🪷 Mahābhārata · Bhīṣma-Parva · Chapter 78

The Book of Bhīṣma · Parva 6 · 57 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 57 Shlokas

MBh 6.78.1
संजय उवाच तथा प्रवृत्ते संग्रामे निवृत्ते च सुशर्मणि प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना
MBh 6.78.2
क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति
MBh 6.78.3
दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम् त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान्
MBh 6.78.4
तेषां च प्रमुखे शूरं सुशर्माणं महाबलम् मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः
MBh 6.78.5
एष भीष्मः शांतनवो योद्धुकामो धनंजयम् सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः
MBh 6.78.6
तं प्रयान्तं परानीकं सर्वसैन्येन भारतम् संयत्ताः समरे सर्वे पालयध्वं पितामहम्
MBh 6.78.7
बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः नरेन्द्राणां महाराज समाजग्मुः पितामहम्
MBh 6.78.8
ततः प्रयातः सहसा भीष्मः शांतनवोऽर्जुनम् रणे भारतमायान्तमाससाद महाबलम्
MBh 6.78.9
महाश्वेताश्वयुक्तेन भीमवानरकेतुना महता मेघनादेन रथेनाति विराजत
MBh 6.78.10
समरे सर्वसैन्यानामुपयातं धनंजयम् अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम्
MBh 6.78.11
अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् मध्यंदिनगतं संख्ये न शेकुः प्रतिवीक्षितुम्
MBh 6.78.12
तथा शांतनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम्
MBh 6.78.13
स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः
MBh 6.78.14
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे
MBh 6.78.15
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः अन्यदादत्त वेगेन धनुर्भारसहं दृढम् शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव
MBh 6.78.16
द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः
MBh 6.78.17
तस्य द्रोणोऽवधीदश्वाञ्शरैः संनतपर्वभिः अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा
MBh 6.78.18
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः
MBh 6.78.19
ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ महता शरवर्षेण वारयामासतुर्बलात्
MBh 6.78.20
भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर
MBh 6.78.21
स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः
MBh 6.78.22
स पपात रथात्तूर्णं भारद्वाजशराहतः धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः
MBh 6.78.23
हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम्
MBh 6.78.24
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् दारयामास समरे शतशोऽथ सहस्रशः
MBh 6.78.25
शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः
MBh 6.78.26
स बभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः
MBh 6.78.27
अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः सूतं ध्वजमथो राजंस्तुरगानायुधं तथा शरैर्बहुभिरुद्दिश्य पातयामास संयुगे
MBh 6.78.28
स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः खड्गमादाय निशितं विमलं च शरावरम् श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः
MBh 6.78.29
सखड्गस्य महाराज चरतस्तस्य संयुगे नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत्
MBh 6.78.30
ततः शरसहस्राणि बहूनि भरतर्षभ प्रेषयामास समरे द्रौणिः परमकोपनः
MBh 6.78.31
तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः
MBh 6.78.32
ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् चर्माच्छिनदसिं चास्य खण्डयामास संयुगे शितैः सुबहुशो राजंस्तं च विव्याध पत्रिभिः
MBh 6.78.33
शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम्
MBh 6.78.34
तमापतन्तं सहसा कालानलसमप्रभम् चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः
MBh 6.78.35
शिखण्डी तु भृशं राजंस्ताड्यमानः शितैः शरैः आरुरोह रथं तूर्णं माधवस्य महात्मनः
MBh 6.78.36
सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे अलम्बुसं शरैर्घोरैर्विव्याध बलिनं बली
MBh 6.78.37
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत अर्धचन्द्रेण समरे तं च विव्याध सायकैः मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत्
MBh 6.78.38
तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् नासंभ्रमद्यत्समरे वध्यमानः शितैः शरैः
MBh 6.78.39
ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत विजयाद्यदनुप्राप्तं माधवेन यशस्विना
MBh 6.78.40
तदस्त्रं भस्मसात्कृत्वा मायां तां राक्षसीं तदा अलम्बुसं शरैर्घोरैरभ्याकिरत सर्वशः पर्वतं वारिधाराभिः प्रावृषीव बलाहकः
MBh 6.78.41
तत्तथा पीडितं तेन माधवेन महात्मना प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे
MBh 6.78.42
तमजेयं राक्षसेन्द्रं संख्ये मघवता अपि शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम्
MBh 6.78.43
न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः
MBh 6.78.44
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् छादयामास समरे शरैः संनतपर्वभिः
MBh 6.78.45
संछाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः
MBh 6.78.46
धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत्
MBh 6.78.47
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष हयांश्च चतुरः शीघ्रं निजघान महारथः शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः
MBh 6.78.48
स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति
MBh 6.78.49
शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः राजानं सर्वलोकस्य रथमारोपयत्स्वकम्
MBh 6.78.50
ततो नृपं पराजित्य पार्षतः परवीरहा न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम्
MBh 6.78.51
कृतवर्मा रणे भीमं शरैरार्छन्महारथम् प्रच्छादयामास च तं महामेघो रविं यथा
MBh 6.78.52
ततः प्रहस्य समरे भीमसेनः परंतपः प्रेषयामास संक्रुद्धः सायकान्कृतवर्मणे
MBh 6.78.53
तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः नाकम्पत महाराज भीमं चार्छच्छितैः शरैः
MBh 6.78.54
तस्याश्वांश्चतुरो हत्वा भीमसेनो महाबलः सारथिं पातयामास ध्वजं च सुपरिष्कृतम्
MBh 6.78.55
शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत
MBh 6.78.56
हताश्वात्तु रथात्तूर्णं वृषकस्य रथं ययौ स्यालस्य ते महाराज तव पुत्रस्य पश्यतः
MBh 6.78.57
भीमसेनोऽपि संक्रुद्धस्तव सैन्यमुपाद्रवत् निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 57 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.78local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷