🪷 Mahābhārata · Bhīṣma-Parva · Chapter 81

The Book of Bhīṣma · Parva 6 · 37 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 6.81local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 37 Shlokas

MBh 6.81.1
[स] स तुद्यमानस तु शरैर धनंजयः; पदा हतॊ नाग इव शवसन बली बाणेन बाणेन महारथानां; चिच्छेद चापानि रणे परसह्य
MBh 6.81.2
संछिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां कषणेन विव्याध बाणैर युगपन महात्मा; निःशेषतां तेष्व अथ मन्यमानः
MBh 6.81.3
निपेतुर आजौ रुधिरप्रदिग्धास; ते ताडिताः शक्रसुतेन राजन विभिन्नगात्राः पतितॊत्तमाङ्गा; गतासवश छिन्नतनुत्र कायाः
MBh 6.81.4
महीं गताः पार्थ बलाभिभूता; विचित्ररूपा युगपद विनेशुः दृष्ट्वा हतांस तान युधि राजपुत्रांस; तरिगर्तराजः परययौ कषणेन
MBh 6.81.5
तेषां रथानाम अथ पृष्ठगॊपा; दवात्रिंशद अन्ये ऽबयपतन्त पार्थम तथैव ते संपरिवार्य वार्थं; विकृष्य चापानि महारवाणि अवीवृषन बाणमहौघवृष्ट्या; यथा गिरिं तॊयधरा जलौघैः
MBh 6.81.6
संपीड्य मानस तु शरौघवृष्ट्या; धनंजयस तान युधि जातरॊषः षष्ट्या शरैः संयति तैलधौतैर; जघान तान अप्य अथ पृष्ठगॊपान
MBh 6.81.7
षष्टिं रथांस तान अवजित्य संख्ये; धनंजयः परीतमना यशस्वी अथात्वरद भीष्म वधाय जिष्णुर; बलानि राज्ञां समरे निहत्य
MBh 6.81.8
तरिगर्तराजॊ निहतान समीक्ष्य; महारथांस तान अथ बन्धुवर्गान रणे पुरस्कृत्य नराधिपांस ताञ; जगाम पार्थं तवरितॊ वधाय
MBh 6.81.9
अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनंजयं वीक्ष्य शिखण्डिमुख्याः अभ्युद्ययुस ते शितशस्त्रहस्ता; रिरक्षिषन्तॊ रथम अर्जुनस्य
MBh 6.81.10
पार्थॊ ऽपि तान आपततः समीक्ष्य; तरिगर्तराज्ञा सहितान नृवीरान विध्वंसयित्वा समरे धनुष्मान; गाण्डीवमुक्तैर निशितैः पृषत्कैः भीष्मं यियासुर युधि संददर्श; दुर्यॊधनं सैन्धवादींश च राज्ञः
MBh 6.81.11
आवारयिष्णून अभिसंप्रयाय; मुहूर्तम आयॊध्य बलेन वीरः उत्सृज्य राजानम अनन्तवीर्यॊ; जयद्रथादींश च नृपान महौजाः ययौ ततॊ भीमबलॊ मनस्वी; गाङ्गेयम आजौ शरचाप पाणिः
MBh 6.81.12
युधिष्ठिरश चॊग्रबलॊ महात्मा; समाययौ तवरितॊ जातकॊपः मद्राधिपं समभित्यज्य संख्ये; सवभागम आप्तं तम अनन्त कीर्तिः सार्धं स माद्री सुत भीमसेनैर; भीष्मं ययौ शांतनवं रणाय
MBh 6.81.13
तैः संप्रयुक्तः स महारथाग्र्यैर; गङ्गासुतः समरे चित्रयॊधी न विव्यथे शांतनवॊ महात्मा; समागतैः पाण्डुसुतैः समस्तैः
MBh 6.81.14
अथैत्य राजा युधि सत्यसंधॊ; जयद्रथॊ ऽतयुग्र बलॊ मनस्वी चिच्छेद चापानि महारथानां; परसह्य तेषां धनुषा वरेण
MBh 6.81.15
युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि संजातकॊपः दुर्यॊधनः करॊधविषॊ महात्मा; जघान बाणैर अनल परकाशैः
MBh 6.81.16
कृपेण शल्येन शलेन चैव; तथा विभॊ चित्रसेनेन चाजौ विद्धाः शरैस ते ऽतिविवृद्धकॊपैर; देवा यथा दैत्य गणैः समेतैः
MBh 6.81.17
छिन्नायुधं शांतनवेन राजा; शिखण्डिनं परेक्ष्य च जातकॊपः अजातशत्रुः समरे महात्मा; शिखण्डिनं करुद्ध उवाच वाक्यम
MBh 6.81.18
उक्त्वा तथा तवं पितुर अग्रतॊ माम; अहं हनिष्यामि महाव्रतं तम भीष्मं शरौघैर विमलार्क वर्णैः; सत्यं वदामीति कृता परतिज्ञा
MBh 6.81.19
तवया न चैनां सफलां करॊषि; देवव्रतं यन न निहंसि युद्धे मिथ्याप्रतिज्ञॊ भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश च
MBh 6.81.20
परेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस तपन्तं मम सैन्यसंघान शरौघजालैर अतितिग्म तेजैः; कालं यथा मृत्युकृतं कषणेन
MBh 6.81.21
निकृत्तचापः समरानपेक्षः; पराजितः शांतनवेन राज्ञा विहाय बन्धून अथ सॊदरांश च; कव यास्यसे नानुरूपं तवेदम
MBh 6.81.22
दृष्ट्वा हि भीष्मं तम अनन्तवीर्यं; भग्नं च सैन्यं दरवमाणम एवम भीतॊ ऽसि नूनं दरुपदस्य पुत्र; तथा हि ते मुखवर्णॊ ऽपरहृष्टः
MBh 6.81.23
आज्ञायमाने ऽपि धनंजयेन; महाहवे संप्रसक्ते नृवीर कथं हि भीष्मात परथितः पृथिव्यां; भयं तवम अद्य परकरॊषि वीर
MBh 6.81.24
स धर्मराजस्य वचॊ निशम्य; रूक्षाक्षरं विप्रलापानुबद्धम परत्यादेशं मन्यमानॊ महात्मा; परतत्वरे भीष्म वधाय राजन
MBh 6.81.25
तम आपतन्तं महता जवेन; शिखण्डिनं भीष्मम अभिद्रवन्तम आवारयाम आस हि शल्य एनं; शस्त्रेण घॊरेण सुदुर्जयेन
MBh 6.81.26
स चापि दृष्ट्वा समुदीर्यमाणम; अस्त्रं युगान्ताग्निसमप्रभावम नासौ वयमुह्यद दरुपदस्य पुत्रॊ; राजन महेन्द्रप्रतिमप्रभावः
MBh 6.81.27
तस्थौ च तत्रैव महाधनुष्माञ; शरैस तद अस्त्रं परतिबाधमानः अथाददे वारुणम अन्यद अस्त्रं; शिखण्ड्य अथॊग्रं परतिघाताय तस्य तद अस्त्रम अस्त्रेण विदार्यमाणं; सवस्थाः सुरा ददृशुः पार्थिवाश च
MBh 6.81.28
भीष्मं तु राजन समरे महात्मा; धनुः सुचित्रं धवजम एव चापि छित्त्वानदत पाण्डुसुतस्य वीरॊ; युधिष्ठिरस्याजमीढस्य राज्ञः
MBh 6.81.29
ततः समुत्सृज्य धनुः स बाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम गदां परगृह्याभिपपात संख्ये; जयद्रथं भीमसेनः पदातिः
MBh 6.81.30
तम आपतन्तं महता जवेन; जयद्रथः सगदं भीमसेनम विव्याध घॊरैर यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात
MBh 6.81.31
अचिन्तयित्वा स शरांस तरस्वी; वृकॊदरः करॊधपरीत चेताः जघान वाहान समरे समस्तान; आरट्टजान सिन्धुराजस्य संख्ये
MBh 6.81.32
ततॊ ऽभिवीक्ष्याप्रतिम परभावस; तवात्मजस तवरमाणॊ रथेन अभ्याययौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः
MBh 6.81.33
भीमॊ ऽपय अथैनं सहसा विनद्य; परत्यौद्ययौ गदया तर्जमानः समुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात
MBh 6.81.34
विहाय सर्वे तव पुत्रम उग्रं पातं; गदायाः परिहर्तु कामाः अपक्रान्तास तुमुले संविमर्दे; सुदारुणे भारत मॊहनीये
MBh 6.81.35
अमूढ चेतास तव अथ चित्रसेनॊ; महागदाम आपतन्तीं निरीक्ष्य रथं समुत्सृज्य पदातिर आजौ; परगृह्य खड्गं विमलं च चर्म अवप्लुतः सिंह इवाचलाग्राञ; जगाम चान्यं भुवि भूमिदेशम
MBh 6.81.36
गदापि सा पराप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य संख्ये जगाम भूमिं जवलिता महॊल्का; भरष्टाम्बराद गाम इव संपतन्ती
MBh 6.81.37
आश्चर्यभूतं सुमहत तवदीया; दृष्ट्वैव तद भारत संप्रहृष्टाः सर्वे विनेदुः सहिताः समन्तात; पुपूजिरे तव पुत्रं स सैन्याः

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷