🪷 Mahābhārata · Bhīṣma-Parva · Chapter 96

The Book of Bhīṣma · Parva 6 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 51 Shlokas

MBh 6.96.1
संजय उवाच अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः अभिदुद्राव तेजस्वी दुर्योधनबलं महत् विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः
MBh 6.96.2
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् निवारयितुमप्याजौ त्वदीयाः कुरुपुंगवाः
MBh 6.96.3
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम्
MBh 6.96.4
यमदण्डोपमान्घोराञ्ज्वलनाशीविषोपमान् सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान्
MBh 6.96.5
रथिनं च रथात्तूर्णं हयपृष्ठाच्च सादिनम् गजारोहांश्च सगजान्पातयामास फाल्गुनिः
MBh 6.96.6
तस्य तत्कुर्वतः कर्म महत्संख्येऽद्भुतं नृपाः पूजयां चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम्
MBh 6.96.7
तान्यनीकानि सौभद्रो द्रावयन्बह्वशोभत तूलराशिमिवाधूय मारुतः सर्वतोदिशम्
MBh 6.96.8
तेन विद्राव्यमाणानि तव सैन्यानि भारत त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः
MBh 6.96.9
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन्
MBh 6.96.10
न चैनं तावकाः सर्वे विषेहुररिघातिनम् प्रदीप्तं पावकं यद्वत्पतंगाः कालचोदिताः
MBh 6.96.11
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः अदृश्यत महेष्वासः सवज्र इव वज्रभृत्
MBh 6.96.12
हेमपृष्ठं धनुश्चास्य ददृशे चरतो दिशः तोयदेषु यथा राजन्भ्राजमानाः शतह्रदाः
MBh 6.96.13
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः
MBh 6.96.14
तथैव चरतस्तस्य सौभद्रस्य महात्मनः रथेन मेघघोषेण ददृशुर्नान्तरं जनाः
MBh 6.96.15
मोहयित्वा कृपं द्रोणं द्रौणिं च स बृहद्बलम् सैन्धवं च महेष्वासं व्यचरल्लघु सुष्ठु च
MBh 6.96.16
मण्डलीकृतमेवास्य धनुः पश्याम मारिष सूर्यमण्डलसंकाशं तपतस्तव वाहिनीम्
MBh 6.96.17
तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं शरार्चिभिः द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः
MBh 6.96.18
तेनार्दिता महाराज भारती सा महाचमूः बभ्राम तत्र तत्रैव योषिन्मदवशादिव
MBh 6.96.19
द्रावयित्वा च तत्सैन्यं कम्पयित्वा महारथान् नन्दयामास सुहृदो मयं जित्वेव वासवः
MBh 6.96.20
तेन विद्राव्यमाणानि तव सैन्यानि संयुगे चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम्
MBh 6.96.21
तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष मारुतोद्धूतवेगस्य समुद्रस्येव पर्वणि दुर्योधनस्तदा राजा आर्श्यशृङ्गिमभाषत
MBh 6.96.22
एष कार्ष्णिर्महेष्वासो द्वितीय इव फल्गुनः चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव
MBh 6.96.23
तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत् ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम्
MBh 6.96.24
स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे वयं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः
MBh 6.96.25
स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् नर्दमानो महानादं प्रावृषीव बलाहकः
MBh 6.96.26
तस्य शब्देन महता पाण्डवानां महद्बलम् प्राचलत्सर्वतो राजन्पूर्यमाण इवार्णवः
MBh 6.96.27
बहवश्च नरा राजंस्तस्य नादेन भीषिताः प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले
MBh 6.96.28
कार्ष्णिश्चापि मुदा युक्तः प्रगृहीतशरासनः नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत्
MBh 6.96.29
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनिं रणे नातिदूरे स्थितस्तस्य द्रावयामास वै चमूम्
MBh 6.96.30
सा वध्यमाना समरे पाण्डवानां महाचमूः प्रत्युद्ययौ रणे रक्षो देवसेना यथा बलिम्
MBh 6.96.31
विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष रक्षसा घोररूपेण वध्यमानस्य संयुगे
MBh 6.96.32
ततः शरसहस्रैस्तां पाण्डवानां महाचमूम् व्यद्रावयद्रणे रक्षो दर्शयद्वै पराक्रमम्
MBh 6.96.33
सा वध्यमाना च तथा पाण्डवानामनीकिनी रक्षसा घोररूपेण प्रदुद्राव रणे भयात्
MBh 6.96.34
तां प्रमृद्य ततः सेनां पद्मिनीं वारणो यथा ततोऽभिदुद्राव रणे द्रौपदेयान्महाबलान्
MBh 6.96.35
ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम्
MBh 6.96.36
वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः
MBh 6.96.37
प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः
MBh 6.96.38
स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः मरीचिभिरिवार्कस्य संस्यूतो जलदो महान्
MBh 6.96.39
विषक्तैः स शरैश्चापि तपनीयपरिच्छदैः आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः
MBh 6.96.40
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः
MBh 6.96.41
स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे
MBh 6.96.42
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः
MBh 6.96.43
प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च
MBh 6.96.44
एकैकं च त्रिभिर्बाणैराजघान स्मयन्निव अलम्बुसो रथोपस्थे नृत्यन्निव महारथः
MBh 6.96.45
त्वरमाणश्च संक्रुद्धो हयांस्तेषां महात्मनाम् जघान राक्षसः क्रुद्धः सारथींश्च महाबलः
MBh 6.96.46
बिभेद च सुसंहृष्टः पुनश्चैनान्सुसंशितैः शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः
MBh 6.96.47
विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः अभिदुद्राव वेगेन हन्तुकामो निशाचरः
MBh 6.96.48
तानर्दितान्रणे तेन राक्षसेन दुरात्मना दृष्ट्वार्जुनसुतः संख्ये राक्षसं समुपाद्रवत्
MBh 6.96.49
तयोः समभवद्युद्धं वृत्रवासवयोरिव ददृशुस्तावकाः सर्वे पाण्डवाश्च महारथाः
MBh 6.96.50
तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् महाबलौ महाराज क्रोधसंरक्तलोचनौ परस्परमवेक्षेतां कालानलसमौ युधि
MBh 6.96.51
तयोः समागमो घोरो बभूव कटुकोदयः यथा देवासुरे युद्धे शक्रशम्बरयोरिव

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 51 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.96local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷