🪷 Mahābhārata · Bhīṣma-Parva · Chapter 57

The Book of Bhīṣma · Parva 6 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 36 Shlokas

MBh 6.57.1
संजय उवाच द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन्
MBh 6.57.2
संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा
MBh 6.57.3
नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे
MBh 6.57.4
तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम् दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत्
MBh 6.57.5
पीडयानं च तत्सैन्यं पौत्रं तव विशां पते दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन्
MBh 6.57.6
ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च
MBh 6.57.7
तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् व्यदृश्यत महच्चापं समरे युध्यतः परैः
MBh 6.57.8
स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत्
MBh 6.57.9
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना शितेनोरगसंकाशां पत्रिणा विजहार ताम्
MBh 6.57.10
शल्यस्य च महाघोरानस्यतः शतशः शरान् निवार्यार्जुनदायादो जघान समरे हयान्
MBh 6.57.11
भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात्
MBh 6.57.12
ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः
MBh 6.57.13
धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम्
MBh 6.57.14
तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित्
MBh 6.57.15
स वारणरथौघानां सहस्रैर्बहुभिर्वृतः वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः
MBh 6.57.16
धनुर्विस्फार्य संक्रुद्धश्चोदयित्वा वरूथिनीम् ययौ तन्मद्रकानीकं केकयांश्च परंतपः
MBh 6.57.17
तेन कीर्तिमता गुप्तमनीकं दृढधन्वना प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत
MBh 6.57.18
सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत्
MBh 6.57.19
ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः
MBh 6.57.20
दमनं चापि दायादं पौरवस्य महात्मनः जघान विपुलाग्रेण नाराचेन परंतपः
MBh 6.57.21
ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम्
MBh 6.57.22
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम्
MBh 6.57.23
अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत् अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी
MBh 6.57.24
स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः
MBh 6.57.25
स संगृह्य महाघोरं निस्त्रिंशवरमायसम् पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम्
MBh 6.57.26
तं महौघमिवायान्तं खात्पतन्तमिवोरगम् भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम्
MBh 6.57.27
दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम् अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः
MBh 6.57.28
तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः शितनिस्त्रिंशहस्तस्य शरावरणधारिणः
MBh 6.57.29
बाणवेगमतीतस्य रथाभ्याशमुपेयुषः त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः
MBh 6.57.30
तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि
MBh 6.57.31
तं निहत्य गदाग्रेण लेभे स परमं यशः पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः
MBh 6.57.32
तस्मिन्हते महेष्वासे राजपुत्रे महारथे हाहाकारो महानासीत्तव सैन्यस्य मारिष
MBh 6.57.33
ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम्
MBh 6.57.34
तौ तत्र समरे वीरौ समेतौ रथिनां वरौ ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा
MBh 6.57.35
ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम्
MBh 6.57.36
तथैव पार्षतं शूरं शल्यः समितिशोभनः आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 36 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.57local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷