🪷 Mahābhārata · Bhīṣma-Parva · Chapter 95
The Book of Bhīṣma · Parva 6 · 53 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 53 Shlokas
MBh 6.95.1
संजय उवाच
प्रभातायां तु शर्वर्यां प्रातरुत्थाय वै नृपः
राज्ञः समाज्ञापयत सेनां योजयतेति ह
अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान्
MBh 6.95.2
दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु
मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः
MBh 6.95.3
निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम्
दीर्घं दध्यौ शांतनवो योद्धुकामोऽर्जुनं रणे
MBh 6.95.4
इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम्
दुर्योधनो महाराज दुःशासनमचोदयत्
MBh 6.95.5
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः
द्वात्रिंशत्त्वमनीकानि सर्वाण्येवाभिचोदय
MBh 6.95.6
इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम्
पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः
MBh 6.95.7
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम्
स नो गुप्तः सुखाय स्याद्धन्यात्पार्थांश्च संयुगे
MBh 6.95.8
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम्
स्त्रीपूर्वको ह्यसौ जातस्तस्माद्वर्ज्यो रणे मया
MBh 6.95.9
लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया
राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा
MBh 6.95.10
नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथंचन
हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते
MBh 6.95.11
अयं स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः
उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी
MBh 6.95.12
कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत
तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथंचन
MBh 6.95.13
युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः
सर्वानन्यान्हनिष्यामि संप्राप्तान्बाणगोचरान्
MBh 6.95.14
एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित्
तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम्
MBh 6.95.15
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावने
मा वृकेणेव शार्दूलं घातयेम शिखण्डिना
MBh 6.95.16
मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः
यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः
MBh 6.95.17
एतच्छ्रुत्वा तु राजानो दुर्योधनवचस्तदा
सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन्
MBh 6.95.18
पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा
कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान्
MBh 6.95.19
तै रथैश्च सुसंयुक्तैर्दन्तिभिश्च महारथाः
परिवार्य रणे भीष्मं दंशिताः समवस्थिताः
MBh 6.95.20
यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम्
सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम्
MBh 6.95.21
ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत्
सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्
गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः
MBh 6.95.22
स रक्ष्यमाणः पार्थेन तथास्माभिर्विवर्जितः
यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु
MBh 6.95.23
भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव
भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह
MBh 6.95.24
भीष्मं तु रथवंशेन दृष्ट्वा तमभिसंवृतम्
अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह
MBh 6.95.25
शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ
स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमप्युत
MBh 6.95.26
ततः शांतनवो भीष्मो निर्ययौ सेनया सह
व्यूहं चाव्यूहत महत्सर्वतोभद्रमाहवे
MBh 6.95.27
कृपश्च कृतवर्मा च शैब्यश्चैव महारथः
शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः
MBh 6.95.28
भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत
अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः
MBh 6.95.29
द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः
MBh 6.95.30
अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ
महत्या सेनया युक्ता वामं पक्षमपालयन्
MBh 6.95.31
दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः
व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत
MBh 6.95.32
अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः
पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ
MBh 6.95.33
एवमेते तदा व्यूहं कृत्वा भारत तावकाः
संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः
MBh 6.95.34
तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः
नकुलः सहदेवश्च माद्रीपुत्रावुभावपि
अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः
MBh 6.95.35
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः
स्थिताः सैन्येन महता परानीकविनाशनाः
MBh 6.95.36
शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः
चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान्
स्थिता रणे महाराज महत्या सेनया वृताः
MBh 6.95.37
अभिमन्युर्महेष्वासो द्रुपदश्च महारथः
केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः
MBh 6.95.38
एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम्
पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष
MBh 6.95.39
तावकास्तु रणे यत्ताः सहसेना नराधिपाः
अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाग्रतो नृप
MBh 6.95.40
तथैव पाण्डवा राजन्भीमसेनपुरोगमाः
भीष्मं युद्धपरिप्रेप्सुं संग्रामे विजिगीषवः
MBh 6.95.41
क्ष्वेडाः किलिकिलाशब्दान्क्रकचान्गोविषाणिकाः
भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान्
पाण्डवा अभ्यधावन्त नदन्तो भैरवान्रवान्
MBh 6.95.42
भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः
उत्क्रुष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः
MBh 6.95.43
वयं प्रतिनदन्तस्तानभ्यगच्छाम सत्वराः
सहसैवाभिसंक्रुद्धास्तदासीत्तुमुलं महत्
MBh 6.95.44
ततोऽन्योन्यं प्रधावन्तः संप्रहारं प्रचक्रिरे
ततः शब्देन महता प्रचकम्पे वसुंधरा
MBh 6.95.45
पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः
सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत
MBh 6.95.46
ववुश्च तुमुला वाताः शंसन्तः सुमहद्भयम्
घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे
वेदयन्त्यो महाराज महद्वैशसमागतम्
MBh 6.95.47
दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च
रुधिरेण समुन्मिश्रमस्थिवर्षं तथैव च
MBh 6.95.48
रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम्
सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशां पते
MBh 6.95.49
अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ
रक्षसां पुरुषादानां नदतां भैरवान्रवान्
MBh 6.95.50
संपतन्तः स्म दृश्यन्ते गोमायुबकवायसाः
श्वानश्च विविधैर्नादैर्भषन्तस्तत्र तस्थिरे
MBh 6.95.51
ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम्
निपेतुः सहसा भूमौ वेदयाना महद्भयम्
MBh 6.95.52
महान्त्यनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः
प्रकाशिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना
MBh 6.95.53
नरेन्द्रनागाश्वसमाकुलाना;मभ्यायतीनामशिवे मुहूर्ते
बभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 94
- Next chapter · Bhīṣma-Parva Ch 96 →
Sources and Connected Readings
Continue from these 53 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.95local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷