🪷 Mahābhārata · Bhīṣma-Parva · Chapter 93

The Book of Bhīṣma · Parva 6 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 41 Shlokas

MBh 6.93.1
संजय उवाच ततो दुर्योधनो राजा शकुनिश्चापि सौबलः दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः
MBh 6.93.2
समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम् कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति
MBh 6.93.3
ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः सूतपुत्रं समाभाष्य सौबलं च महाबलम्
MBh 6.93.4
द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम्
MBh 6.93.5
अवध्यमानास्ते चापि क्षपयन्ति बलं मम सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे
MBh 6.93.6
निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम्
MBh 6.93.7
तमब्रवीन्महाराज सूतपुत्रो नराधिपम् मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव
MBh 6.93.8
भीष्मः शांतनवस्तूर्णमपयातु महारणात् निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत
MBh 6.93.9
अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप
MBh 6.93.10
पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान्
MBh 6.93.11
अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः स कथं पाण्डवान्युद्धे जेष्यते तात संगतान्
MBh 6.93.12
स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत
MBh 6.93.13
न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् मयैकेन रणे राजन्ससुहृद्गणबान्धवान्
MBh 6.93.14
एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः
MBh 6.93.15
अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः दुःशासन तथा क्षिप्रं सर्वमेवोपपादय
MBh 6.93.16
एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम्
MBh 6.93.17
आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिंदम ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम्
MBh 6.93.18
निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः
MBh 6.93.19
ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा
MBh 6.93.20
अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत्
MBh 6.93.21
भाण्डीपुष्पनिकाशेन तपनीयनिभेन च अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना
MBh 6.93.22
अरजोम्बरसंवीतः सिंहखेलगतिर्नृपः शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः
MBh 6.93.23
तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम्
MBh 6.93.24
हयानन्ये समारुह्य गजानन्ये च भारत रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः
MBh 6.93.25
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि
MBh 6.93.26
संपूज्यमानः कुरुभिः कौरवाणां महारथः प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः
MBh 6.93.27
दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम्
MBh 6.93.28
प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम् शुश्राव मधुरा वाचो नानादेशनिवासिनाम्
MBh 6.93.29
संस्तूयमानः सूतैश्च मागधैश्च महायशाः पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः
MBh 6.93.30
प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः
MBh 6.93.31
स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः
MBh 6.93.32
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः प्रोत्सारयन्तः शनकैस्तं जनं सर्वतोदिशम्
MBh 6.93.33
संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः
MBh 6.93.34
अभिवाद्य ततो भीष्मं निषण्णः परमासने काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरणसंवृते उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः
MBh 6.93.35
त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान्
MBh 6.93.36
किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान्
MBh 6.93.37
पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान् पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत
MBh 6.93.38
तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् सोमकांश्च महेष्वासान्सत्यवाग्भव भारत
MBh 6.93.39
दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो मन्दभाग्यतया वापि मम रक्षसि पाण्डवान्
MBh 6.93.40
अनुजानीहि समरे कर्णमाहवशोभिनम् स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान्
MBh 6.93.41
एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव नोवाच वचनं किंचिद्भीष्मं भीमपराक्रमम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.93local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷