🪷 Mahābhārata · Bhīṣma-Parva · Chapter 92

The Book of Bhīṣma · Parva 6 · 79 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 79 Shlokas

MBh 6.92.1
संजय उवाच पुत्रं तु निहतं श्रुत्वा इरावन्तं धनंजयः दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा
MBh 6.92.2
अब्रवीत्समरे राजन्वासुदेवमिदं वचः इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा
MBh 6.92.3
कुरूणां पाण्डवानां च क्षयं घोरं महामतिः ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम्
MBh 6.92.4
अवध्या बहवो वीराः संग्रामे मधुसूदन निहताः कौरवैः संख्ये तथास्माभिश्च ते हताः
MBh 6.92.5
अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः
MBh 6.92.6
अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान्
MBh 6.92.7
दुर्योधनापराधेन शकुनेः सौबलस्य च क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च
MBh 6.92.8
इदानीं च विजानामि सुकृतं मधुसूदन कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः
MBh 6.92.9
दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम्
MBh 6.92.10
अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन
MBh 6.92.11
संचोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् नायं क्लीबयितुं कालो विद्यते माधव क्वचित्
MBh 6.92.12
एवमुक्तस्तु पार्थेन केशवः परवीरहा चोदयामास तानश्वान्पाण्डुरान्वातरंहसः
MBh 6.92.13
अथ शब्दो महानासीत्तव सैन्यस्य भारत मारुतोद्धूतवेगस्य सागरस्येव पर्वणि
MBh 6.92.14
अपराह्णे महाराज संग्रामः समपद्यत पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः
MBh 6.92.15
ततो राजंस्तव सुता भीमसेनमुपाद्रवन् परिवार्य रणे द्रोणं वसवो वासवं यथा
MBh 6.92.16
ततः शांतनवो भीष्मः कृपश्च रथिनां वरः भगदत्तः सुशर्मा च धनंजयमुपाद्रवन्
MBh 6.92.17
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत्
MBh 6.92.18
शेषास्त्वन्ये महाराज शेषानेव महारथान् ततः प्रववृते युद्धं घोररूपं भयावहम्
MBh 6.92.19
भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव जनेश्वर प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव
MBh 6.92.20
पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः प्रावृषीव महाराज जलदाः पर्वतं यथा
MBh 6.92.21
स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः
MBh 6.92.22
व्यूढोरस्कं ततो भीमः पातयामास पार्थिव क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः
MBh 6.92.23
अपरेण तु भल्लेन पीतेन निशितेन च अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा
MBh 6.92.24
ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष
MBh 6.92.25
प्रेषिता भीमसेनेन शरास्ते दृढधन्वना अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान्
MBh 6.92.26
अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम् दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम्
MBh 6.92.27
प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव
MBh 6.92.28
ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते तं कालमिव मन्यन्तो भीमसेनं महाबलम्
MBh 6.92.29
द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः
MBh 6.92.30
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव
MBh 6.92.31
यथा हि गोवृषो वर्षं संधारयति खात्पतत् भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत्
MBh 6.92.32
अद्भुतं च महाराज तत्र चक्रे वृकोदरः यत्पुत्रांस्तेऽवधीत्संख्ये द्रोणं चैव न्ययोधयत्
MBh 6.92.33
पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः मृगेष्विव महाराज चरन्व्याघ्रो महाबलः
MBh 6.92.34
यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे
MBh 6.92.35
गाङ्गेयो भगदत्तश्च गौतमश्च महारथः पाण्डवं रभसं युद्धे वारयामासुरर्जुनम्
MBh 6.92.36
अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे
MBh 6.92.37
अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम् विरथं रथिनां श्रेष्ठं कारयामास सायकैः
MBh 6.92.38
विरथो वध्यमानः स सौभद्रेण यशस्विना अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः
MBh 6.92.39
असिं चिक्षेप समरे सौभद्रस्य महात्मनः आरुरोह रथं चैव हार्दिक्यस्य महात्मनः
MBh 6.92.40
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः लाघवाद्व्यंसयामास सौभद्रः परवीरहा
MBh 6.92.41
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते
MBh 6.92.42
धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन्
MBh 6.92.43
तत्राक्रन्दो महानासीत्तव तेषां च भारत निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम्
MBh 6.92.44
अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा
MBh 6.92.45
बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः विवरं प्राप्य चान्योन्यमनयन्यमसादनम्
MBh 6.92.46
न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः
MBh 6.92.47
रणे चारूणि चापानि हेमपृष्ठानि भारत हतानामपविद्धानि कलापाश्च महाधनाः
MBh 6.92.48
जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः
MBh 6.92.49
हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम्
MBh 6.92.50
सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः
MBh 6.92.51
अपकृत्ताश्च पतिता मुसलानि गुरूणि च परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष
MBh 6.92.52
पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः कुथाश्च बहुधाकाराश्चामरव्यजनानि च
MBh 6.92.53
नानाविधानि शस्त्राणि विसृज्य पतिता नराः जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः
MBh 6.92.54
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ
MBh 6.92.55
तथैवाश्वनृनागानां शरीरैराबभौ तदा संछन्ना वसुधा राजन्पर्वतैरिव सर्वतः
MBh 6.92.56
समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः
MBh 6.92.57
परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी
MBh 6.92.58
निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः गतासुभिरमित्रघ्न विबभौ संवृता मही
MBh 6.92.59
सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम्
MBh 6.92.60
बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी
MBh 6.92.61
कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः
MBh 6.92.62
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः
MBh 6.92.63
रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः
MBh 6.92.64
अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः
MBh 6.92.65
स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही नानारूपैरलंकारैः प्रमदेवाभ्यलंकृता
MBh 6.92.66
दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः
MBh 6.92.67
नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः
MBh 6.92.68
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा
MBh 6.92.69
ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च सकम्पनैः
MBh 6.92.70
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा
MBh 6.92.71
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः
MBh 6.92.72
विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा
MBh 6.92.73
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि
MBh 6.92.74
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः
MBh 6.92.75
अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा
MBh 6.92.76
एवमेते महासेने मृदिते तत्र भारत परस्परं समासाद्य तव तेषां च संयुगे
MBh 6.92.77
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत रात्रिः समभवद्घोरा नापश्याम ततो रणम्
MBh 6.92.78
ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे
MBh 6.92.79
अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 79 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.92local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷