🪷 Mahābhārata · Bhīṣma-Parva · Chapter 82
The Book of Bhīṣma · Parva 6 · 56 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 56 Shlokas
MBh 6.82.1
संजय उवाच
विरथं तं समासाद्य चित्रसेनं मनस्विनम्
रथमारोपयामास विकर्णस्तनयस्तव
MBh 6.82.2
तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम्
भीष्मः शांतनवस्तूर्णं युधिष्ठिरमुपाद्रवत्
MBh 6.82.3
ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः
मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम्
MBh 6.82.4
युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः
महेष्वासं नरव्याघ्रं भीष्मं शांतनवं ययौ
MBh 6.82.5
ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि
भीष्मं संछादयामास यथा मेघो दिवाकरम्
MBh 6.82.6
तेन सम्यक्प्रणीतानि शरजालानि भारत
प्रतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः
MBh 6.82.7
तथैव शरजालानि भीष्मेणास्तानि मारिष
आकाशे समदृश्यन्त खगमानां व्रजा इव
MBh 6.82.8
निमेषार्धाच्च कौन्तेयं भीष्मः शांतनवो युधि
अदृश्यं समरे चक्रे शरजालेन भागशः
MBh 6.82.9
ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः
नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम्
MBh 6.82.10
असंप्राप्तं ततस्तं तु क्षुरप्रेण महारथः
चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम्
MBh 6.82.11
तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम्
निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान्
MBh 6.82.12
हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः
आरुरोह रथं तूर्णं नकुलस्य महात्मनः
MBh 6.82.13
यमावपि सुसंक्रुद्धः समासाद्य रणे तदा
शरैः संछादयामास भीष्मः परपुरंजयः
MBh 6.82.14
तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ
जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया
MBh 6.82.15
ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत्
भीष्मं शांतनवं सर्वे निहतेति सुहृद्गणान्
MBh 6.82.16
ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम्
महता रथवंशेन परिवव्रुः पितामहम्
MBh 6.82.17
स समन्तात्परिवृतः पिता देवव्रतस्तव
चिक्रीड धनुषा राजन्पातयानो महारथान्
MBh 6.82.18
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि
मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने
MBh 6.82.19
तर्जयानं रणे शूरांस्त्रासयानं च सायकैः
दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव
MBh 6.82.20
रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम्
अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः
MBh 6.82.21
शिरांसि रथिनां भीष्मः पातयामास संयुगे
तालेभ्य इव पक्वानि फलानि कुशलो नरः
MBh 6.82.22
पतद्भिश्च महाराज शिरोभिर्धरणीतले
बभूव तुमुलः शब्दः पततामश्मनामिव
MBh 6.82.23
तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान्
MBh 6.82.24
भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम्
एकमेकं समाहूय युद्धायैवोपतस्थिरे
MBh 6.82.25
शिखण्डी तु समासाद्य भरतानां पितामहम्
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत्
MBh 6.82.26
अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे
प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः
MBh 6.82.27
सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम्
सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान्
MBh 6.82.28
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्
अपरां दिशमास्थाय स्थिते सवितरि प्रभो
MBh 6.82.29
धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः
पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः
शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे
MBh 6.82.30
ते हन्यमानाः समरे तावकाः पुरुषर्षभ
आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम्
यथोत्साहं च समरे जघ्नुर्लोकं महारथाः
MBh 6.82.31
तत्राक्रन्दो महानासीत्तावकानां महात्मनाम्
वध्यतां समरे राजन्पार्षतेन महात्मना
MBh 6.82.32
तं श्रुत्वा निनदं घोरं तावकानां महारथौ
विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ
MBh 6.82.33
तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ
छादयामासतुरुभौ शरवर्षेण पार्षतम्
MBh 6.82.34
अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः
आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः
MBh 6.82.35
ततो युधिष्ठिरो राजा महत्या सेनया वृतः
आवन्त्यौ समरे क्रुद्धावभ्ययात्स परंतपौ
MBh 6.82.36
तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष
विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान्
MBh 6.82.37
अर्जुनश्चापि संक्रुद्धः क्षत्रियान्क्षत्रियर्षभ
अयोधयत संग्रामे वज्रपाणिरिवासुरान्
MBh 6.82.38
द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव
व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः
MBh 6.82.39
दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते
परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह
MBh 6.82.40
ततो दुर्योधनो राजा लोहितायति भास्करे
अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत
MBh 6.82.41
युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम्
अस्तं गिरिमथारूढे नप्रकाशति भास्करे
MBh 6.82.42
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी
गोमायुगणसंकीर्णा क्षणेन रजनीमुखे
MBh 6.82.43
शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम्
घोरमायोधनं जज्ञे भूतसंघसमाकुलम्
MBh 6.82.44
राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः
समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः
MBh 6.82.45
अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान्
विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति
MBh 6.82.46
युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा
ययौ स्वशिबिरं राजा निशायां सेनया वृतः
MBh 6.82.47
भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान्
अवजित्य ततः संख्ये ययौ स्वशिबिरं प्रति
MBh 6.82.48
दुर्योधनोऽपि नृपतिः परिवार्य महारणे
भीष्मं शांतनवं तूर्णं प्रयातः शिबिरं प्रति
MBh 6.82.49
द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः
परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति
MBh 6.82.50
तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः
परिवार्य रणे योधान्ययतुः शिबिरं प्रति
MBh 6.82.51
एवमेते महाराज तावकाः पाण्डवैः सह
पर्यवर्तन्त सहिता निशाकाले परंतपाः
MBh 6.82.52
ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा
न्यविशन्त महाराज पूजयन्तः परस्परम्
MBh 6.82.53
रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि
अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः
MBh 6.82.54
कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः
गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः
MBh 6.82.55
मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम्
न हि युद्धकथां कांचित्तत्र चक्रुर्महारथाः
MBh 6.82.56
ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप
हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 81
- Next chapter · Bhīṣma-Parva Ch 83 →
Sources and Connected Readings
Continue from these 56 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.82local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷