🪷 Mahābhārata · Bhīṣma-Parva · Chapter 77
The Book of Bhīṣma · Parva 6 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 44 Shlokas
MBh 6.77.1
संजय उवाच
अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम्
अब्रवीद्भरतश्रेष्ठः संप्रहर्षकरं वचः
MBh 6.77.2
अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः
MBh 6.77.3
विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः
त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः
MBh 6.77.4
बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः
रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः
MBh 6.77.5
देशजाश्च हया राजन्स्वारूढा हयसादिभिः
गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः
MBh 6.77.6
पदाताश्च तथा शूरा नानाप्रहरणायुधाः
नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः
MBh 6.77.7
एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः
देवानपि रणे जेतुं समर्था इति मे मतिः
MBh 6.77.8
अवश्यं तु मया राजंस्तव वाच्यं हितं सदा
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः
वासुदेवसहायाश्च महेन्द्रसमविक्रमाः
MBh 6.77.9
सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव
पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः
MBh 6.77.10
एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम्
ओषधीं वीर्यसंपन्नां विशल्यश्चाभवत्तदा
MBh 6.77.11
ततः प्रभाते विमले स्वेनानीकेन वीर्यवान्
अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः
MBh 6.77.12
मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम्
संपूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः
MBh 6.77.13
रथैरनेकसाहस्रैः समन्तात्परिवारितम्
अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः
MBh 6.77.14
नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे
अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः
MBh 6.77.15
एवंव्यूहं महाराज तव सैन्यं महारथैः
स्थितं रणाय महते भीष्मेण युधि पालितम्
MBh 6.77.16
दशाश्वानां सहस्राणि दन्तिनां च तथैव च
रथानामयुतं चापि पुत्राश्च तव दंशिताः
चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम्
MBh 6.77.17
रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते
संनद्धाः समदृश्यन्त राजानश्च महाबलाः
MBh 6.77.18
दुर्योधनस्तु समरे दंशितो रथमास्थितः
व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे
MBh 6.77.19
ततः शब्दो महानासीत्पुत्राणां तव भारत
रथघोषश्च तुमुलो वादित्राणां च निस्वनः
MBh 6.77.20
भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि
मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम्
सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः
MBh 6.77.21
मण्डलं तु समालोक्य व्यूहं परमदारुणम्
स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत्
MBh 6.77.22
तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः
रथिनः सादिनश्चैव सिंहनादमथानदन्
MBh 6.77.23
बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः
इतरेतरतः शूराः सहसैन्याः प्रहारिणः
MBh 6.77.24
भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम्
स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत्
MBh 6.77.25
नकुलः सहदेवश्च राजन्मद्रेशमीयतुः
विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ
MBh 6.77.26
सर्वे नृपास्तु समरे धनंजयमयोधयन्
भीमसेनो रणे यत्तो हार्दिक्यं समवारयत्
MBh 6.77.27
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो
आर्जुनिः समरे राजंस्तव पुत्रानयोधयत्
MBh 6.77.28
प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः
अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम्
MBh 6.77.29
अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम्
ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत्
MBh 6.77.30
भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत्
श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः
MBh 6.77.31
चेकितानस्तु समरे कृपमेवान्वयोधयत्
शेषाः प्रतिययुर्यत्ता भीममेव महारथम्
MBh 6.77.32
ततो राजसहस्राणि परिवव्रुर्धनंजयम्
शक्तितोमरनाराचगदापरिघपाणयः
MBh 6.77.33
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत्
पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे
व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना
MBh 6.77.34
युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान्
त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव
MBh 6.77.35
अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे
MBh 6.77.36
एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च
ववर्ष शरवर्षाणि नराधिपगणान्प्रति
MBh 6.77.37
तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन्
तडागमिव धाराभिर्यथा प्रावृषि तोयदाः
MBh 6.77.38
हाहाकारो महानासीत्तव सैन्ये विशां पते
छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे
MBh 6.77.39
देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः
विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ
MBh 6.77.40
ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत्
तत्राद्भुतमपश्याम विजयस्य पराक्रमम्
MBh 6.77.41
शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत्
न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते
MBh 6.77.42
तेषां राजसहस्राणां हयानां दन्तिनां तथा
द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष
MBh 6.77.43
ते हन्यमानाः पार्थेन भीष्मं शांतनवं ययुः
अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा
MBh 6.77.44
आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम्
संचुक्षुभे महाराज वातैरिव महार्णवः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 76
- Next chapter · Bhīṣma-Parva Ch 78 →
Sources and Connected Readings
Continue from these 44 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.77local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷