🪷 Mahābhārata · Bhīṣma-Parva · Chapter 58
The Book of Bhīṣma · Parva 6 · 61 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 61 Shlokas
MBh 6.58.1
धृतराष्ट्र उवाच
दैवमेव परं मन्ये पौरुषादपि संजय
यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते
MBh 6.58.2
नित्यं हि मामकांस्तात हतानेव हि शंससि
अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान्
MBh 6.58.3
हीनान्पुरुषकारेण मामकानद्य संजय
पतितान्पात्यमानांश्च हतानेव च शंससि
MBh 6.58.4
युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति
पाण्डवा विजयन्त्येव जीयन्ते चैव मामकाः
MBh 6.58.5
सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च
अश्रौषं सततं तात दुःसहानि बहूनि च
MBh 6.58.6
तमुपायं न पश्यामि जीयेरन्येन पाण्डवाः
मामका वा जयं युद्धे प्राप्नुयुर्येन संजय
MBh 6.58.7
संजय उवाच
क्षयं मनुष्यदेहानां गजवाजिरथक्षयम्
शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान्
MBh 6.58.8
धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः
पीडयामास संक्रुद्धो मद्राधिपतिमायसैः
MBh 6.58.9
तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम्
न्यवारयत यत्तूर्णं शल्यं समितिशोभनम्
MBh 6.58.10
नान्तरं ददृशे कश्चित्तयोः संरब्धयो रणे
मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत्
MBh 6.58.11
ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च
MBh 6.58.12
अथैनं शरवर्षेण छादयामास भारत
गिरिं जलागमे यद्वज्जलदा जलधारिणः
MBh 6.58.13
अभिमन्युस्तु संक्रुद्धो धृष्टद्युम्ने निपीडिते
अभिदुद्राव वेगेन मद्रराजरथं प्रति
MBh 6.58.14
ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः
आर्तायनिममेयात्मा विव्याध विशिखैस्त्रिभिः
MBh 6.58.15
ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणे
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे
MBh 6.58.16
दुर्योधनो विकर्णश्च दुःशासनविविंशती
दुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः
MBh 6.58.17
सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत
एते मद्राधिपरथं पालयन्तः स्थिता रणे
MBh 6.58.18
तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः
द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ
MBh 6.58.19
नानारूपाणि शस्त्राणि विसृजन्तो विशां पते
अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः
ते वै समीयुः संग्रामे राजन्दुर्मन्त्रिते तव
MBh 6.58.20
तस्मिन्दाशरथे युद्धे वर्तमाने भयावहे
तावकानां परेषां च प्रेक्षका रथिनोऽभवन्
MBh 6.58.21
शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः
अन्योन्यमभिनर्दन्तः संप्रहारं प्रचक्रिरे
MBh 6.58.22
ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः
महास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः
MBh 6.58.23
दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणे
विव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम्
MBh 6.58.24
दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः
दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः
विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा
MBh 6.58.25
तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः
एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम्
MBh 6.58.26
सत्यव्रतं तु समरे पुरुमित्रं च भारत
अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः
MBh 6.58.27
माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ
छादयेतां शरव्रातैस्तदद्भुतमिवाभवत्
MBh 6.58.28
ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ
शरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौ
छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः
MBh 6.58.29
अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः
विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः
MBh 6.58.30
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्
भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात्
MBh 6.58.31
दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत्
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्
मागधं पुरतः कृत्वा भीमसेनं समभ्ययात्
MBh 6.58.32
आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः
गदापाणिरवारोहद्रथात्सिंह इवोन्नदन्
MBh 6.58.33
अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम्
अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः
MBh 6.58.34
स गजान्गदया निघ्नन्व्यचरत्समरे बली
भीमसेनो महाबाहुः सवज्र इव वासवः
MBh 6.58.35
तस्य नादेन महता मनोहृदयकम्पिना
व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः
MBh 6.58.36
ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः
MBh 6.58.37
पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान्
अभ्यधावन्त वर्षन्तो मेघा इव गिरीन्यथा
MBh 6.58.38
क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपि
पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम्
MBh 6.58.39
शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः
अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः
MBh 6.58.40
हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः
अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव
MBh 6.58.41
धृष्टद्युम्नहतानन्यानपश्याम महागजान्
पतितान्पात्यमानांश्च पार्षतेन महात्मना
MBh 6.58.42
मागधोऽथ महीपालो गजमैरावतोपमम्
प्रेषयामास समरे सौभद्रस्य रथं प्रति
MBh 6.58.43
तमापतन्तं संप्रेक्ष्य मागधस्य गजोत्तमम्
जघानैकेषुणा वीरः सौभद्रः परवीरहा
MBh 6.58.44
तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः
राज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः
MBh 6.58.45
विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः
व्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव
MBh 6.58.46
एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान्
अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव
MBh 6.58.47
भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान्
भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान्
MBh 6.58.48
नदतः सीदतश्चान्यान्विमुखान्समरे गजान्
विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान्
MBh 6.58.49
भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान्
अपश्याम हतान्नागान्निष्टनन्तस्तथापरे
MBh 6.58.50
वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः
विह्वलन्तो गता भूमिं शैला इव धरातले
MBh 6.58.51
मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः
व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः
MBh 6.58.52
गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरः
घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक्
MBh 6.58.53
निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः
सहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम्
MBh 6.58.54
तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः
पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः
MBh 6.58.55
शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैः
कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत
MBh 6.58.56
व्यायच्छमानं गदया दिक्षु सर्वासु भारत
नृत्यमानमपश्याम नृत्यन्तमिव शंकरम्
MBh 6.58.57
यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम्
अपश्याम महाराज रौद्रां विशसनीं गदाम्
MBh 6.58.58
विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून्
MBh 6.58.59
यथा पशूनां संघातं यष्ट्या पालः प्रकालयेत्
तथा भीमो गजानीकं गदया पर्यकालयत्
MBh 6.58.60
गदया वध्यमानास्ते मार्गणैश्च समन्ततः
स्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव
MBh 6.58.61
महावात इवाभ्राणि विधमित्वा स वारणान्
अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 57
- Next chapter · Bhīṣma-Parva Ch 59 →
Sources and Connected Readings
Continue from these 61 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.58local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷