🪷 Mahābhārata · Bhīṣma-Parva · Chapter 73
The Book of Bhīṣma · Parva 6 · 71 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 71 Shlokas
MBh 6.73.1
संजय उवाच
आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम्
न हि दुर्योधनस्तानि पश्यते भरतर्षभ
यानि त्वं दृष्टवान्राजन्धर्मसंकरकारिते
MBh 6.73.2
तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते
तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः
त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना
MBh 6.73.3
आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते
इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम्
MBh 6.73.4
तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत्
शृणु युद्धं यथावृत्तं शंसतो मम मारिष
MBh 6.73.5
भीमसेनस्तु निशितैर्बाणैर्भित्त्वा महाचमूम्
आससाद ततो वीरः सर्वान्दुर्योधनानुजान्
MBh 6.73.6
दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम्
जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम्
MBh 6.73.7
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च
एतानन्यांश्च सुबहून्समीपस्थान्महारथान्
MBh 6.73.8
धार्तराष्ट्रान्सुसंक्रुद्धान्दृष्ट्वा भीमो महाबलः
भीष्मेण समरे गुप्तां प्रविवेश महाचमूम्
MBh 6.73.9
अथाह्वयन्त तेऽन्योन्यमयं प्राप्तो वृकोदरः
जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः
MBh 6.73.10
स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः
प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः
MBh 6.73.11
संप्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत्
यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान्
MBh 6.73.12
ततः शतसहस्राणि रथिनां सर्वशः प्रभो
छादयानं शरैर्घोरैस्तमेकमनुवव्रिरे
MBh 6.73.13
स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः
जघान समरे शूरो धार्तराष्ट्रानचिन्तयन्
MBh 6.73.14
तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम्
समस्तानां वधे राजन्मतिं चक्रे महामनाः
MBh 6.73.15
ततो रथं समुत्सृज्य गदामादाय पाण्डवः
जघान धार्तराष्ट्राणां तं बलौघमहार्णवम्
MBh 6.73.16
भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः
द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः
MBh 6.73.17
विदार्य महतीं सेनां तावकानां नरर्षभः
आससाद रथं शून्यं भीमसेनस्य संयुगे
MBh 6.73.18
दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम्
धृष्टद्युम्नो महाराज दुर्मना गतचेतनः
MBh 6.73.19
अपृच्छद्बाष्पसंरुद्धो निस्वनां वाचमीरयन्
मम प्राणैः प्रियतमः क्व भीम इति दुःखितः
MBh 6.73.20
विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः
संस्थाप्य मामिह बली पाण्डवेयः प्रतापवान्
MBh 6.73.21
प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम्
मामुक्त्वा पुरुषव्याघ्र प्रीतियुक्तमिदं वचः
MBh 6.73.22
प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम्
यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः
MBh 6.73.23
ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महाबलम्
सर्वेषामेव सैन्यानां संघर्षः समजायत
MBh 6.73.24
तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके
भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव
MBh 6.73.25
विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः
प्रत्युवाच ततः सूतं रणमध्ये महाबलः
MBh 6.73.26
न हि मे विद्यते सूत जीवितेऽद्य प्रयोजनम्
भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः
MBh 6.73.27
यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति
एकायनगते भीमे मयि चावस्थिते युधि
MBh 6.73.28
अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः
यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान्
MBh 6.73.29
मम भीमः सखा चैव संबन्धी च महाबलः
भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम्
MBh 6.73.30
सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः
निघ्नन्तं मामरीन्पश्य दानवानिव वासवम्
MBh 6.73.31
एवमुक्त्वा ततो वीरो ययौ मध्येन भारतीम्
भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः
MBh 6.73.32
स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम्
वातं वृक्षानिव बलात्प्रभञ्जन्तं रणे नृपान्
MBh 6.73.33
ते हन्यमानाः समरे रथिनः सादिनस्तथा
पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत्
MBh 6.73.34
हाहाकारश्च संजज्ञे तव सैन्यस्य मारिष
वध्यतो भीमसेनेन कृतिना चित्रयोधिना
MBh 6.73.35
ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम्
अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः
MBh 6.73.36
अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लोकवीरैः
सैन्येन घोरेण सुसंगतेन; दृष्ट्वा बली पार्षतो भीमसेनम्
MBh 6.73.37
अथोपगच्छच्छरविक्षताङ्गं; पदातिनं क्रोधविषं वमन्तम्
आश्वासयन्पार्षतो भीमसेनं; गदाहस्तं कालमिवान्तकाले
MBh 6.73.38
निःशल्यमेनं च चकार तूर्ण;मारोपयच्चात्मरथं महात्मा
भृशं परिष्वज्य च भीमसेन;माश्वासयामास च शत्रुमध्ये
MBh 6.73.39
भ्रातॄनथोपेत्य तवापि पुत्र;स्तस्मिन्विमर्दे महति प्रवृत्ते
अयं दुरात्मा द्रुपदस्य पुत्रः; समागतो भीमसेनेन सार्धम्
तं यात सर्वे सहिता निहन्तुं; मा वो रिपुः प्रार्थयतामनीकम्
MBh 6.73.40
श्रुत्वा तु वाक्यं तममृष्यमाणा; ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः
वधाय निष्पेतुरुदायुधास्ते; युगक्षये केतवो यद्वदुग्राः
MBh 6.73.41
प्रगृह्य चित्राणि धनूंषि वीरा; ज्यानेमिघोषैः प्रविकम्पयन्तः
शरैरवर्षन्द्रुपदस्य पुत्रं; यथाम्बुदा भूधरं वारिजालैः
निहत्य तांश्चापि शरैः सुतीक्ष्णै;र्न विव्यथे समरे चित्रयोधी
MBh 6.73.42
समभ्युदीर्णांश्च तवात्मजांस्तथा; निशाम्य वीरानभितः स्थितान्रणे
जिघांसुरुग्रं द्रुपदात्मजो युवा; प्रमोहनास्त्रं युयुजे महारथः
क्रुद्धो भृशं तव पुत्रेषु राज;न्दैत्येषु यद्वत्समरे महेन्द्रः
MBh 6.73.43
ततो व्यमुह्यन्त रणे नृवीराः; प्रमोहनास्त्राहतबुद्धिसत्त्वाः
प्रदुद्रुवुः कुरवश्चैव सर्वे; सवाजिनागाः सरथाः समन्तात्
परीतकालानिव नष्टसंज्ञा;न्मोहोपेतांस्तव पुत्रान्निशम्य
MBh 6.73.44
एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः
द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः
MBh 6.73.45
सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः
अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन्
MBh 6.73.46
जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान्
तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः
MBh 6.73.47
अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः
प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव
MBh 6.73.48
ततो द्रोणो राजगृद्धी त्वरितोऽभिययौ रणात्
तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान्
धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे
MBh 6.73.49
मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः
ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यशातयत्
MBh 6.73.50
अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः
पुनर्युद्धाय समरे प्रययुर्भीमपार्षतौ
MBh 6.73.51
ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान्
गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि
MBh 6.73.52
सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः
प्रवृत्तिमधिगच्छन्तु न हि शुध्यति मे मनः
MBh 6.73.53
त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः
बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः
मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि
MBh 6.73.54
केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान्
अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः
MBh 6.73.55
ते कृत्वा समरे व्यूहं सूचीमुखमरिंदमाः
बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे
MBh 6.73.56
तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान्
भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता
MBh 6.73.57
न संधारयितुं शक्ता तव सेना जनाधिप
मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता
MBh 6.73.58
तेऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः
परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ
MBh 6.73.59
तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान्
बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम्
MBh 6.73.60
दृष्ट्वा च सहसायान्तं पाञ्चाल्यो गुरुमात्मनः
नाशंसत वधं वीरः पुत्राणां तव पार्षतः
MBh 6.73.61
ततो रथं समारोप्य केकयस्य वृकोदरम्
अभ्यधावत्सुसंक्रुद्धो द्रोणमिष्वस्त्रपारगम्
MBh 6.73.62
तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान्
क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः
MBh 6.73.63
अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते
दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन्
MBh 6.73.64
अथान्यद्धनुरादाय पार्षतः परवीरहा
द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः
MBh 6.73.65
तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः
हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः
MBh 6.73.66
वैवस्वतक्षयं घोरं प्रेषयामास वीर्यवान्
सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे
MBh 6.73.67
हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः
आरुरोह महाबाहुरभिमन्योर्महारथम्
MBh 6.73.68
ततः सरथनागाश्वा समकम्पत वाहिनी
पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः
MBh 6.73.69
तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा
नाशक्नुवन्वारयितुं समस्तास्ते महारथाः
MBh 6.73.70
वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः
व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः
MBh 6.73.71
तथा दृष्ट्वा च तत्सैन्यं जहृषे च बलं तव
दृष्ट्वाचार्यं च संक्रुद्धं दहन्तं रिपुवाहिनीम्
चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 72
- Next chapter · Bhīṣma-Parva Ch 74 →
Sources and Connected Readings
Continue from these 71 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.73local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷