🪷 Mahābhārata · Bhīṣma-Parva · Chapter 55
The Book of Bhīṣma · Parva 6 · 132 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 132 Shlokas
MBh 6.55.1
धृतराष्ट्र उवाच
प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे
क्रोधितो मम पुत्रेण दुःखितेन विशेषतः
MBh 6.55.2
भीष्मः किमकरोत्तत्र पाण्डवेयेषु संजय
पितामहे वा पाञ्चालास्तन्ममाचक्ष्व संजय
MBh 6.55.3
संजय उवाच
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत
जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु
MBh 6.55.4
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव
अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम्
महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः
MBh 6.55.5
प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम्
अस्माकं पाण्डवैः सार्धमनयात्तव भारत
MBh 6.55.6
धनुषां कूजतां तत्र तलानां चाभिहन्यताम्
महान्समभवच्छब्दो गिरीणामिव दीर्यताम्
MBh 6.55.7
तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव
स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः
MBh 6.55.8
काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च
शिलानामिव शैलेषु पतितानामभूत्स्वनः
MBh 6.55.9
पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः
MBh 6.55.10
हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः
प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः
MBh 6.55.11
प्रावर्तत महावेगा नदी रुधिरवाहिनी
मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा
MBh 6.55.12
वराश्वनरनागानां शरीरप्रभवा तदा
परलोकार्णवमुखी गृध्रगोमायुमोदिनी
MBh 6.55.13
न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप
यथा तव सुतानां च पाण्डवानां च भारत
MBh 6.55.14
नासीद्रथपथस्तत्र योधैर्युधि निपातितैः
गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतम्
MBh 6.55.15
विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष
शुशुभे तद्रणस्थानं शरदीव नभस्तलम्
MBh 6.55.16
विनिर्भिन्नाः शरैः केचिदन्तपीडाविकर्षिणः
अभीताः समरे शत्रूनभ्यधावन्त दंशिताः
MBh 6.55.17
तात भ्रातः सखे बन्धो वयस्य मम मातुल
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे
MBh 6.55.18
आधावाभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि
स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः
MBh 6.55.19
तत्र भीष्मः शांतनवो नित्यं मण्डलकार्मुकः
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव
MBh 6.55.20
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः
जघान पाण्डवरथानादिश्यादिश्य भारत
MBh 6.55.21
स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम्
अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते
MBh 6.55.22
तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा
अनेकशतसाहस्रं समपश्यन्त लाघवात्
MBh 6.55.23
मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः
MBh 6.55.24
उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो
एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत
MBh 6.55.25
न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम्
विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून्
MBh 6.55.26
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम्
व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु
अमानुषेण रूपेण चरन्तं पितरं तव
MBh 6.55.27
शलभा इव राजानः पतन्ति विधिचोदिताः
भीष्माग्निमभि संक्रुद्धं विनाशाय सहस्रशः
MBh 6.55.28
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे
नरनागाश्वकायेषु बहुत्वाल्लघुवेधिनः
MBh 6.55.29
भिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा
गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम्
MBh 6.55.30
द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि
नाराचेन सुतीक्ष्णेन निजघान पिता तव
MBh 6.55.31
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन
मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते
MBh 6.55.32
एवं सा धर्मराजस्य वध्यमाना महाचमूः
भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा
MBh 6.55.33
प्रकीर्यत महासेना शरवर्षाभितापिता
पश्यतो वासुदेवस्य पार्थस्य च महात्मनः
MBh 6.55.34
यतमानापि ते वीरा द्रवमाणान्महारथान्
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडिताः
MBh 6.55.35
महेन्द्रसमवीर्येण वध्यमाना महाचमूः
अभज्यत महाराज न च द्वौ सह धावतः
MBh 6.55.36
आविद्धनरनागाश्वं पतितध्वजकूबरम्
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्
MBh 6.55.37
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा
प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः
MBh 6.55.38
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः
प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत
MBh 6.55.39
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथयूथपम्
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा
MBh 6.55.40
प्रभज्यमानं तत्सैन्यं दृष्ट्वा देवकिनन्दनः
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्
MBh 6.55.41
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्त्वया
प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे
MBh 6.55.42
यत्त्वया कथितं वीर पुरा राज्ञां समागमे
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान्
MBh 6.55.43
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम
MBh 6.55.44
बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः
द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे बले
MBh 6.55.45
दृष्ट्वा हि समरे भीष्मं व्यात्ताननमिवान्तकम्
भयार्ताः संप्रणश्यन्ति सिंहं क्षुद्रमृगा इव
MBh 6.55.46
एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः
चोदयाश्वान्यतो भीष्मो विगाह्यैतद्बलार्णवम्
MBh 6.55.47
ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः
यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव
MBh 6.55.48
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे
MBh 6.55.49
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः
धनंजयरथं तूर्णं शरवर्षैरवाकिरत्
MBh 6.55.50
क्षणेन स रथस्तस्य सहयः सहसारथिः
शरवर्षेण महता संछन्नो न प्रकाशते
MBh 6.55.51
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्त्ववान्
चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः
MBh 6.55.52
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम्
पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः
MBh 6.55.53
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव
MBh 6.55.54
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम्
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः
MBh 6.55.55
तस्य तत्पूजयामास लाघवं शंतनोः सुतः
साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन
MBh 6.55.56
त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय
प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह
MBh 6.55.57
इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः
मुमोच समरे वीरः शरान्पार्थरथं प्रति
MBh 6.55.58
अदर्शयद्वासुदेवो हययाने परं बलम्
मोघान्कुर्वञ्शरांस्तस्य मण्डलान्यचरल्लघु
MBh 6.55.59
तथापि भीष्मः सुदृढं वासुदेवधनंजयौ
विव्याध निशितैर्बाणैः सर्वगात्रेषु मारिष
MBh 6.55.60
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ
गोवृषाविव नर्दन्तौ विषाणोल्लिखिताङ्कितौ
MBh 6.55.61
पुनश्चापि सुसंक्रुद्धः शरैः संनतपर्वभिः
कृष्णयोर्युधि संरब्धो भीष्मो व्यावारयद्दिशः
MBh 6.55.62
वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः
मुहुरभ्युत्स्मयन्भीष्मः प्रहस्य स्वनवत्तदा
MBh 6.55.63
ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम्
संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम्
MBh 6.55.64
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः
MBh 6.55.65
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले
MBh 6.55.66
अमृष्यमाणो भगवान्केशवः परवीरहा
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम्
MBh 6.55.67
एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान्
किमु पाण्डुसुतान्युद्धे सबलान्सपदानुगान्
MBh 6.55.68
द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः
एते च कौरवास्तूर्णं प्रभग्नान्दृश्य सोमकान्
आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम्
MBh 6.55.69
सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः
भारमेतं विनेष्यामि पाण्डवानां महात्मनाम्
MBh 6.55.70
अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संयुगे
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात्
MBh 6.55.71
तथा चिन्तयतस्तस्य भूय एव पितामहः
प्रेषयामास संक्रुद्धः शरान्पार्थरथं प्रति
MBh 6.55.72
तेषां बहुत्वाद्धि भृशं शराणां; दिशोऽथ सर्वाः पिहिता बभूवुः
न चान्तरिक्षं न दिशो न भूमि;र्न भास्करोऽदृश्यत रश्मिमाली
ववुश्च वातास्तुमुलाः सधूमा; दिशश्च सर्वाः क्षुभिता बभूवुः
MBh 6.55.73
द्रोणो विकर्णोऽथ जयद्रथश्च; भूरिश्रवाः कृतवर्मा कृपश्च
श्रुतायुरम्बष्ठपतिश्च राजा; विन्दानुविन्दौ च सुदक्षिणश्च
MBh 6.55.74
प्राच्याश्च सौवीरगणाश्च सर्वे; वसातयः क्षुद्रकमालवाश्च
किरीटिनं त्वरमाणाभिसस्रु;र्निदेशगाः शांतनवस्य राज्ञः
MBh 6.55.75
तं वाजिपादातरथौघजालै;रनेकसाहस्रशतैर्ददर्श
किरीटिनं संपरिवार्यमाणं; शिनेर्नप्ता वारणयूथपैश्च
MBh 6.55.76
ततस्तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात्
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरोऽभिससार तूर्णम्
MBh 6.55.77
स तान्यनीकानि महाधनुष्मा;ञ्शिनिप्रवीरः सहसाभिपत्य
चकार साहाय्यमथार्जुनस्य; विष्णुर्यथा वृत्रनिषूदनस्य
MBh 6.55.78
विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयोधम्
युधिष्ठिरानीकमभिद्रवन्तं; प्रोवाच संदृश्य शिनिप्रवीरः
MBh 6.55.79
क्व क्षत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात्कथितः पुराणैः
मा स्वां प्रतिज्ञां जहत प्रवीराः; स्वं वीरधर्मं परिपालयध्वम्
MBh 6.55.80
तान्वासवानन्तरजो निशम्य; नरेन्द्रमुख्यान्द्रवतः समन्तात्
पार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च संख्ये समुदीर्यमाणम्
MBh 6.55.81
अमृष्यमाणः स ततो महात्मा; यशस्विनं सर्वदशार्हभर्ता
उवाच शैनेयमभिप्रशंस;न्दृष्ट्वा कुरूनापततः समन्तात्
MBh 6.55.82
ये यान्ति यान्त्वेव शिनिप्रवीर; येऽपि स्थिताः सात्वत तेऽपि यान्तु
भीष्मं रथात्पश्य निपात्यमानं; द्रोणं च संख्ये सगणं मयाद्य
MBh 6.55.83
नासौ रथः सात्वत कौरवाणां; क्रुद्धस्य मुच्येत रणेऽद्य कश्चित्
तस्मादहं गृह्य रथाङ्गमुग्रं; प्राणं हरिष्यामि महाव्रतस्य
MBh 6.55.84
निहत्य भीष्मं सगणं तथाजौ; द्रोणं च शैनेय रथप्रवीरम्
प्रीतिं करिष्यामि धनंजयस्य; राज्ञश्च भीमस्य तथाश्विनोश्च
MBh 6.55.85
निहत्य सर्वान्धृतराष्ट्रपुत्रां;स्तत्पक्षिणो ये च नरेन्द्रमुख्याः
राज्येन राजानमजातशत्रुं; संपादयिष्याम्यहमद्य हृष्टः
MBh 6.55.86
ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम्
क्षुरान्तमुद्यम्य भुजेन चक्रं; रथादवप्लुत्य विसृज्य वाहान्
MBh 6.55.87
संकम्पयन्गां चरणैर्महात्मा; वेगेन कृष्णः प्रससार भीष्मम्
मदान्धमाजौ समुदीर्णदर्पः; सिंहो जिघांसन्निव वारणेन्द्रम्
MBh 6.55.88
सोऽभ्यद्रवद्भीष्ममनीकमध्ये; क्रुद्धो महेन्द्रावरजः प्रमाथी
व्यालम्बिपीतान्तपटश्चकाशे; घनो यथा खेऽचिरभापिनद्धः
MBh 6.55.89
सुदर्शनं चास्य रराज शौरे;स्तच्चक्रपद्मं सुभुजोरुनालम्
यथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम्
MBh 6.55.90
तत्कृष्णकोपोदयसूर्यबुद्धं; क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्
तस्यैव देहोरुसरःप्ररूढं; रराज नारायणबाहुनालम्
MBh 6.55.91
तमात्तचक्रं प्रणदन्तमुच्चैः; क्रुद्धं महेन्द्रावरजं समीक्ष्य
सर्वाणि भूतानि भृशं विनेदुः; क्षयं कुरूणामिति चिन्तयित्वा
MBh 6.55.92
स वासुदेवः प्रगृहीतचक्रः; संवर्तयिष्यन्निव जीवलोकम्
अभ्युत्पतँल्लोकगुरुर्बभासे; भूतानि धक्ष्यन्निव कालवह्निः
MBh 6.55.93
तमापतन्तं प्रगृहीतचक्रं; समीक्ष्य देवं द्विपदां वरिष्ठम्
असंभ्रमात्कार्मुकबाणपाणी; रथे स्थितः शांतनवोऽभ्युवाच
MBh 6.55.94
एह्येहि देवेश जगन्निवास; नमोऽस्तु ते शार्ङ्गरथाङ्गपाणे
प्रसह्य मां पातय लोकनाथ; रथोत्तमाद्भूतशरण्य संख्ये
MBh 6.55.95
त्वया हतस्येह ममाद्य कृष्ण; श्रेयः परस्मिन्निह चैव लोके
संभावितोऽस्म्यन्धकवृष्णिनाथ; लोकैस्त्रिभिर्वीर तवाभियानात्
MBh 6.55.96
रथादवप्लुत्य ततस्त्वरावा;न्पार्थोऽप्यनुद्रुत्य यदुप्रवीरम्
जग्राह पीनोत्तमलम्बबाहुं; बाह्वोर्हरिं व्यायतपीनबाहुः
MBh 6.55.97
निगृह्यमाणश्च तदादिदेवो; भृशं सरोषः किल नाम योगी
आदाय वेगेन जगाम विष्णु;र्जिष्णुं महावात इवैकवृक्षम्
MBh 6.55.98
पार्थस्तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णमभिद्रवन्तम्
बलान्निजग्राह किरीटमाली; पदेऽथ राजन्दशमे कथंचित्
MBh 6.55.99
अवस्थितं च प्रणिपत्य कृष्णं; प्रीतोऽर्जुनः काञ्चनचित्रमाली
उवाच कोपं प्रतिसंहरेति; गतिर्भवान्केशव पाण्डवानाम्
MBh 6.55.100
न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सोदरैश्च
अन्तं करिष्यामि यथा कुरूणां; त्वयाहमिन्द्रानुज संप्रयुक्तः
MBh 6.55.101
ततः प्रतिज्ञां समयं च तस्मै; जनार्दनः प्रीतमना निशम्य
स्थितः प्रिये कौरवसत्तमस्य; रथं सचक्रः पुनरारुरोह
MBh 6.55.102
स तानभीषून्पुनराददानः; प्रगृह्य शङ्खं द्विषतां निहन्ता
विनादयामास ततो दिशश्च; स पाञ्चजन्यस्य रवेण शौरिः
MBh 6.55.103
व्याविद्धनिष्काङ्गदकुण्डलं तं; रजोविकीर्णाञ्चितपक्ष्मनेत्रम्
विशुद्धदंष्ट्रं प्रगृहीतशङ्खं; विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः
MBh 6.55.104
मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश्च
ससिंहनादाश्च बभूवुरुग्राः; सर्वेष्वनीकेषु ततः कुरूणाम्
MBh 6.55.105
गाण्डीवघोषः स्तनयित्नुकल्पो; जगाम पार्थस्य नभो दिशश्च
जग्मुश्च बाणा विमलाः प्रसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः
MBh 6.55.106
तं कौरवाणामधिपो बलेन; भीष्मेण भूरिश्रवसा च सार्धम्
अभ्युद्ययावुद्यतबाणपाणिः; कक्षं दिधक्षन्निव धूमकेतुः
MBh 6.55.107
अथार्जुनाय प्रजहार भल्ला;न्भूरिश्रवाः सप्त सुवर्णपुङ्खान्
दुर्योधनस्तोमरमुग्रवेगं; शल्यो गदां शांतनवश्च शक्तिम्
MBh 6.55.108
स सप्तभिः सप्त शरप्रवेका;न्संवार्य भूरिश्रवसा विसृष्टान्
शितेन दुर्योधनबाहुमुक्तं; क्षुरेण तत्तोमरमुन्ममाथ
MBh 6.55.109
ततः शुभामापततीं स शक्तिं; विद्युत्प्रभां शांतनवेन मुक्ताम्
गदां च मद्राधिपबाहुमुक्तां; द्वाभ्यां शराभ्यां निचकर्त वीरः
MBh 6.55.110
ततो भुजाभ्यां बलवद्विकृष्य; चित्रं धनुर्गाण्डिवमप्रमेयम्
माहेन्द्रमस्त्रं विधिवत्सुघोरं; प्रादुश्चकाराद्भुतमन्तरिक्षे
MBh 6.55.111
तेनोत्तमास्त्रेण ततो महात्मा; सर्वाण्यनीकानि महाधनुष्मान्
शरौघजालैर्विमलाग्निवर्णै;र्निवारयामास किरीटमाली
MBh 6.55.112
शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान्ध्वजाग्राणि धनूंषि बाहून्
निकृत्य देहान्विविशुः परेषां; नरेन्द्रनागेन्द्रतुरंगमाणाम्
MBh 6.55.113
ततो दिशश्चानुदिशश्च पार्थः; शरैः सुधारैर्निशितैर्वितत्य
गाण्डीवशब्देन मनांसि तेषां; किरीटमाली व्यथयां चकार
MBh 6.55.114
तस्मिंस्तथा घोरतमे प्रवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश्च
अन्तर्हिता गाण्डिवनिस्वनेन; बभूवुरुग्राश्च रणप्रणादाः
MBh 6.55.115
गाण्डीवशब्दं तमथो विदित्वा; विराटराजप्रमुखा नृवीराः
पाञ्चालराजो द्रुपदश्च वीर;स्तं देशमाजग्मुरदीनसत्त्वाः
MBh 6.55.116
सर्वाणि सैन्यानि तु तावकानि; यतो यतो गाण्डिवजः प्रणादः
ततस्ततः संनतिमेव जग्मु;र्न तं प्रतीपोऽभिससार कश्चित्
MBh 6.55.117
तस्मिन्सुघोरे नृपसंप्रहारे; हताः प्रवीराः सरथाः ससूताः
गजाश्च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः
MBh 6.55.118
परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः
दृढाहताः पत्रिभिरुग्रवेगैः; पार्थेन भल्लैर्निशितैः शिताग्रैः
MBh 6.55.119
निकृत्तयन्त्रा निहतेन्द्रकीला; ध्वजा महान्तो ध्वजिनीमुखेषु
पदातिसंघाश्च रथाश्च संख्ये; हयाश्च नागाश्च धनंजयेन
MBh 6.55.120
बाणाहतास्तूर्णमपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुरुर्व्याम्
ऐन्द्रेण तेनास्त्रवरेण राज;न्महाहवे भिन्नतनुत्रदेहाः
MBh 6.55.121
ततः शरौघैर्निशितैः किरीटिना; नृदेहशस्त्रक्षतलोहितोदा
नदी सुघोरा नरदेहफेना; प्रवर्तिता तत्र रणाजिरे वै
MBh 6.55.122
वेगेन सातीव पृथुप्रवाहा; प्रसुस्रुता भैरवारावरूपा
परेतनागाश्वशरीररोधा; नरान्त्रमज्जाभृतमांसपङ्का
MBh 6.55.123
प्रभूतरक्षोगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला
शरीरसंघातसहस्रवाहिनी; विशीर्णनानाकवचोर्मिसंकुला
MBh 6.55.124
नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा
तां कङ्कमालावृतगृध्रकह्वैः; क्रव्यादसंघैश्च तरक्षुभिश्च
MBh 6.55.125
उपेतकूलां ददृशुः समन्ता;त्क्रूरां महावैतरणीप्रकाशाम्
प्रवर्तितामर्जुनबाणसंघै;र्मेदोवसासृक्प्रवहां सुभीमाम्
MBh 6.55.126
ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश्च सर्वे सहिताः प्रणेदुः
वित्रास्य सेनां ध्वजिनीपतीनां; सिंहो मृगाणामिव यूथसंघान्
विनेदतुस्तावतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश्च
MBh 6.55.127
ततो रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः
तदैन्द्रमस्त्रं विततं सुघोर;मसह्यमुद्वीक्ष्य युगान्तकल्पम्
MBh 6.55.128
अथापयानं कुरवः सभीष्माः; सद्रोणदुर्योधनबाह्लिकाश्च
चक्रुर्निशां संधिगतां समीक्ष्य; विभावसोर्लोहितराजियुक्ताम्
MBh 6.55.129
अवाप्य कीर्तिं च यशश्च लोके; विजित्य शत्रूंश्च धनंजयोऽपि
ययौ नरेन्द्रैः सह सोदरैश्च; समाप्तकर्मा शिबिरं निशायाम्
ततः प्रजज्ञे तुमुलः कुरूणां; निशामुखे घोरतरः प्रणादः
MBh 6.55.130
रणे रथानामयुतं निहत्य; हता गजाः सप्तशतार्जुनेन
प्राच्याश्च सौवीरगणाश्च सर्वे; निपातिताः क्षुद्रकमालवाश्च
महत्कृतं कर्म धनंजयेन; कर्तुं यथा नार्हति कश्चिदन्यः
MBh 6.55.131
श्रुतायुरम्बष्ठपतिश्च राजा; तथैव दुर्मर्षणचित्रसेनौ
द्रोणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन्
स्वबाहुवीर्येण जिताः सभीष्माः; किरीटिना लोकमहारथेन
MBh 6.55.132
इति ब्रुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये त्वदीयाः
उल्कासहस्रैश्च सुसंप्रदीप्तै;र्विभ्राजमानैश्च तथा प्रदीपैः
किरीटिवित्रासितसर्वयोधा; चक्रे निवेशं ध्वजिनी कुरूणाम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 54
- Next chapter · Bhīṣma-Parva Ch 56 →
Sources and Connected Readings
Continue from these 132 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.55local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷