🪷 Mahābhārata · Bhīṣma-Parva · Chapter 46
The Book of Bhīṣma · Parva 6 · 56 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 56 Shlokas
MBh 6.46.1
संजय उवाच
कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ
भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा
MBh 6.46.2
धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम्
भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः
MBh 6.46.3
शुचा परमया युक्तश्चिन्तयानः पराजयम्
वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम्
MBh 6.46.4
कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम्
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम्
MBh 6.46.5
कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम्
लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम्
MBh 6.46.6
एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम्
दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम्
MBh 6.46.7
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे
वरुणः पाशभृच्चापि कुबेरो वा गदाधरः
MBh 6.46.8
न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः
सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लवः
MBh 6.46.9
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव
वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम्
MBh 6.46.10
न त्विमान्पृथिवीपालान्दातुं भीष्माय मृत्यवे
क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित्
MBh 6.46.11
यथानलं प्रज्वलितं पतंगाः समभिद्रुताः
विनाशायैव गच्छन्ति तथा मे सैनिको जनः
MBh 6.46.12
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी
भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः
MBh 6.46.13
मत्कृते भ्रातृसौहार्दाद्राज्याद्भ्रष्टास्तथा सुखात्
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्
MBh 6.46.14
जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम्
न घातयिष्यामि रणे मित्राणीमानि केशव
MBh 6.46.15
रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः
घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम्
MBh 6.46.16
किं नु कृत्वा कृतं मे स्याद्ब्रूहि माधव माचिरम्
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम्
MBh 6.46.17
एको भीमः परं शक्त्या युध्यत्येष महाभुजः
केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन्
MBh 6.46.18
गदया वीरघातिन्या यथोत्साहं महामनाः
करोत्यसुकरं कर्म गजाश्वरथपत्तिषु
MBh 6.46.19
नालमेष क्षयं कर्तुं परसैन्यस्य मारिष
आर्जवेनैव युद्धेन वीर वर्षशतैरपि
MBh 6.46.20
एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते
निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना
MBh 6.46.21
दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः
धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः
MBh 6.46.22
कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः
क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः
MBh 6.46.23
स त्वं पश्य महेष्वासं योगीष्वर महारथम्
यो भीष्मं शमयेत्संख्ये दावाग्निं जलदो यथा
MBh 6.46.24
तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः
स्वराज्यमनुसंप्राप्ता मोदिष्यन्ति सबान्धवाः
MBh 6.46.25
एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः
MBh 6.46.26
शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम्
अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान्
MBh 6.46.27
मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि
यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः
MBh 6.46.28
अहं च प्रियकृद्राजन्सात्यकिश्च महारथः
विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः
MBh 6.46.29
तथैव सबलाः सर्वे राजानो राजसत्तम
त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशां पते
MBh 6.46.30
एष ते पार्षतो नित्यं हितकामः प्रिये रतः
सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः
शिखण्डी च महाबाहो भीष्मस्य निधनं किल
MBh 6.46.31
एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम्
अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः
MBh 6.46.32
धृष्टद्युम्न निबोधेदं यत्त्वा वक्ष्यामि मारिष
नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम्
MBh 6.46.33
भवान्सेनापतिर्मह्यं वासुदेवेन संमतः
कार्त्तिकेयो यथा नित्यं देवानामभवत्पुरा
तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ
MBh 6.46.34
स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान्
अहं च त्वानुयास्यामि भीमः कृष्णश्च मारिष
MBh 6.46.35
माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः
ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ
MBh 6.46.36
तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत
अहं द्रोणान्तकः पार्थ विहितः शंभुना पुरा
MBh 6.46.37
रणे भीष्मं तथा द्रोणं कृपं शल्यं जयद्रथम्
सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव
MBh 6.46.38
अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः
समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने
MBh 6.46.39
तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम्
व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः
MBh 6.46.40
यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत्
तं यथावत्प्रतिव्यूह परानीकविनाशनम्
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह
MBh 6.46.41
तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव
प्रभाते सर्वसैन्यानामग्रे चक्रे धनंजयम्
MBh 6.46.42
आदित्यपथगः केतुस्तस्याद्भुतमनोरमः
शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा
MBh 6.46.43
इन्द्रायुधसवर्णाभिः पताकाभिरलंकृतः
आकाशग इवाकाशे गन्धर्वनगरोपमः
नृत्यमान इवाभाति रथचर्यासु मारिष
MBh 6.46.44
तेन रत्नवता पार्थः स च गाण्डीवधन्वना
बभूव परमोपेतः स्वयंभूरिव भानुना
MBh 6.46.45
शिरोऽभूद्द्रुपदो राजा महत्या सेनया वृतः
कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर
MBh 6.46.46
दाशार्णकाः प्रयागाश्च दाशेरकगणैः सह
अनूपगाः किराताश्च ग्रीवायां भरतर्षभ
MBh 6.46.47
पटच्चरैश्च हुण्डैश्च राजन्पौरवकैस्तथा
निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः
MBh 6.46.48
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः
द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः
MBh 6.46.49
पिशाचा दरदाश्चैव पुण्ड्राः कुण्डीविषैः सह
मडका लडकाश्चैव तङ्गणाः परतङ्गणाः
MBh 6.46.50
बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत
एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः
MBh 6.46.51
अग्निवेष्या जगत्तुण्डाः पलदाशाश्च भारत
शबरास्तुम्बुपाश्चैव वत्साश्च सह नाकुलैः
नकुलः सहदेवश्च वामं पार्श्वं समाश्रिताः
MBh 6.46.52
रथानामयुतं पक्षौ शिरश्च नियुतं तथा
पृष्ठमर्बुदमेवासीत्सहस्राणि च विंशतिः
ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः
MBh 6.46.53
पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः
जग्मुः परिवृता राजंश्चलन्त इव पर्वताः
MBh 6.46.54
जघनं पालयामास विराटः सह केकयैः
काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः
MBh 6.46.55
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः
सूर्योदयनमिच्छन्तः स्थिता युद्धाय दंशिताः
MBh 6.46.56
तेषामादित्यवर्णानि विमलानि महान्ति च
श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 45
- Next chapter · Bhīṣma-Parva Ch 47 →
Sources and Connected Readings
Continue from these 56 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.46local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷