विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः
MBh 6.99.24
दन्तिनश्च नरश्रेष्ठ विहीना वरसादिभिः
मृद्नन्तः स्वान्यनीकानि संपेतुः सर्वशब्दगाः
MBh 6.99.25
वर्मभिश्चामरैश्छत्रैः पताकाभिश्च मारिष
कक्ष्याभिरथ तोत्त्रैश्च घण्टाभिस्तोमरैस्तथा
MBh 6.99.26
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश
नगमेघप्रतीकाशैर्जलदोदयनिस्वनैः
MBh 6.99.27
तथैव दन्तिभिर्हीनान्गजारोहान्विशां पते
प्रधावन्तोऽन्वपश्याम तव तेषां च संकुले
MBh 6.99.28
नानादेशसमुत्थांश्च तुरगान्हेमभूषितान्
वातायमानानद्राक्षं शतशोऽथ सहस्रशः
MBh 6.99.29
अश्वारोहान्हतैरश्वैर्गृहीतासीन्समन्ततः
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे
MBh 6.99.30
गजो गजं समासाद्य द्रवमाणं महारणे
ययौ विमृद्नंस्तरसा पदातीन्वाजिनस्तथा
MBh 6.99.31
तथैव च रथान्राजन्संममर्द रणे गजः
रथश्चैव समासाद्य पदातिं तुरगं तथा
MBh 6.99.32
व्यमृद्नात्समरे राजंस्तुरगांश्च नरान्रणे
एवं ते बहुधा राजन्प्रमृद्नन्तः परस्परम्
MBh 6.99.33
तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी
MBh 6.99.34
अस्थिसंचयसंघाटा केशशैवलशाद्वला
रथह्रदा शरावर्ता हयमीना दुरासदा
MBh 6.99.35
शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला
कवचोष्णीषफेनाढ्या धनुर्द्वीपासिकच्छपा
MBh 6.99.36
पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी
क्रव्यादसंघसंकीर्णा यमराष्ट्रविवर्धिनी
MBh 6.99.37
तां नदीं क्षत्रियाः शूरा हयनागरथप्लवैः
प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महाहवे
MBh 6.99.38
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान्
यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति
MBh 6.99.39
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत्
दुर्योधनापराधेन क्षयं गच्छन्ति कौरवाः
MBh 6.99.40
गुणवत्सु कथं द्वेषं धार्तराष्ट्रो जनेश्वरः
कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः
MBh 6.99.41
एवं बहुविधा वाचः श्रूयन्ते स्मात्र भारत
पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः
MBh 6.99.42
ता निशम्य तदा वाचः सर्वयोधैरुदाहृताः
आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव
MBh 6.99.43
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत
युध्यध्वमनहंकाराः किं चिरं कुरुथेति च
MBh 6.99.44
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह
अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा
MBh 6.99.45
यत्पुरा न निगृह्णीषे वार्यमाणो महात्मभिः
वैचित्रवीर्य तस्येदं फलं पश्य तथाविधम्
MBh 6.99.46
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः
रक्षन्ति समरे प्राणान्कौरवा वा विशां पते
MBh 6.99.47
एतस्मात्कारणाद्घोरो वर्तते स्म जनक्षयः
दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 98
- Next chapter · Bhīṣma-Parva Ch 100 →
Sources and Connected Readings
Continue from these 47 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.99local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷