🪷 Mahābhārata · Bhīṣma-Parva · Chapter 72
The Book of Bhīṣma · Parva 6 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 26 Shlokas
MBh 6.72.1
धृतराष्ट्र उवाच
एवं बहुगुणं सैन्यमेवं बहुविधं परम्
व्यूढमेवं यथाशास्त्रममोघं चैव संजय
MBh 6.72.2
पुष्टमस्माकमत्यन्तमभिकामं च नः सदा
प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम्
MBh 6.72.3
नातिवृद्धमबालं च न कृशं न च पीवरम्
लघुवृत्तायतप्रायं सारगात्रमनामयम्
MBh 6.72.4
आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम्
असियुद्धे नियुद्धे च गदायुद्धे च कोविदम्
MBh 6.72.5
प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च
भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः
MBh 6.72.6
कम्पनेषु च चापेषु कणपेषु च सर्वशः
क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम्
MBh 6.72.7
अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम्
शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम्
MBh 6.72.8
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते
सम्यक्प्रहरणे याने व्यपयाने च कोविदम्
MBh 6.72.9
नागाश्वरथयानेषु बहुशः सुपरीक्षितम्
परीक्ष्य च यथान्यायं वेतनेनोपपादितम्
MBh 6.72.10
न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः
न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः
MBh 6.72.11
समृद्धजनमार्यं च तुष्टसत्कृतबान्धवम्
कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च
MBh 6.72.12
सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः
लोकपालोपमैस्तात पालितं लोकविश्रुतैः
MBh 6.72.13
बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः
अस्मानभिगतैः कामात्सबलैः सपदानुगैः
MBh 6.72.14
महोदधिमिवापूर्णमापगाभिः समन्ततः
अपक्षैः पक्षसंकाशै रथैर्नागैश्च संवृतम्
MBh 6.72.15
नानायोधजलं भीमं वाहनोर्मितरङ्गिणम्
क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम्
MBh 6.72.16
ध्वजभूषणसंबाधं रत्नपट्टेन संचितम्
वाहनैः परिसर्पद्भिर्वायुवेगविकम्पितम्
MBh 6.72.17
अपारमिव गर्जन्तं सागरप्रतिमं महत्
द्रोणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा
MBh 6.72.18
कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा
भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः
MBh 6.72.19
गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महात्मभिः
यदहन्यत संग्रामे दिष्टमेतत्पुरातनम्
MBh 6.72.20
नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः
ऋषयो वा महाभागाः पुराणा भुवि संजय
MBh 6.72.21
ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसंपदा
वध्यते यत्र संग्रामे किमन्यद्भागधेयतः
MBh 6.72.22
विपरीतमिदं सर्वं प्रतिभाति स्म संजय
यत्रेदृशं बलं घोरं नातरद्युधि पाण्डवान्
MBh 6.72.23
अथ वा पाण्डवार्थाय देवास्तत्र समागताः
युध्यन्ते मामकं सैन्यं यदवध्यन्त संजय
MBh 6.72.24
उक्तो हि विदुरेणेह हितं पथ्यं च संजय
न च गृह्णाति तन्मन्दः पुत्रो दुर्योधनो मम
MBh 6.72.25
तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः
आसीद्यथागतं तात येन दृष्टमिदं पुरा
MBh 6.72.26
अथ वा भाव्यमेवं हि संजयैतेन सर्वथा
पुरा धात्रा यथा सृष्टं तत्तथा न तदन्यथा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 71
- Next chapter · Bhīṣma-Parva Ch 73 →
Sources and Connected Readings
Continue from these 26 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.72local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷