🪷 Mahābhārata · Bhīṣma-Parva · Chapter 91
The Book of Bhīṣma · Parva 6 · 81 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 81 Shlokas
MBh 6.91.1
संजय उवाच
तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा
गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च
MBh 6.91.2
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे
घटोत्कचस्य विजयमात्मनश्च पराजयम्
MBh 6.91.3
कथयामास दुर्धर्षो विनिःश्वस्य पुनः पुनः
अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम्
MBh 6.91.4
भवन्तं समुपाश्रित्य वासुदेवं यथा परैः
पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो
MBh 6.91.5
एकादश समाख्याता अक्षौहिण्यश्च या मम
निदेशे तव तिष्ठन्ति मया सार्धं परंतप
MBh 6.91.6
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः
घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः
MBh 6.91.7
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः
तदिच्छामि महाभाग त्वत्प्रसादात्परंतप
MBh 6.91.8
राक्षसापसदं हन्तुं स्वयमेव पितामह
त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि
MBh 6.91.9
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम
दुर्योधनमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत्
MBh 6.91.10
शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव
यथा त्वया महाराज वर्तितव्यं परंतप
MBh 6.91.11
आत्मा रक्ष्यो रणे तात सर्वावस्थास्वरिंदम
धर्मराजेन संग्रामस्त्वया कार्यः सदानघ
MBh 6.91.12
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः
राजधर्मं पुरस्कृत्य राजा राजानमृच्छति
MBh 6.91.13
अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः
शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः
MBh 6.91.14
तव च भ्रातरः शूरा दुःशासनपुरोगमाः
त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम्
MBh 6.91.15
तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान्
अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः
भगदत्तो महीपालः पुरंदरसमो युधि
MBh 6.91.16
एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत्
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः
MBh 6.91.17
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम्
वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम्
राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा
MBh 6.91.18
तव दिव्यानि चास्त्राणि विक्रमश्च परंतप
समागमश्च बहुभिः पुराभूदसुरैः सह
MBh 6.91.19
त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे
स्वबलेन वृतो राजञ्जहि राक्षसपुंगवम्
MBh 6.91.20
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः
प्रययौ सिंहनादेन परानभिमुखो द्रुतम्
MBh 6.91.21
तमाद्रवन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम्
अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः
MBh 6.91.22
भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः
द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च मारिष
MBh 6.91.23
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा
सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत्
MBh 6.91.24
ततः समभवद्युद्धं घोररूपं भयानकम्
पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम्
MBh 6.91.25
प्रमुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः
ते निपेतुर्महाराज नागेषु च रथेषु च
MBh 6.91.26
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः
परस्परं समासाद्य संनिपेतुरभीतवत्
MBh 6.91.27
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे
बिभिदुर्दन्तमुसलैः समासाद्य परस्परम्
MBh 6.91.28
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः
चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम्
MBh 6.91.29
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः
न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः
MBh 6.91.30
रथिनश्च तथा राजन्कर्णिनालीकसायकैः
निहत्य समरे वीरान्सिंहनादान्विनेदिरे
MBh 6.91.31
तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे
भगदत्तो महेष्वासो भीमसेनमथाद्रवत्
MBh 6.91.32
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम्
पर्वतेन यथा तोयं स्रवमाणेन सर्वतः
MBh 6.91.33
किरञ्शरसहस्राणि सुप्रतीकशिरोगतः
ऐरावतस्थो मघवान्वारिधारा इवानघ
MBh 6.91.34
स भीमं शरधाराभिस्ताडयामास पार्थिवः
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः
MBh 6.91.35
भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान्
निजघान महेष्वासः संक्रुद्धः शरवृष्टिभिः
MBh 6.91.36
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान्
चोदयामास नागेन्द्रं भीमसेनरथं प्रति
MBh 6.91.37
स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा
अभ्यधावत वेगेन भीमसेनमरिंदमम्
MBh 6.91.38
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथाः
अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः
MBh 6.91.39
केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः
दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष
चेदिपश्चित्रकेतुश्च संक्रुद्धाः सर्व एव ते
MBh 6.91.40
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः
तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन्
MBh 6.91.41
स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः
संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट्
MBh 6.91.42
दशार्णाधिपतिश्चापि गजं भूमिधरोपमम्
समास्थितोऽभिदुद्राव भगदत्तस्य वारणम्
MBh 6.91.43
तमापतन्तं समरे गजं गजपतिः स च
दधार सुप्रतीकोऽपि वेलेव मकरालयम्
MBh 6.91.44
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः
साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन्
MBh 6.91.45
ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश
प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम
MBh 6.91.46
तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम्
विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः
MBh 6.91.47
स गाढविद्धो व्यथितो नागो भरतसत्तम
उपावृत्तमदः क्षिप्रं स न्यवर्तत वेगतः
MBh 6.91.48
प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम्
स मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा
MBh 6.91.49
तस्मिन्पराजिते नागे पाण्डवानां महारथाः
सिंहनादं विनद्योच्चैर्युद्धायैवोपतस्थिरे
MBh 6.91.50
ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन्
किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च
MBh 6.91.51
तेषामापततां राजन्संक्रुद्धानाममर्षिणाम्
श्रुत्वा स निनदं घोरममर्षाद्गतसाध्वसः
भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत्
MBh 6.91.52
अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि
तस्मिन्क्षणे समभवत्संवर्तक इवानलः
MBh 6.91.53
रथसंघांस्तथा नागान्हयांश्च सह सादिभिः
पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशः
अमृद्नात्समरे राजन्संप्रधावंस्ततस्ततः
MBh 6.91.54
तेन संलोड्यमानं तु पाण्डूनां तद्बलं महत्
संचुकोच महाराज चर्मेवाग्नौ समाहितम्
MBh 6.91.55
भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता
घटोत्कचोऽथ संक्रुद्धो भगदत्तमुपाद्रवत्
MBh 6.91.56
विकटः पुरुषो राजन्दीप्तास्यो दीप्तलोचनः
रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव
MBh 6.91.57
जग्राह विपुलं शूलं गिरीणामपि दारणम्
नागं जिघांसुः सहसा चिक्षेप च महाबलः
सविष्फुलिङ्गज्वालाभिः समन्तात्परिवेष्टितम्
MBh 6.91.58
तमापतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे
चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं स पार्थिवः
चिच्छेद सुमहच्छूलं तेन बाणेन वेगवत्
MBh 6.91.59
निपपात द्विधा छिन्नं शूलं हेमपरिष्कृतम्
महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता
MBh 6.91.60
शूलं निपतितं दृष्ट्वा द्विधा कृत्तं स पार्थिवः
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम्
चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत्
MBh 6.91.61
तामापतन्तीं संप्रेक्ष्य वियत्स्थामशनीमिव
उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च
MBh 6.91.62
बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत
पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत्
MBh 6.91.63
तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा
दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः
MBh 6.91.64
पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः
साधु साध्विति नादेन पृथिवीमनुनादयन्
MBh 6.91.65
तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम्
नामृष्यत महेष्वासो भगदत्तः प्रतापवान्
MBh 6.91.66
स विस्फार्य महच्चापमिन्द्राशनिसमस्वनम्
अभिदुद्राव वेगेन पाण्डवानां महारथान्
विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान्
MBh 6.91.67
भीममेकेन विव्याध राक्षसं नवभिः शरैः
अभिमन्युं त्रिभिश्चैव केकयान्पञ्चभिस्तथा
MBh 6.91.68
पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा
बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे
पपात सहसा तस्य सशरं धनुरुत्तमम्
MBh 6.91.69
द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत्
भीमसेनस्य च क्रोधान्निजघान तुरंगमान्
MBh 6.91.70
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः
निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः
MBh 6.91.71
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
विशोको भरतश्रेष्ठ भगदत्तेन संयुगे
MBh 6.91.72
ततो भीमो महाराज विरथो रथिनां वरः
गदां प्रगृह्य वेगेन प्रचस्कन्द महारथात्
MBh 6.91.73
तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम्
तावकानां भयं घोरं समपद्यत भारत
MBh 6.91.74
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः
आजगाम महाराज निघ्नञ्शत्रून्सहस्रशः
MBh 6.91.75
यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ परंतपौ
प्राग्ज्योतिषेण संसक्तौ भीमसेनघटोत्कचौ
MBh 6.91.76
दृष्ट्वा तु पाण्डवो राजन्युध्यमानान्महारथान्
त्वरितो भरतश्रेष्ठ तत्रायाद्विकिरञ्शरान्
MBh 6.91.77
ततो दुर्योधनो राजा त्वरमाणो महारथः
सेनामचोदयत्क्षिप्रं रथनागाश्वसंकुलाम्
MBh 6.91.78
तामापतन्तीं सहसा कौरवाणां महाचमूम्
अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः
MBh 6.91.79
भगदत्तोऽपि समरे तेन नागेन भारत
विमृद्नन्पाण्डवबलं युधिष्ठिरमुपाद्रवत्
MBh 6.91.80
तदासीत्तुमुलं युद्धं भगदत्तस्य मारिष
पाञ्चालैः सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः
MBh 6.91.81
भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ
आश्रावयद्यथावृत्तमिरावद्वधमुत्तमम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 90
- Next chapter · Bhīṣma-Parva Ch 92 →
Sources and Connected Readings
Continue from these 81 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.91local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷