🪷 Mahābhārata · Bhīṣma-Parva · Chapter 79

The Book of Bhīṣma · Parva 6 · 55 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 55 Shlokas

MBh 6.79.1
धृतराष्ट्र उवाच बहूनीह विचित्राणि द्वैरथानि स्म संजय पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः
MBh 6.79.2
न चैव मामकं कंचिद्धृष्टं शंससि संजय नित्यं पाण्डुसुतान्हृष्टानभग्नांश्चैव शंससि
MBh 6.79.3
जीयमानान्विमनसो मामकान्विगतौजसः वदसे संयुगे सूत दिष्टमेतदसंशयम्
MBh 6.79.4
संजय उवाच यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ
MBh 6.79.5
गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् महोदधिगुणाभ्यासाल्लवणत्वं निगच्छति
MBh 6.79.6
तथा तत्पौरुषं राजंस्तावकानां महात्मनाम् प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे
MBh 6.79.7
घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि
MBh 6.79.8
तवापराधात्सुमहान्सपुत्रस्य विशां पते पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः
MBh 6.79.9
आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम्
MBh 6.79.10
युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः
MBh 6.79.11
पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः तन्ममैकमना भूत्वा शृणु देवासुरोपमम्
MBh 6.79.12
आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम्
MBh 6.79.13
इरावांस्तु सुसंक्रुद्धो भ्रातरौ देवरूपिणौ विव्याध निशितैस्तूर्णं शरैः संनतपर्वभिः तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ
MBh 6.79.14
युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम्
MBh 6.79.15
इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः चतुर्भिश्चतुरो वाहाननयद्यमसादनम्
MBh 6.79.16
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष चिच्छेद समरे राजंस्तदद्भुतमिवाभवत्
MBh 6.79.17
त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः धनुर्गृहीत्वा नवमं भारसाधनमुत्तमम्
MBh 6.79.18
तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ शरान्मुमुचतुस्तूर्णमिरावति महात्मनि
MBh 6.79.19
ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः दिवाकरपथं प्राप्य छादयामासुरम्बरम्
MBh 6.79.20
इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ ववर्ष शरवर्षेण सारथिं चाप्यपातयत्
MBh 6.79.21
तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ रथः प्रदुद्राव दिशः समुद्भ्रान्तहयस्ततः
MBh 6.79.22
तौ स जित्वा महाराज नागराजसुतासुतः पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम्
MBh 6.79.23
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः वेगान्बहुविधांश्चक्रे विषं पीत्वेव मानवः
MBh 6.79.24
हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् रथेनादित्यवर्णेन सध्वजेन महाबलः
MBh 6.79.25
ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः यथा वज्रधरः पूर्वं संग्रामे तारकामये
MBh 6.79.26
तत्र देवाः सगन्धर्वा ऋषयश्च समागताः विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः
MBh 6.79.27
यथा सुरपतिः शक्रस्त्रासयामास दानवान् तथैव समरे राजंस्त्रासयामास पाण्डवान्
MBh 6.79.28
तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम् त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत
MBh 6.79.29
भैमसेनिं रथस्थं तु तत्रापश्याम भारत शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः
MBh 6.79.30
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत आसीन्निष्टानको घोरस्तव सैन्येषु संयुगे
MBh 6.79.31
घटोत्कचस्ततो राजन्भगदत्तं महारणे शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः
MBh 6.79.32
निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्च्युतान् भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत्
MBh 6.79.33
स ताड्यमानो बहुभिः शरैः संनतपर्वभिः न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः
MBh 6.79.34
तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरान्स चतुर्दश प्रेषयामास समरे तांश्च चिच्छेद राक्षसः
MBh 6.79.35
स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः
MBh 6.79.36
ततः प्राग्ज्योतिषो राजन्प्रहसन्निव भारत तस्याश्वांश्चतुरः संख्ये पातयामास सायकैः
MBh 6.79.37
स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति
MBh 6.79.38
तामापतन्तीं सहसा हेमदण्डां सुवेगिताम् त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम्
MBh 6.79.39
शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः
MBh 6.79.40
तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् अजेयं समरे राजन्यमेन वरुणेन च
MBh 6.79.41
पाण्डवीं समरे सेनां संममर्द सकुञ्जरः यथा वनगजो राजन्मृद्नंश्चरति पद्मिनीम्
MBh 6.79.42
मद्रेश्वरस्तु समरे यमाभ्यां सह संगतः स्वस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ
MBh 6.79.43
सहदेवस्तु समरे मातुलं वीक्ष्य संगतम् अवारयच्छरौघेण मेघो यद्वद्दिवाकरम्
MBh 6.79.44
छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात्
MBh 6.79.45
ततः प्रहस्य समरे नकुलस्य महारथः अश्वान्वै चतुरो राजंश्चतुर्भिः सायकोत्तमैः प्रेषयामास समरे यमस्य सदनं प्रति
MBh 6.79.46
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः आरुरोह ततो यानं भ्रातुरेव यशस्विनः
MBh 6.79.47
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके मद्रराजरथं क्रुद्धौ छादयामासतुः क्षणात्
MBh 6.79.48
स च्छाद्यमानो बहुभिः शरैः संनतपर्वभिः स्वस्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाचलः प्रहसन्निव तां चापि शरवृष्टिं जघान ह
MBh 6.79.49
सहदेवस्ततः क्रुद्धः शरमुद्यम्य वीर्यवान् मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत
MBh 6.79.50
स शरः प्रेषितस्तेन गरुत्मानिव वेगवान् मद्रराजं विनिर्भिद्य निपपात महीतले
MBh 6.79.51
स गाढविद्धो व्यथितो रथोपस्थे महारथः निषसाद महाराज कश्मलं च जगाम ह
MBh 6.79.52
तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे अपोवाह रथेनाजौ यमाभ्यामभिपीडितम्
MBh 6.79.53
दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम् सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन्
MBh 6.79.54
निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ दध्मतुर्मुदितौ शङ्खौ सिंहनादं विनेदतुः
MBh 6.79.55
अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशां पते यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 55 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.79local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷