🪷 Mahābhārata · Bhīṣma-Parva · Chapter 48

The Book of Bhīṣma · Parva 6 · 70 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 70 Shlokas

MBh 6.48.1
धृतराष्ट्र उवाच एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे
MBh 6.48.2
संजय उवाच समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः अपारमिव संदृश्य सागरप्रतिमं बलम्
MBh 6.48.3
तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः
MBh 6.48.4
ते मनः क्रूरमास्थाय समभित्यक्तजीविताः पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः
MBh 6.48.5
ततो युद्धं समभवत्तुमुलं लोमहर्षणम् तावकानां परेषां च व्यतिषक्तरथद्विपम्
MBh 6.48.6
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च
MBh 6.48.7
तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः
MBh 6.48.8
सौभद्रे भीमसेने च शैनेये च महारथे केकये च विराटे च धृष्टद्युम्ने च पार्षते
MBh 6.48.9
एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः
MBh 6.48.10
प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान्
MBh 6.48.11
सादितध्वजनागाश्च हतप्रवरवाजिनः विप्रयातरथानीकाः समपद्यन्त पाण्डवाः
MBh 6.48.12
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः
MBh 6.48.13
एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः
MBh 6.48.14
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः
MBh 6.48.15
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन
MBh 6.48.16
तमब्रवीद्वासुदेवो यत्तो भव धनंजय एष त्वा प्रापये वीर पितामहरथं प्रति
MBh 6.48.17
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् प्रापयामास भीष्माय रथं प्रति जनेश्वर
MBh 6.48.18
चञ्चद्बहुपताकेन बलाकावर्णवाजिना समुच्छ्रितमहाभीमनदद्वानरकेतुना महता मेघनादेन रथेनादित्यवर्चसा
MBh 6.48.19
विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः आयाच्छरान्नुदञ्शीघ्रं सुहृच्छोषविनाशनः
MBh 6.48.20
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् त्रासयानं रणे शूरान्पातयन्तं च सायकैः
MBh 6.48.21
सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः सहसा प्रत्युदीयाय भीष्मः शांतनवोऽर्जुनम्
MBh 6.48.22
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् द्रोणवैकर्तनाभ्यां वा रथः संयातुमर्हति
MBh 6.48.23
ततो भीष्मो महाराज कौरवाणां पितामहः अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत्
MBh 6.48.24
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः
MBh 6.48.25
सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम्
MBh 6.48.26
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः न विव्यथे महाबाहुर्भिद्यमान इवाचलः
MBh 6.48.27
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः
MBh 6.48.28
आर्तायनिं त्रिभिर्बाणै राजानं चापि पञ्चभिः प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ
MBh 6.48.29
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः द्रौपदेयाभिमन्युश्च परिवव्रुर्धनंजयम्
MBh 6.48.30
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः
MBh 6.48.31
भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः
MBh 6.48.32
तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् प्रविवेश ततो मध्यं रथसिंहः प्रतापवान्
MBh 6.48.33
तेषां तु रथसिंहानां मध्यं प्राप्य धनंजयः चिक्रीड धनुषा राजँल्लक्ष्यं कृत्वा महारथान्
MBh 6.48.34
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे
MBh 6.48.35
एष पाण्डुसुतस्तात कृष्णेन सहितो बली यततां सर्वसैन्यानां मूलं नः परिकृन्तति त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे
MBh 6.48.36
त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः न युध्यति रणे पार्थं हितकामः सदा मम
MBh 6.48.37
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः एवमुक्तस्ततो राजन्पिता देवव्रतस्तव धिक्क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति
MBh 6.48.38
उभौ श्वेतहयौ राजन्संसक्तौ दृश्य पार्थिवाः सिंहनादान्भृशं चक्रुः शङ्खशब्दांश्च भारत
MBh 6.48.39
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष
MBh 6.48.40
तथैव पाण्डवाः सर्वे परिवार्य धनंजयम् स्थिता युद्धाय महते ततो युद्धमवर्तत
MBh 6.48.41
गाङ्गेयस्तु रणे पार्थमानर्छन्नवभिः शरैः तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मवेधिभिः
MBh 6.48.42
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः
MBh 6.48.43
शरजालं ततस्तत्तु शरजालेन कौरव वारयामास पार्थस्य भीष्मः शांतनवस्तथा
MBh 6.48.44
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ
MBh 6.48.45
भीष्मचापविमुक्तानि शरजालानि संघशः शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः
MBh 6.48.46
तथैवार्जुनमुक्तानि शरजालानि भागशः गाङ्गेयशरनुन्नानि न्यपतन्त महीतले
MBh 6.48.47
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः भीष्मोऽपि समरे पार्थं विव्याध त्रिंशता शरैः
MBh 6.48.48
अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ रथेषां रथचक्रे च चिक्रीडतुररिंदमौ
MBh 6.48.49
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे
MBh 6.48.50
भीष्मचापच्युतैर्बाणैर्निर्विद्धो मधुसूदनः विरराज रणे राजन्सपुष्प इव किंशुकः
MBh 6.48.51
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् गाङ्गेयसारथिं संख्ये निर्बिभेद त्रिभिः शरैः
MBh 6.48.52
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति नाशक्नुतां तदान्योन्यमभिसंधातुमाहवे
MBh 6.48.53
मण्डलानि विचित्राणि गतप्रत्यागतानि च अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात्
MBh 6.48.54
अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः
MBh 6.48.55
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ
MBh 6.48.56
तयोः शङ्खप्रणादेन रथनेमिस्वनेन च दारिता सहसा भूमिश्चकम्प च ननाद च
MBh 6.48.57
न तयोरन्तरं कश्चिद्ददृशे भरतर्षभ बलिनौ समरे शूरावन्योन्यसदृशावुभौ
MBh 6.48.58
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे
MBh 6.48.59
तयोर्नृवरयो राजन्दृश्य तादृक्पराक्रमम् विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे
MBh 6.48.60
न तयोर्विवरं कश्चिद्रणे पश्यति भारत धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित्
MBh 6.48.61
उभौ हि शरजालेन तावदृश्यौ बभूवतुः प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे
MBh 6.48.62
तत्र देवाः सगन्धर्वाश्चारणाश्च सहर्षिभिः अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम्
MBh 6.48.63
न शक्यौ युधि संरब्धौ जेतुमेतौ महारथौ सदेवासुरगन्धर्वैर्लोकैरपि कथंचन
MBh 6.48.64
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् नैतादृशानि युद्धानि भविष्यन्ति कथंचन
MBh 6.48.65
नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता सधनुश्च रथस्थश्च प्रवपन्सायकान्रणे
MBh 6.48.66
तथैव पाण्डवं युद्धे देवैरपि दुरासदम् न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम्
MBh 6.48.67
इति स्म वाचः श्रूयन्ते प्रोच्चरन्त्यस्ततस्ततः गाङ्गेयार्जुनयोः संख्ये स्तवयुक्ता विशां पते
MBh 6.48.68
त्वदीयास्तु ततो योधाः पाण्डवेयाश्च भारत अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे
MBh 6.48.69
शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैर्युधि उभयोः सेनयोर्वीरा न्यकृन्तन्त परस्परम्
MBh 6.48.70
वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 70 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.48local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷