🪷 Mahābhārata · Bhīṣma-Parva · Chapter 56

The Book of Bhīṣma · Parva 6 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 28 Shlokas

MBh 6.56.1
संजय उवाच व्युष्टां निशां भारत भारताना;मनीकिनीनां प्रमुखे महात्मा ययौ सपत्नान्प्रति जातकोपो; वृतः समग्रेण बलेन भीष्मः
MBh 6.56.2
तं द्रोणदुर्योधनबाह्लिकाश्च; तथैव दुर्मर्षणचित्रसेनौ जयद्रथश्चातिबलो बलौघै;र्नृपास्तथान्येऽनुययुः समन्तात्
MBh 6.56.3
स तैर्महद्भिश्च महारथैश्च; तेजस्विभिर्वीर्यवद्भिश्च राजन् रराज राजोत्तम राजमुख्यै;र्वृतः स देवैरिव वज्रपाणिः
MBh 6.56.4
तस्मिन्ननीकप्रमुखे विषक्ता; दोधूयमानाश्च महापताकाः सुरक्तपीतासितपाण्डुराभा; महागजस्कन्धगता विरेजुः
MBh 6.56.5
सा वाहिनी शांतनवेन राज्ञा; महारथैर्वारणवाजिभिश्च बभौ सविद्युत्स्तनयित्नुकल्पा; जलागमे द्यौरिव जातमेघा
MBh 6.56.6
ततो रणायाभिमुखी प्रयाता; प्रत्यर्जुनं शांतनवाभिगुप्ता सेना महोग्रा सहसा कुरूणां; वेगो यथा भीम इवापगायाः
MBh 6.56.7
तं व्यालनानाविधगूढसारं; गजाश्वपादातरथौघपक्षम् व्यूहं महामेघसमं महात्मा; ददर्श दूरात्कपिराजकेतुः
MBh 6.56.8
स निर्ययौ केतुमता रथेन; नरर्षभः श्वेतहयेन वीरः वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्नयूनाम्
MBh 6.56.9
सूपस्करं सोत्तरबन्धुरेषं; यत्तं यदूनामृषभेण संख्ये कपिध्वजं प्रेक्ष्य विषेदुराजौ; सहैव पुत्रैस्तव कौरवेयाः
MBh 6.56.10
प्रकर्षता गुप्तमुदायुधेन; किरीटिना लोकमहारथेन तं व्यूहराजं ददृशुस्त्वदीया;श्चतुश्चतुर्व्यालसहस्रकीर्णम्
MBh 6.56.11
यथा हि पूर्वेऽहनि धर्मराज्ञा; व्यूहः कृतः कौरवनन्दनेन तथा तथोद्देशमुपेत्य तस्थुः; पाञ्चालमुख्यैः सह चेदिमुख्याः
MBh 6.56.12
ततो महावेगसमाहतानि; भेरीसहस्राणि विनेदुराजौ शङ्खस्वना दुन्दुभिनिस्वनाश्च; सर्वेष्वनीकेषु ससिंहनादाः
MBh 6.56.13
ततः सबाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः क्षणेन भेरीपणवप्रणादा;नन्तर्दधुः शङ्खमहास्वनाश्च
MBh 6.56.14
तच्छङ्खशब्दावृतमन्तरिक्ष;मुद्धूतभौमद्रुतरेणुजालम् महावितानावततप्रकाश;मालोक्य वीराः सहसाभिपेतुः
MBh 6.56.15
रथी रथेनाभिहतः ससूतः; पपात साश्वः सरथः सकेतुः गजो गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः
MBh 6.56.16
आवर्तमानान्यभिवर्तमानै;र्बाणैः क्षतान्यद्भुतदर्शनानि प्रासैश्च खड्गैश्च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः
MBh 6.56.17
सुवर्णतारागणभूषितानि; शरावराणि प्रहितानि वीरैः विदार्यमाणानि परश्वधैश्च; प्रासैश्च खड्गैश्च निपेतुरुर्व्याम्
MBh 6.56.18
गजैर्विषाणैर्वरहस्तरुग्णाः; केचित्ससूता रथिनः प्रपेतुः गजर्षभाश्चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम्
MBh 6.56.19
गजौघवेगोद्धतसादितानां; श्रुत्वा निषेदुर्वसुधां मनुष्याः आर्तस्वरं सादिपदातियूनां; विषाणगात्रावरताडितानाम्
MBh 6.56.20
संभ्रान्तनागाश्वरथे प्रसूते; महाभये सादिपदातियूनाम् महारथैः संपरिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम्
MBh 6.56.21
तं पञ्चतालोच्छ्रिततालकेतुः; सदश्ववेगोद्धतवीर्ययातः महास्त्रबाणाशनिदीप्तमार्गं; किरीटिनं शांतनवोऽभ्यधावत्
MBh 6.56.22
तथैव शक्रप्रतिमानकल्प;मिन्द्रात्मजं द्रोणमुखाभिसस्रुः कृपश्च शल्यश्च विविंशतिश्च; दुर्योधनः सौमदत्तिश्च राजन्
MBh 6.56.23
ततो रथानीकमुखादुपेत्य; सर्वास्त्रवित्काञ्चनचित्रवर्मा जवेन शूरोऽभिससार सर्वां;स्तथार्जुनस्यात्र सुतोऽभिमन्युः
MBh 6.56.24
तेषां महास्त्राणि महारथाना;मसक्तकर्मा विनिहत्य कार्ष्णिः बभौ महामन्त्रहुतार्चिमाली; सदोगतः सन्भगवानिवाग्निः
MBh 6.56.25
ततः स तूर्णं रुधिरोदफेनां; कृत्वा नदीं वैशसने रिपूणाम् जगाम सौभद्रमतीत्य भीष्मो; महारथं पार्थमदीनसत्त्वः
MBh 6.56.26
ततः प्रहस्याद्भुतदर्शनेन; गाण्डीवनिर्ह्रादमहास्वनेन विपाठजालेन महास्त्रजालं; विनाशयामास किरीटमाली
MBh 6.56.27
तमुत्तमं सर्वधनुर्धराणा;मसक्तकर्मा कपिराजकेतुः भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर्विमलैश्च भल्लैः
MBh 6.56.28
एवंविधं कार्मुकभीमनाद;मदीनवत्सत्पुरुषोत्तमाभ्याम् ददर्श लोकः कुरुसृञ्जयाश्च; तद्द्वैरथं भीष्मधनंजयाभ्याम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 28 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.56local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷