🪷 Mahābhārata · Bhīṣma-Parva · Chapter 74
The Book of Bhīṣma · Parva 6 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 36 Shlokas
MBh 6.74.1
संजय उवाच
ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा
शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम्
MBh 6.74.2
एकीभूताः पुनश्चैव तव पुत्रा महारथाः
समेत्य समरे भीमं योधयामासुरुद्यताः
MBh 6.74.3
भीमसेनोऽपि समरे संप्राप्य स्वरथं पुनः
समारुह्य महाबाहुर्ययौ येन तवात्मजः
MBh 6.74.4
प्रगृह्य च महावेगं परासुकरणं दृढम्
चित्रं शरासनं संख्ये शरैर्विव्याध ते सुतान्
MBh 6.74.5
ततो दुर्योधनो राजा भीमसेनं महाबलम्
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत्
MBh 6.74.6
सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना
क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम्
MBh 6.74.7
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
स तथाभिहतो राजा नाचलद्गिरिराडिव
MBh 6.74.8
तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम्
दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः
MBh 6.74.9
संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः
निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः
MBh 6.74.10
तानापतत एवाजौ भीमसेनो महाबलः
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव
MBh 6.74.11
भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत्
चित्रसेनं महाराज तव पुत्रं महायशाः
MBh 6.74.12
तथेतरांस्तव सुतांस्ताडयामास भारत
शरैर्बहुविधैः संख्ये रुक्मपुङ्खैः सुवेगितैः
MBh 6.74.13
ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः
अभिमन्युप्रभृतयस्ते द्वादश महारथाः
MBh 6.74.14
प्रेषिता धर्मराजेन भीमसेनपदानुगाः
प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान्
MBh 6.74.15
दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः
सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान्
MBh 6.74.16
महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान्
तत्यजुः समरे भीमं तव पुत्रा महाबलाः
MBh 6.74.17
तान्नामृष्यत कौन्तेयो जीवमाना गता इति
अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत्
MBh 6.74.18
अथाभिमन्युं समरे भीमसेनेन संगतम्
पार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः
MBh 6.74.19
दुर्योधनप्रभृतयः प्रगृहीतशरासनाः
भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः
MBh 6.74.20
अपराह्णे ततो राजन्प्रावर्तत महान्रणः
तावकानां च बलिनां परेषां चैव भारत
MBh 6.74.21
अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान्
अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत्
MBh 6.74.22
हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः
आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम्
MBh 6.74.23
स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ
आर्जुनिः शरजालेन छादयामास भारत
MBh 6.74.24
दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः
विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः
MBh 6.74.25
दुःशासनस्तु समरे केकयान्पञ्च मारिष
योधयामास राजेन्द्र तदद्भुतमिवाभवत्
MBh 6.74.26
द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन्
एकैकस्त्रिभिरानर्छत्पुत्रं तव विशां पते
MBh 6.74.27
पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे
सायकैर्निशितै राजन्नाजघान पृथक्पृथक्
MBh 6.74.28
तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः
गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुविमिश्रितैः
MBh 6.74.29
भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम्
कालयामास बलवान्पालः पशुगणानिव
MBh 6.74.30
ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते
दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः
MBh 6.74.31
उत्तस्थुः समरे तत्र कबन्धानि समन्ततः
कुरूणां चापि सैन्येषु पाण्डवानां च भारत
MBh 6.74.32
शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम्
रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम्
MBh 6.74.33
छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः
पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः
MBh 6.74.34
निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः
भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा
MBh 6.74.35
तत्राद्भुतमपश्याम तव तेषां च भारत
न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति
MBh 6.74.36
एवं युयुधिरे वीराः प्रार्थयाना महद्यशः
तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 73
- Next chapter · Bhīṣma-Parva Ch 75 →
Sources and Connected Readings
Continue from these 36 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.74local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷