🪷 Mahābhārata · Bhīṣma-Parva · Chapter 49
The Book of Bhīṣma · Parva 6 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 40 Shlokas
MBh 6.49.1
धृतराष्ट्र उवाच
कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः
रणे समीयतुर्यत्तौ तन्ममाचक्ष्व संजय
MBh 6.49.2
दिष्टमेव परं मन्ये पौरुषादपि संजय
यत्र शांतनवो भीष्मो नातरद्युधि पाण्डवम्
MBh 6.49.3
भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान्
स कथं पाण्डवं युद्धे नातरत्संजयौजसा
MBh 6.49.4
संजय उवाच
शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम्
न शक्यः पाण्डवो जेतुं देवैरपि सवासवैः
MBh 6.49.5
द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमयोधयत्
सारथिं चास्य भल्लेन रथनीडादपातयत्
MBh 6.49.6
तस्याथ चतुरो वाहांश्चतुर्भिः सायकोत्तमैः
पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष
MBh 6.49.7
धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः
विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत्
MBh 6.49.8
ततः पुनरमेयात्मा भारद्वाजः प्रतापवान्
शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम्
MBh 6.49.9
आददे च शरं घोरं पार्षतस्य वधं प्रति
शक्राशनिसमस्पर्शं मृत्युदण्डमिवापरम्
MBh 6.49.10
हाहाकारो महानासीत्सर्वसैन्यस्य भारत
तमिषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे
MBh 6.49.11
तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम्
यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः
MBh 6.49.12
तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः
चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह
MBh 6.49.13
तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह
धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम्
MBh 6.49.14
ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम्
द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी
MBh 6.49.15
तामापतन्तीं सहसा शक्तिं कनकभूषणाम्
त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव
MBh 6.49.16
शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान्
ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर
MBh 6.49.17
शरवर्षं ततस्तं तु संनिवार्य महायशाः
द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम्
MBh 6.49.18
स च्छिन्नधन्वा समरे गदां गुर्वीं महायशाः
द्रोणाय प्रेषयामास गिरिसारमयीं बली
MBh 6.49.19
सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया
तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम्
MBh 6.49.20
लाघवाद्व्यंसयामास गदां हेमविभूषिताम्
व्यंसयित्वा गदां तां च प्रेषयामास पार्षते
MBh 6.49.21
भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाञ्शिलाशितान्
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे
MBh 6.49.22
अथान्यद्धनुरादाय धृष्टद्युम्नो महामनाः
द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः
MBh 6.49.23
रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ
वसन्तसमये राजन्पुष्पिताविव किंशुकौ
MBh 6.49.24
अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे
द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम्
MBh 6.49.25
अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः
अवाकिरदमेयात्मा वृष्ट्या मेघ इवाचलम्
MBh 6.49.26
सारथिं चास्य भल्लेन रथनीडादपातयत्
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः
MBh 6.49.27
पातयामास समरे सिंहनादं ननाद च
ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत्
MBh 6.49.28
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः
गदापाणिरवारोहत्ख्यापयन्पौरुषं महत्
MBh 6.49.29
तामस्य विशिखैस्तूर्णं पातयामास भारत
रथादनवरूढस्य तदद्भुतमिवाभवत्
MBh 6.49.30
ततः स विपुलं चर्म शतचन्द्रं च भानुमत्
खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली
MBh 6.49.31
अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया
आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम्
MBh 6.49.32
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम्
लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत
MBh 6.49.33
यदेनं शरवर्षेण वारयामास पार्षतम्
न शशाक ततो गन्तुं बलवानपि संयुगे
MBh 6.49.34
तत्र स्थितमपश्याम धृष्टद्युम्नं महारथम्
वारयाणं शरौघांश्च चर्मणा कृतहस्तवत्
MBh 6.49.35
ततो भीमो महाबाहुः सहसाभ्यपतद्बली
साहाय्यकारी समरे पार्षतस्य महात्मनः
MBh 6.49.36
स द्रोणं निशितैर्बाणै राजन्विव्याध सप्तभिः
पार्षतं च तदा तूर्णमन्यमारोपयद्रथम्
MBh 6.49.37
ततो दुर्योधनो राजा कलिङ्गं समचोदयत्
सैन्येन महता युक्तं भारद्वाजस्य रक्षणे
MBh 6.49.38
ततः सा महती सेना कलिङ्गानां जनेश्वर
भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात्
MBh 6.49.39
पाञ्चाल्यमभिसंत्यज्य द्रोणोऽपि रथिनां वरः
विराटद्रुपदौ वृद्धौ योधयामास संगतौ
धृष्टद्युम्नोऽपि समरे धर्मराजं समभ्ययात्
MBh 6.49.40
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्
कलिङ्गानां च समरे भीमस्य च महात्मनः
जगतः प्रक्षयकरं घोररूपं भयानकम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 48
- Next chapter · Bhīṣma-Parva Ch 50 →
Sources and Connected Readings
Continue from these 40 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.49local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷