🪷 Mahābhārata · Bhīṣma-Parva · Chapter 80
The Book of Bhīṣma · Parva 6 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 51 Shlokas
MBh 6.80.1
संजय उवाच
ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे
श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः
MBh 6.80.2
अभ्यधावत्ततो राजा श्रुतायुषमरिंदमम्
विनिघ्नन्सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः
MBh 6.80.3
स संवार्य रणे राजा प्रेषितान्धर्मसूनुना
शरान्सप्त महेष्वासः कौन्तेयाय समर्पयत्
MBh 6.80.4
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे
असूनिव विचिन्वन्तो देहे तस्य महात्मनः
MBh 6.80.5
पाण्डवस्तु भृशं विद्धस्तेन राज्ञा महात्मना
रणे वराहकर्णेन राजानं हृदि विव्यधे
MBh 6.80.6
अथापरेण भल्लेन केतुं तस्य महात्मनः
रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत्
MBh 6.80.7
केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः
पाण्डवं विशिखैस्तीक्ष्णै राजन्विव्याध सप्तभिः
MBh 6.80.8
ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः
यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः
MBh 6.80.9
क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः
प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत्
MBh 6.80.10
सर्वेषां चैव भूतानामिदमासीन्मनोगतम्
त्रीँल्लोकानद्य संक्रुद्धो नृपोऽयं धक्ष्यतीति वै
MBh 6.80.11
ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत्
लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा
MBh 6.80.12
स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन्
दधारात्मवपुर्घोरं युगान्तादित्यसंनिभम्
MBh 6.80.13
ततः सर्वाणि सैन्यानि तावकानि विशां पते
निराशान्यभवंस्तत्र जीवितं प्रति भारत
MBh 6.80.14
स तु धैर्येण तं कोपं संनिवार्य महायशाः
श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः
MBh 6.80.15
अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे
निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः
MBh 6.80.16
सत्वरं चरणे राजंस्तस्य वाहान्महात्मनः
निजघान शरैः क्षिप्रं सूतं च सुमहाबलः
MBh 6.80.17
हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम्
विप्रदुद्राव वेगेन श्रुतायुः समरे तदा
MBh 6.80.18
तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे
दुर्योधनबलं राजन्सर्वमासीत्पराङ्मुखम्
MBh 6.80.19
एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः
व्यात्ताननो यथा कालस्तव सैन्यं जघान ह
MBh 6.80.20
चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम्
प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः
MBh 6.80.21
संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि
चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः
MBh 6.80.22
अथापरेण भल्लेन धनुश्चिच्छेद मारिष
सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत्
हयांश्चास्यावधीद्राजन्नुभौ च पार्ष्णिसारथी
MBh 6.80.23
सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः
स तया वीरघातिन्या गदया गदिनां वरः
गौतमस्य हयान्हत्वा सारथिं च न्यपातयत्
MBh 6.80.24
भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश
ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम्
MBh 6.80.25
चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम्
गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः
MBh 6.80.26
तामापतन्तीं विमलामश्मगर्भां महागदाम्
शरैरनेकसाहस्रैर्वारयामास गौतमः
MBh 6.80.27
चेकितानस्ततः खड्गं कोशादुद्धृत्य भारत
लाघवं परमास्थाय गौतमं समुपाद्रवत्
MBh 6.80.28
गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम्
वेगेन महता राजंश्चेकितानमुपाद्रवत्
MBh 6.80.29
तावुभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ
निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं संततक्षतुः
MBh 6.80.30
निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ
धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम्
मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ
MBh 6.80.31
ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया
चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम्
रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः
MBh 6.80.32
तथैव शकुनिः शूरः स्यालस्तव विशां पते
आरोपयद्रथं तूर्णं गौतमं रथिनां वरम्
MBh 6.80.33
सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महाबलः
नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि
MBh 6.80.34
सौमदत्तिरुरःस्थैस्तैर्भृशं बाणैरशोभत
मध्यंदिने महाराज रश्मिभिस्तपनो यथा
MBh 6.80.35
भूरिश्रवास्तु समरे धृष्टकेतुं महारथम्
हतसूतहयं चक्रे विरथं सायकोत्तमैः
MBh 6.80.36
विरथं चैनमालोक्य हताश्वं हतसारथिम्
महता शरवर्षेण छादयामास संयुगे
MBh 6.80.37
स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः
आरुरोह ततो यानं शतानीकस्य मारिष
MBh 6.80.38
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा
रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः
MBh 6.80.39
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत
शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः
MBh 6.80.40
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे
न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा
MBh 6.80.41
ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः
संवृतं समरे भीष्मं देवैरपि दुरासदम्
MBh 6.80.42
प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव
अभिमन्युं समुद्दिश्य बालमेकं महारथम्
वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः
MBh 6.80.43
चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः
एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः
यथा न हन्युर्नः सेनां तथा माधव चोदय
MBh 6.80.44
एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा
रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे
MBh 6.80.45
निष्टानको महानासीत्तव सैन्यस्य मारिष
यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति
MBh 6.80.46
समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः
सुशर्माणमथो राजन्निदं वचनमब्रवीत्
MBh 6.80.47
जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम्
पर्यायस्याद्य संप्राप्तं फलं पश्य सुदारुणम्
अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान्
MBh 6.80.48
एवं संजल्पतस्तस्य बीभत्सोः शत्रुघातिनः
श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः
न चैनमब्रवीत्किंचिच्छुभं वा यदि वाशुभम्
MBh 6.80.49
अभि गत्वार्जुनं वीरं राजभिर्बहुभिर्वृतः
पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः
MBh 6.80.50
परिवार्यार्जुनं संख्ये तव पुत्रैः सहानघ
शरैः संछादयामास मेघैरिव दिवाकरम्
MBh 6.80.51
ततः प्रवृत्तः सुमहान्संग्रामः शोणितोदकः
तावकानां च समरे पाण्डवानां च भारत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 79
- Next chapter · Bhīṣma-Parva Ch 81 →
Sources and Connected Readings
Continue from these 51 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.80local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷