🪷 Mahābhārata · Bhīṣma-Parva · Chapter 54
The Book of Bhīṣma · Parva 6 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 44 Shlokas
MBh 6.54.1
संजय उवाच
ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे
रथैरनेकसाहस्रैः समन्तात्पर्यवारयन्
MBh 6.54.2
अथैनं रथवृन्देन कोष्टकीकृत्य भारत
शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन्
MBh 6.54.3
शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह
प्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपि
चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति
MBh 6.54.4
शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम्
रुरोध सर्वतः पार्थः शरैः कनकभूषणैः
MBh 6.54.5
तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम्
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः
साधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन्
MBh 6.54.6
सात्यकिं चाभिमन्युं च महत्या सेनया सह
गान्धाराः समरे शूरा रुरुधुः सहसौबलाः
MBh 6.54.7
तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम्
तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि
MBh 6.54.8
सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभये
अभिमन्यो रथं तूर्णमारुरोह परंतपः
MBh 6.54.9
तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम्
व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः
MBh 6.54.10
द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम्
नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः
MBh 6.54.11
ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन्
MBh 6.54.12
तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम्
यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम्
MBh 6.54.13
कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौ
दुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारयत्
MBh 6.54.14
तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम्
अतीत्य पितरं युद्धे यदयुध्यत भारत
MBh 6.54.15
भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम्
हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः
MBh 6.54.16
ततो दुर्योधनो राजा प्रहारवरमोहितः
निषसाद रथोपस्थे कश्मलं च जगाम ह
MBh 6.54.17
तं विसंज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः
अपोवाह रणाद्राजंस्ततः सैन्यमभिद्यत
MBh 6.54.18
ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः
निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः
MBh 6.54.19
पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः
द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः
जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविशातनैः
MBh 6.54.20
द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे
नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ
MBh 6.54.21
वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते
विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः
MBh 6.54.22
ततो रथसहस्रेषु विद्रवत्सु ततस्ततः
तावास्थितावेकरथं सौभद्रशिनिपुंगवौ
सौबलीं समरे सेनां शातयेतां समन्ततः
MBh 6.54.23
शुशुभाते तदा तौ तु शैनेयकुरुपुंगवौ
अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले
MBh 6.54.24
अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पते
ववर्ष शरवर्षेण धाराभिरिव तोयदः
MBh 6.54.25
वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगे
दुद्राव कौरवं सैन्यं विषादभयकम्पितम्
MBh 6.54.26
द्रवतस्तान्समालोक्य भीष्मद्रोणौ महारथौ
न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ
MBh 6.54.27
ततो दुर्योधनो राजा समाश्वस्य विशां पते
न्यवर्तयत तत्सैन्यं द्रवमाणं समन्ततः
MBh 6.54.28
यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत
तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः
MBh 6.54.29
तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः
अन्योन्यस्पर्धया राजँल्लज्जयान्येऽवतस्थिरे
MBh 6.54.30
पुनरावर्ततां तेषां वेग आसीद्विशां पते
पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति
MBh 6.54.31
संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः
अब्रवीत्त्वरितो गत्वा भीष्मं शांतनवं वचः
MBh 6.54.32
पितामह निबोधेदं यत्त्वा वक्ष्यामि भारत
नानुरूपमहं मन्ये त्वयि जीवति कौरव
MBh 6.54.33
द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जने
कृपे चैव महेष्वासे द्रवतीयं वरूथिनी
MBh 6.54.34
न पाण्डवाः प्रतिबलास्तव राजन्कथंचन
तथा द्रोणस्य संग्रामे द्रौणेश्चैव कृपस्य च
MBh 6.54.35
अनुग्राह्याः पाण्डुसुता नूनं तव पितामह
यथेमां क्षमसे वीर वध्यमानां वरूथिनीम्
MBh 6.54.36
सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे
न योत्स्ये पाण्डवान्संख्ये नापि पार्षतसात्यकी
MBh 6.54.37
श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च
कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि
MBh 6.54.38
यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे
विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ
MBh 6.54.39
एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः
अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी
MBh 6.54.40
बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचः
अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः
MBh 6.54.41
यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम
करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः
MBh 6.54.42
अद्य पाण्डुसुतान्सर्वान्ससैन्यान्सह बन्धुभिः
मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः
MBh 6.54.43
एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर
दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जघ्निरे भृशम्
MBh 6.54.44
पाण्डवापि ततो राजञ्श्रुत्वा तं निनदं महत्
दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 53
- Next chapter · Bhīṣma-Parva Ch 55 →
Sources and Connected Readings
Continue from these 44 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.54local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷