🪷 Mahābhārata · Bhīṣma-Parva · Chapter 76

The Book of Bhīṣma · Parva 6 · 19 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 19 Shlokas

MBh 6.76.1
संजय उवाच अथ शूरा महाराज परस्परकृतागसः जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः
MBh 6.76.2
विश्रम्य च यथान्यायं पूजयित्वा परस्परम् संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया
MBh 6.76.3
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम्
MBh 6.76.4
सैन्यानि रौद्राणि भयानकानि; व्यूढानि सम्यग्बहुलध्वजानि विदार्य हत्वा च निपीड्य शूरा;स्ते पाण्डवानां त्वरिता रथौघाः
MBh 6.76.5
संमोह्य सर्वान्युधि कीर्तिमन्तो; व्यूहं च तं मकरं वज्रकल्पम् प्रविश्य भीमेन निबर्हितोऽस्मि; घोरैः शरैर्मृत्युदण्डप्रकाशैः
MBh 6.76.6
क्रुद्धं तमुद्वीक्ष्य भयेन राज;न्संमूर्छितो नालभं शान्तिमद्य इच्छे प्रसादात्तव सत्यसंध; प्राप्तुं जयं पाण्डवेयांश्च हन्तुम्
MBh 6.76.7
तेनैवमुक्तः प्रहसन्महात्मा; दुर्योधनं जातमन्युं विदित्वा तं प्रत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः
MBh 6.76.8
परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र इच्छामि दातुं विजयं सुखं च; न चात्मानं छादयेऽहं त्वदर्थे
MBh 6.76.9
एते तु रौद्रा बहवो महारथा; यशस्विनः शूरतमाः कृतास्त्राः ये पाण्डवानां समरे सहाया; जितक्लमाः क्रोधविषं वमन्ति
MBh 6.76.10
ते नेह शक्याः सहसा विजेतुं; वीर्योन्नद्धाः कृतवैरास्त्वया च अहं ह्येतान्प्रतियोत्स्यामि राज;न्सर्वात्मना जीवितं त्यज्य वीर
MBh 6.76.11
रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य सर्वांस्तवार्थाय सदेवदैत्याँ;ल्लोकान्दहेयं किमु शत्रूंस्तवेह
MBh 6.76.12
तत्पाण्डवान्योधयिष्यामि राज;न्प्रियं च ते सर्वमहं करिष्ये श्रुत्वैव चैतत्परमप्रतीतो; दुर्योधनः प्रीतमना बभूव
MBh 6.76.13
सर्वाणि सैन्यानि ततः प्रहृष्टो; निर्गच्छतेत्याह नृपांश्च सर्वान् तदाज्ञया तानि विनिर्ययुर्द्रुतं; रथाश्वपादातगजायुतानि
MBh 6.76.14
प्रहर्षयुक्तानि तु तानि राज;न्महान्ति नानाविधशस्त्रवन्ति स्थितानि नागाश्वपदातिमन्ति; विरेजुराजौ तव राजन्बलानि
MBh 6.76.15
वृन्दैः स्थिताश्चापि सुसंप्रयुक्ता;श्चकाशिरे दन्तिगणाः समन्तात् शस्त्रास्त्रविद्भिर्नरदेव योधै;रधिष्ठिताः सैन्यगणास्त्वदीयाः
MBh 6.76.16
रथैश्च पादातगजाश्वसंघैः; प्रयाद्भिराजौ विधिवत्प्रणुन्नैः समुद्धतं वै तरुणार्कवर्णं; रजो बभौ छादयत्सूर्यरश्मीन्
MBh 6.76.17
रेजुः पताका रथदन्तिसंस्था; वातेरिता भ्राम्यमाणाः समन्तात् नानारङ्गाः समरे तत्र राज;न्मेघैर्युक्ता विद्युतः खे यथैव
MBh 6.76.18
धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस्तुमुलोऽतिघोरः विमथ्यतो देवमहासुरौघै;र्यथार्णवस्यादियुगे तदानीम्
MBh 6.76.19
तदुग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णमेवम् बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 19 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.76local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷