🪷 Mahābhārata · Bhīṣma-Parva · Chapter 97
The Book of Bhīṣma · Parva 6 · 57 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 57 Shlokas
MBh 6.97.1
धृतराष्ट्र उवाच
आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम्
अलम्बुसः कथं युद्धे प्रत्ययुध्यत संजय
MBh 6.97.2
आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा
तन्ममाचक्ष्व तत्त्वेन यथा वृत्तं स्म संयुगे
MBh 6.97.3
धनंजयश्च किं चक्रे मम सैन्येषु संजय
भीमो वा बलिनां श्रेष्ठो राक्षसो वा घटोत्कचः
MBh 6.97.4
नकुलः सहदेवो वा सात्यकिर्वा महारथः
एतदाचक्ष्व मे सर्वं कुशलो ह्यसि संजय
MBh 6.97.5
संजय उवाच
हन्त तेऽहं प्रवक्ष्यामि संग्रामं लोमहर्षणम्
यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष
MBh 6.97.6
अर्जुनश्च यथा संख्ये भीमसेनश्च पाण्डवः
नकुलः सहदेवश्च रणे चक्रुः पराक्रमम्
MBh 6.97.7
तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः
अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत्
MBh 6.97.8
अलम्बुसस्तु समरे अभिमन्युं महारथम्
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत्
MBh 6.97.9
सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः
आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम्
MBh 6.97.10
ततः समेयतुः संख्ये त्वरितौ नरराक्षसौ
रथाभ्यां रथिनां श्रेष्ठौ यथा वै देवदानवौ
मायावी राक्षसश्रेष्ठो दिव्यास्त्रज्ञश्च फाल्गुनिः
MBh 6.97.11
ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याध पञ्चभिः
MBh 6.97.12
अलम्बुसोऽपि संक्रुद्धः कार्ष्णिं नवभिराशुगैः
हृदि विव्याध वेगेन तोत्त्रैरिव महाद्विपम्
MBh 6.97.13
ततः शरसहस्रेण क्षिप्रकारी निशाचरः
अर्जुनस्य सुतं संख्ये पीडयामास भारत
MBh 6.97.14
अभिमन्युस्ततः क्रुद्धो नवतिं नतपर्वणाम्
चिक्षेप निशितान्बाणान्राक्षसस्य महोरसि
MBh 6.97.15
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मणि
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः
MBh 6.97.16
स धारयञ्शरान्हेमपुङ्खानपि महाबलः
विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः
MBh 6.97.17
ततः क्रुद्धो महाराज आर्श्यशृङ्गिर्महाबलः
महेन्द्रप्रतिमं कार्ष्णिं छादयामास पत्रिभिः
MBh 6.97.18
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः
अभिमन्युं विनिर्भिद्य प्राविशन्धरणीतलम्
MBh 6.97.19
तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः
अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम्
MBh 6.97.20
सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः
चक्रे विमुखमासाद्य मयं शक्र इवाहवे
MBh 6.97.21
विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा
प्रादुश्चक्रे महामायां तामसीं परतापनः
MBh 6.97.22
ततस्ते तमसा सर्वे हृता ह्यासन्महीतले
नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे
MBh 6.97.23
अभिमन्युश्च तद्दृष्ट्वा घोररूपं महत्तमः
प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः
MBh 6.97.24
ततः प्रकाशमभवज्जगत्सर्वं महीपते
तां चापि जघ्निवान्मायां राक्षसस्य दुरात्मनः
MBh 6.97.25
संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः
छादयामास समरे शरैः संनतपर्वभिः
MBh 6.97.26
बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः
MBh 6.97.27
हतमायं ततो रक्षो वध्यमानं च सायकैः
रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात्
MBh 6.97.28
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे
आर्जुनिः समरे सैन्यं तावकं संममर्द ह
मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव
MBh 6.97.29
ततः शांतनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम्
महता रथवंशेन सौभद्रं पर्यवारयत्
MBh 6.97.30
कोष्ठकीकृत्य तं वीरं धार्तराष्ट्रा महारथाः
एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम्
MBh 6.97.31
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः
सदृशो वासुदेवस्य विक्रमेण बलेन च
MBh 6.97.32
उभयोः सदृशं कर्म स पितुर्मातुलस्य च
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः
MBh 6.97.33
ततो धनंजयो राजन्विनिघ्नंस्तव सैनिकान्
आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः
MBh 6.97.34
तथैव समरे राजन्पिता देवव्रतस्तव
आससाद रणे पार्थं स्वर्भानुरिव भास्करम्
MBh 6.97.35
ततः सरथनागाश्वाः पुत्रास्तव विशां पते
परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः
MBh 6.97.36
तथैव पाण्डवा राजन्परिवार्य धनंजयम्
रणाय महते युक्ता दंशिता भरतर्षभ
MBh 6.97.37
शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम्
अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत्
MBh 6.97.38
प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः
पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम्
MBh 6.97.39
गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः
हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः
MBh 6.97.40
शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः
गौतमान्तकरं घोरं समादत्त शिलीमुखम्
MBh 6.97.41
तमापतन्तं वेगेन शक्राशनिसमद्युतिम्
द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः
MBh 6.97.42
समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम्
अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा
MBh 6.97.43
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत
अथैनं छिन्नधन्वानं ताडयामास सायकैः
MBh 6.97.44
सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम्
द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत्
MBh 6.97.45
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः
निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः
MBh 6.97.46
प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान्
वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत्
MBh 6.97.47
शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम्
वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा
MBh 6.97.48
ततोऽपरेण भल्लेन माधवस्य ध्वजोत्तमम्
चिच्छेद समरे द्रौणिः सिंहनादं ननाद च
MBh 6.97.49
पुनश्चैनं शरैर्घोरैश्छादयामास भारत
निदाघान्ते महाराज यथा मेघो दिवाकरम्
MBh 6.97.50
सात्यकिश्च महाराज शरजालं निहत्य तत्
द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा
MBh 6.97.51
तापयामास च द्रौणिं शैनेयः परवीरहा
विमुक्तो मेघजालेन यथैव तपनस्तथा
MBh 6.97.52
शराणां च सहस्रेण पुनरेनं समुद्यतम्
सात्यकिश्छादयामास ननाद च महाबलः
MBh 6.97.53
दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम्
अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान्
MBh 6.97.54
विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे
परीप्सन्स्वसुतं राजन्वार्ष्णेयेनाभितापितम्
MBh 6.97.55
सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम्
द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः
MBh 6.97.56
तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः
अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः
MBh 6.97.57
ततो द्रोणश्च पार्थश्च समेयातां महामृधे
यथा बुधश्च शुक्रश्च महाराज नभस्तले
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 96
- Next chapter · Bhīṣma-Parva Ch 98 →
Sources and Connected Readings
Continue from these 57 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.97local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷