🪷 Mahābhārata · Bhīṣma-Parva · Chapter 50

The Book of Bhīṣma · Parva 6 · 115 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 115 Shlokas

MBh 6.50.1
धृतराष्ट्र उवाच तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः कथमद्भुतकर्माणं भीमसेनं महाबलम्
MBh 6.50.2
चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् योधयामास समरे कलिङ्गः सह सेनया
MBh 6.50.3
संजय उवाच पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति
MBh 6.50.4
तामापतन्तीं सहसा कलिङ्गानां महाचमूम् रथनागाश्वकलिलां प्रगृहीतमहायुधाम्
MBh 6.50.5
भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् केतुमन्तं च नैषादिमायान्तं सह चेदिभिः
MBh 6.50.6
ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह आससाद रणे भीमं व्यूढानीकेषु चेदिषु
MBh 6.50.7
रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः अयुतेन गजानां च निषादैः सह केतुमान् भीमसेनं रणे राजन्समन्तात्पर्यवारयत्
MBh 6.50.8
चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः अभ्यवर्तन्त सहसा निषादान्सह राजभिः
MBh 6.50.9
ततः प्रववृते युद्धं घोररूपं भयानकम् प्रजानन्न च योधान्स्वान्परस्परजिघांसया
MBh 6.50.10
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः यथेन्द्रस्य महाराज महत्या दैत्यसेनया
MBh 6.50.11
तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः
MBh 6.50.12
अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम्
MBh 6.50.13
योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः
MBh 6.50.14
विमर्दः सुमहानासीदल्पानां बहुभिः सह कलिङ्गैः सह चेदीनां निषादैश्च विशां पते
MBh 6.50.15
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः
MBh 6.50.16
सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः
MBh 6.50.17
न चचाल रथोपस्थाद्भीमसेनो महाबलः शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम्
MBh 6.50.18
कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः
MBh 6.50.19
ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः
MBh 6.50.20
शक्रदेवस्तु समरे विसृजन्सायकान्बहून् अश्वाञ्जघान समरे भीमसेनस्य सायकैः ववर्ष शरवर्षाणि तपान्ते जलदो यथा
MBh 6.50.21
हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम्
MBh 6.50.22
स तया निहतो राजन्कलिङ्गस्य सुतो रथात् सध्वजः सह सूतेन जगाम धरणीतलम्
MBh 6.50.23
हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः
MBh 6.50.24
ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम् उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम्
MBh 6.50.25
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम्
MBh 6.50.26
कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः
MBh 6.50.27
तमापतन्तं वेगेन प्रेरितं निशितं शरम् भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम्
MBh 6.50.28
कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान्
MBh 6.50.29
तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना
MBh 6.50.30
निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः
MBh 6.50.31
भानुमांस्तु ततो भीमं शरवर्षेण छादयन् ननाद बलवन्नादं नादयानो नभस्तलम्
MBh 6.50.32
न तं स ममृषे भीमः सिंहनादं महारणे ततः स्वरेण महता विननाद महास्वनम्
MBh 6.50.33
तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी न भीमं समरे मेने मानुषं भरतर्षभ
MBh 6.50.34
ततो भीमो महाराज नदित्वा विपुलं स्वनम् सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम्
MBh 6.50.35
आरुरोह ततो मध्यं नागराजस्य मारिष खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत्
MBh 6.50.36
सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः गुरुभारसहस्कन्धे नागस्यासिमपातयत्
MBh 6.50.37
छिन्नस्कन्धः स विनदन्पपात गजयूथपः आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः
MBh 6.50.38
ततस्तस्मादवप्लुत्य गजाद्भारत भारतः खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः
MBh 6.50.39
स चचार बहून्मार्गानभीतः पातयन्गजान् अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत
MBh 6.50.40
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः पदातीनां च संघेषु विनिघ्नञ्शोणितोक्षितः श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः
MBh 6.50.41
छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः खड्गेन शितधारेण संयुगे गजयोधिनाम्
MBh 6.50.42
पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः मोहयामास च तदा कालान्तकयमोपमः
MBh 6.50.43
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् सासिमुत्तमवेगेन विचरन्तं महारणे
MBh 6.50.44
निकृत्य रथिनामाजौ रथेषाश्च युगानि च जघान रथिनश्चापि बलवानरिमर्दनः
MBh 6.50.45
भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् संपातं समुदीर्यं च दर्शयामास पाण्डवः
MBh 6.50.46
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः
MBh 6.50.47
छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः निपेतुरुर्व्यां च तथा विनदन्तो महारवान्
MBh 6.50.48
छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः
MBh 6.50.49
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च
MBh 6.50.50
अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि पततः पतितांश्चैव पश्यामः सह सादिभिः
MBh 6.50.51
छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव
MBh 6.50.52
विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः अश्वारोहवरांश्चापि पातयामास भारत तद्घोरमभवद्युद्धं तस्य तेषां च भारत
MBh 6.50.53
खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः
MBh 6.50.54
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे
MBh 6.50.55
प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव
MBh 6.50.56
आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः पातयामास खड्गेन सध्वजानपि पाण्डवः
MBh 6.50.57
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः
MBh 6.50.58
निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत् खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन्
MBh 6.50.59
ऊरुवेगेन चाप्यन्यान्पातयामास भूतले अपरे चैनमालोक्य भयात्पञ्चत्वमागताः
MBh 6.50.60
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत्
MBh 6.50.61
ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात्
MBh 6.50.62
तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे
MBh 6.50.63
कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः
MBh 6.50.64
अथाशोकः समादाय रथं हेमपरिष्कृतम् भीमं संपादयामास रथेन रथसारथिः
MBh 6.50.65
तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत्
MBh 6.50.66
ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान् प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम्
MBh 6.50.67
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः समाहतो भृशं राजन्कलिङ्गेन महायशाः संचुक्रुधे भृशं भीमो दण्डाहत इवोरगः
MBh 6.50.68
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः
MBh 6.50.69
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम्
MBh 6.50.70
ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः केतुमन्तं रणे भीमोऽगमयद्यमसादनम्
MBh 6.50.71
ततः कलिङ्गाः संक्रुद्धा भीमसेनममर्षणम् अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन्
MBh 6.50.72
ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन्
MBh 6.50.73
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् गदामादाय तरसा परिप्लुत्य महाबलः भीमः सप्तशतान्वीराननयद्यमसादनम्
MBh 6.50.74
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत्
MBh 6.50.75
एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम्
MBh 6.50.76
हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना विप्रजग्मुरनीकेषु मेघा वातहता इव मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः
MBh 6.50.77
ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत्
MBh 6.50.78
मोहश्चापि कलिङ्गानामाविवेश परंतप प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः
MBh 6.50.79
भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः मार्गान्बहून्विचरता धावता च ततस्ततः मुहुरुत्पतता चैव संमोहः समजायत
MBh 6.50.80
भीमसेनभयत्रस्तं सैन्यं च समकम्पत क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः
MBh 6.50.81
त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा पुनरावर्तमानेषु विद्रवत्सु च संघशः
MBh 6.50.82
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः
MBh 6.50.83
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः
MBh 6.50.84
धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः महता मेघवर्णेन नागानीकेन पृष्ठतः
MBh 6.50.85
एवं संचोद्य सर्वाणि स्वान्यनीकानि पार्षतः भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम्
MBh 6.50.86
न हि पाञ्चालराजस्य लोके कश्चन विद्यते भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः
MBh 6.50.87
सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम् भीमसेनं महाबाहुं पार्षतः परवीरहा
MBh 6.50.88
ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः शङ्खं दध्मौ च समरे सिंहनादं ननाद च
MBh 6.50.89
स च पारावताश्वस्य रथे हेमपरिष्कृते कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत्
MBh 6.50.90
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् भीमसेनममेयात्मा त्राणायाजौ समभ्ययात्
MBh 6.50.91
तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ
MBh 6.50.92
स तत्र गत्वा शैनेयो जवेन जयतां वरः पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः
MBh 6.50.93
स कृत्वा कदनं तत्र प्रगृहीतशरासनः आस्थितो रौद्रमात्मानं जघान समरे परान्
MBh 6.50.94
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम्
MBh 6.50.95
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् संततार सुदुस्तारां भीमसेनो महाबलः
MBh 6.50.96
भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते
MBh 6.50.97
ततः शांतनवो भीष्मः श्रुत्वा तं निनदं रणे अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः
MBh 6.50.98
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम्
MBh 6.50.99
परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा
MBh 6.50.100
प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः
MBh 6.50.101
ततः शरसहस्रेण संनिवार्य महारथान् हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः
MBh 6.50.102
हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान् शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति
MBh 6.50.103
अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत
MBh 6.50.104
ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम् भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ
MBh 6.50.105
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया सारथिं कुरुवृद्धस्य पातयामास सायकैः
MBh 6.50.106
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः वातायमानैस्तैरश्वैरपनीतो रणाजिरात्
MBh 6.50.107
भीमसेनस्ततो राजन्नपनीते महाव्रते प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः
MBh 6.50.108
स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत नैनमभ्युत्सहन्केचित्तावका भरतर्षभ
MBh 6.50.109
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः पश्यतां सर्वसैन्यानामपोवाह यशस्विनम्
MBh 6.50.110
संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम्
MBh 6.50.111
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः
MBh 6.50.112
दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान् शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः
MBh 6.50.113
स्वबाहुबलवीर्येण नागाश्वरथसंकुलः महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया
MBh 6.50.114
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम्
MBh 6.50.115
ततः स्वरथमारुह्य पुनरेव महारथः तावकानवधीत्क्रुद्धो भीमस्य बलमादधत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 115 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.50local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷