🪷 Mahābhārata · Bhīṣma-Parva · Chapter 81
The Book of Bhīṣma · Parva 6 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 37 Shlokas
MBh 6.81.1
संजय उवाच
स तुद्यमानस्तु शरैर्धनंजयः; पदा हतो नाग इव श्वसन्बली
बाणेन बाणेन महारथानां; चिच्छेद चापानि रणे प्रसह्य
MBh 6.81.2
संछिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां क्षणेन
विव्याध बाणैर्युगपन्महात्मा; निःशेषतां तेष्वथ मन्यमानः
MBh 6.81.3
निपेतुराजौ रुधिरप्रदिग्धा;स्ते ताडिताः शक्रसुतेन राजन्
विभिन्नगात्राः पतितोत्तमाङ्गा; गतासवश्छिन्नतनुत्रकायाः
MBh 6.81.4
महीं गताः पार्थबलाभिभूता; विचित्ररूपा युगपद्विनेशुः
दृष्ट्वा हतांस्तान्युधि राजपुत्रां;स्त्रिगर्तराजः प्रययौ क्षणेन
MBh 6.81.5
तेषां रथानामथ पृष्ठगोपा; द्वात्रिंशदन्येऽब्यपतन्त पार्थम्
तथैव ते संपरिवार्य पार्थं; विकृष्य चापानि महारवाणि
अवीवृषन्बाणमहौघवृष्ट्या; यथा गिरिं तोयधरा जलौघैः
MBh 6.81.6
संपीड्यमानस्तु शरौघवृष्ट्या; धनंजयस्तान्युधि जातरोषः
षष्ट्या शरैः संयति तैलधौतै;र्जघान तानप्यथ पृष्ठगोपान्
MBh 6.81.7
षष्टिं रथांस्तानवजित्य संख्ये; धनंजयः प्रीतमना यशस्वी
अथात्वरद्भीष्मवधाय जिष्णु;र्बलानि राज्ञां समरे निहत्य
MBh 6.81.8
त्रिगर्तराजो निहतान्समीक्ष्य; महारथांस्तानथ बन्धुवर्गान्
रणे पुरस्कृत्य नराधिपांस्ता;ञ्जगाम पार्थं त्वरितो वधाय
MBh 6.81.9
अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनंजयं वीक्ष्य शिखण्डिमुख्याः
अभ्युद्ययुस्ते शितशस्त्रहस्ता; रिरक्षिषन्तो रथमर्जुनस्य
MBh 6.81.10
पार्थोऽपि तानापततः समीक्ष्य; त्रिगर्तराज्ञा सहितान्नृवीरान्
विध्वंसयित्वा समरे धनुष्मा;न्गाण्डीवमुक्तैर्निशितैः पृषत्कैः
भीष्मं यियासुर्युधि संददर्श; दुर्योधनं सैन्धवादींश्च राज्ञः
MBh 6.81.11
आवारयिष्णूनभिसंप्रयाय; मुहूर्तमायोध्य बलेन वीरः
उत्सृज्य राजानमनन्तवीर्यो; जयद्रथादींश्च नृपान्महौजाः
ययौ ततो भीमबलो मनस्वी; गाङ्गेयमाजौ शरचापपाणिः
MBh 6.81.12
युधिष्ठिरश्चोग्रबलो महात्मा; समाययौ त्वरितो जातकोपः
मद्राधिपं समभित्यज्य संख्ये; स्वभागमाप्तं तमनन्तकीर्तिः
सार्धं स माद्रीसुतभीमसेनै;र्भीष्मं ययौ शांतनवं रणाय
MBh 6.81.13
तैः संप्रयुक्तः स महारथाग्र्यै;र्गङ्गासुतः समरे चित्रयोधी
न विव्यथे शांतनवो महात्मा; समागतैः पाण्डुसुतैः समस्तैः
MBh 6.81.14
अथैत्य राजा युधि सत्यसंधो; जयद्रथोऽत्युग्रबलो मनस्वी
चिच्छेद चापानि महारथानां; प्रसह्य तेषां धनुषा वरेण
MBh 6.81.15
युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि संजातकोपः
दुर्योधनः क्रोधविषो महात्मा; जघान बाणैरनलप्रकाशैः
MBh 6.81.16
कृपेण शल्येन शलेन चैव; तथा विभो चित्रसेनेन चाजौ
विद्धाः शरैस्तेऽतिविवृद्धकोपै;र्देवा यथा दैत्यगणैः समेतैः
MBh 6.81.17
छिन्नायुधं शांतनवेन राजा; शिखण्डिनं प्रेक्ष्य च जातकोपः
अजातशत्रुः समरे महात्मा; शिखण्डिनं क्रुद्ध उवाच वाक्यम्
MBh 6.81.18
उक्त्वा तथा त्वं पितुरग्रतो मा;महं हनिष्यामि महाव्रतं तम्
भीष्मं शरौघैर्विमलार्कवर्णैः; सत्यं वदामीति कृता प्रतिज्ञा
MBh 6.81.19
त्वया न चैनां सफलां करोषि; देवव्रतं यन्न निहंसि युद्धे
मिथ्याप्रतिज्ञो भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश्च
MBh 6.81.20
प्रेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस्तपन्तं मम सैन्यसंघान्
शरौघजालैरतितिग्मतेजैः; कालं यथा मृत्युकृतं क्षणेन
MBh 6.81.21
निकृत्तचापः समरानपेक्षः; पराजितः शांतनवेन राज्ञा
विहाय बन्धूनथ सोदरांश्च; क्व यास्यसे नानुरूपं तवेदम्
MBh 6.81.22
दृष्ट्वा हि भीष्मं तमनन्तवीर्यं; भग्नं च सैन्यं द्रवमाणमेवम्
भीतोऽसि नूनं द्रुपदस्य पुत्र; तथा हि ते मुखवर्णोऽप्रहृष्टः
MBh 6.81.23
आज्ञायमानेऽपि धनंजयेन; महाहवे संप्रसक्ते नृवीर
कथं हि भीष्मात्प्रथितः पृथिव्यां; भयं त्वमद्य प्रकरोषि वीर
MBh 6.81.24
स धर्मराजस्य वचो निशम्य; रूक्षाक्षरं विप्रलापानुबद्धम्
प्रत्यादेशं मन्यमानो महात्मा; प्रतत्वरे भीष्मवधाय राजन्
MBh 6.81.25
तमापतन्तं महता जवेन; शिखण्डिनं भीष्ममभिद्रवन्तम्
आवारयामास हि शल्य एनं; शस्त्रेण घोरेण सुदुर्जयेन
MBh 6.81.26
स चापि दृष्ट्वा समुदीर्यमाण;मस्त्रं युगान्ताग्निसमप्रभावम्
नासौ व्यमुह्यद्द्रुपदस्य पुत्रो; राजन्महेन्द्रप्रतिमप्रभावः
MBh 6.81.27
तस्थौ च तत्रैव महाधनुष्मा;ञ्शरैस्तदस्त्रं प्रतिबाधमानः
अथाददे वारुणमन्यदस्त्रं; शिखण्ड्यथोग्रं प्रतिघाताय तस्य
तदस्त्रमस्त्रेण विदार्यमाणं; खस्थाः सुरा ददृशुः पार्थिवाश्च
MBh 6.81.28
भीष्मस्तु राजन्समरे महात्मा; धनुः सुचित्रं ध्वजमेव चापि
छित्त्वानदत्पाण्डुसुतस्य वीरो; युधिष्ठिरस्याजमीढस्य राज्ञः
MBh 6.81.29
ततः समुत्सृज्य धनुः सबाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम्
गदां प्रगृह्याभिपपात संख्ये; जयद्रथं भीमसेनः पदातिः
MBh 6.81.30
तमापतन्तं महता जवेन; जयद्रथः सगदं भीमसेनम्
विव्याध घोरैर्यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात्
MBh 6.81.31
अचिन्तयित्वा स शरांस्तरस्वी; वृकोदरः क्रोधपरीतचेताः
जघान वाहान्समरे समस्ता;नारट्टजान्सिन्धुराजस्य संख्ये
MBh 6.81.32
ततोऽभिवीक्ष्याप्रतिमप्रभाव;स्तवात्मजस्त्वरमाणो रथेन
अभ्याययौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः
MBh 6.81.33
भीमोऽप्यथैनं सहसा विनद्य; प्रत्युद्ययौ गदया तर्जमानः
समुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात्
MBh 6.81.34
विहाय सर्वे तव पुत्रमुग्रं; पातं गदायाः परिहर्तुकामाः
अपक्रान्तास्तुमुले संविमर्दे; सुदारुणे भारत मोहनीये
MBh 6.81.35
अमूढचेतास्त्वथ चित्रसेनो; महागदामापतन्तीं निरीक्ष्य
रथं समुत्सृज्य पदातिराजौ; प्रगृह्य खड्गं विमलं च चर्म
अवप्लुतः सिंह इवाचलाग्रा;ज्जगाम चान्यं भुवि भूमिदेशम्
MBh 6.81.36
गदापि सा प्राप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य संख्ये
जगाम भूमिं ज्वलिता महोल्का; भ्रष्टाम्बराद्गामिव संपतन्ती
MBh 6.81.37
आश्चर्यभूतं सुमहत्त्वदीया; दृष्ट्वैव तद्भारत संप्रहृष्टाः
सर्वे विनेदुः सहिताः समन्ता;त्पुपूजिरे तव पुत्रं ससैन्याः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 80
- Next chapter · Bhīṣma-Parva Ch 82 →
Sources and Connected Readings
Continue from these 37 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.81local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷