🪷 Mahābhārata · Bhīṣma-Parva · Chapter 45
The Book of Bhīṣma · Parva 6 · 63 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 63 Shlokas
MBh 6.45.1
संजय उवाच
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे
वर्तमाने महारौद्रे महावीरवरक्षये
MBh 6.45.2
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः
MBh 6.45.3
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ
पाण्डवानामनीकानि विजगाहे महारथः
MBh 6.45.4
चेदिकाशिकरूषेषु पाञ्चालेषु च भारत
भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत
MBh 6.45.5
शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान्
निचकर्त महावेगैर्भल्लैः संनतपर्वभिः
MBh 6.45.6
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ
केचिदार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः
MBh 6.45.7
अभिमन्युः सुसंक्रुद्धः पिशङ्गैस्तुरगोत्तमैः
संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति
MBh 6.45.8
जाम्बूनदविचित्रेण कर्णिकारेण केतुना
अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान्
MBh 6.45.9
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा
भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह
MBh 6.45.10
कृतवर्माणमेकेन शल्यं पञ्चभिरायसैः
विद्ध्वा नवभिरानर्छच्छिताग्रैः प्रपितामहम्
MBh 6.45.11
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च
ध्वजमेकेन विव्याध जाम्बूनदविभूषितम्
MBh 6.45.12
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना
जहार सारथेः कायाच्छिरः संनतपर्वणा
MBh 6.45.13
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम्
कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः
MBh 6.45.14
जघान परमक्रुद्धो नृत्यन्निव महारथः
तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि
MBh 6.45.15
लब्धलक्ष्यतया कार्ष्णेः सर्वे भीष्ममुखा रथाः
सत्त्ववन्तममन्यन्त साक्षादिव धनंजयम्
MBh 6.45.16
तस्य लाघवमार्गस्थमलातसदृशप्रभम्
दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत्
MBh 6.45.17
तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः
विव्याध समरे तूर्णमार्जुनिं परवीरहा
MBh 6.45.18
ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः
सारथिं च त्रिभिर्बाणैराजघान यतव्रतः
MBh 6.45.19
तथैव कृतवर्मा च कृपः शल्यश्च मारिष
विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम्
MBh 6.45.20
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः
ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति
MBh 6.45.21
ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः
ननाद बलवान्कार्ष्णिर्भीष्माय विसृजञ्शरान्
MBh 6.45.22
तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत
यतमानस्य समरे भीष्ममर्दयतः शरैः
MBh 6.45.23
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान्
स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान्
MBh 6.45.24
ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः
चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः
MBh 6.45.25
स राजतो महास्कन्धस्तालो हेमविभूषितः
सौभद्रविशिखैश्छिन्नः पपात भुवि भारत
MBh 6.45.26
ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ
दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन्
MBh 6.45.27
अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च
प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः
MBh 6.45.28
ततः शतसहस्रेण सौभद्रं प्रपितामहः
अवाकिरदमेयात्मा शराणां नतपर्वणाम्
MBh 6.45.29
ततो दश महेष्वासाः पाण्डवानां महारथाः
रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः
MBh 6.45.30
विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः
भीमश्च केकयाश्चैव सात्यकिश्च विशां पते
MBh 6.45.31
जवेनापततां तेषां भीष्मः शांतनवो रणे
पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः
MBh 6.45.32
पूर्णायतविसृष्टेन क्षुरेण निशितेन च
ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा
MBh 6.45.33
जाम्बूनदमयः केतुः केसरी नरसत्तम
पपात भीमसेनस्य भीष्मेण मथितो रथात्
MBh 6.45.34
भीमसेनस्त्रिभिर्विद्ध्वा भीष्मं शांतनवं रणे
कृपमेकेन विव्याध कृतवर्माणमष्टभिः
MBh 6.45.35
प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना
अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः
MBh 6.45.36
तस्य वारणराजस्य जवेनापततो रथी
शल्यो निवारयामास वेगमप्रतिमं रणे
MBh 6.45.37
तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः
पदा युगमधिष्ठाय जघान चतुरो हयान्
MBh 6.45.38
स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम्
उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम्
MBh 6.45.39
तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः
स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः
MBh 6.45.40
समादाय च शल्योऽसिमवप्लुत्य रथोत्तमात्
वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम्
MBh 6.45.41
भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः
भीममार्तस्वरं कृत्वा पपात च ममार च
MBh 6.45.42
एतदीदृशकं कृत्वा मद्रराजो महारथः
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः
MBh 6.45.43
उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम्
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम्
शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव
MBh 6.45.44
स विस्फार्य महच्चापं कार्तस्वरविभूषितम्
अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं बली
MBh 6.45.45
महता रथवंशेन समन्तात्परिवारितः
सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति
MBh 6.45.46
तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम्
तावकानां रथाः सप्त समन्तात्पर्यवारयन्
मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम्
MBh 6.45.47
ततो भीष्मो महाबाहुर्विनद्य जलदो यथा
तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे
MBh 6.45.48
तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम्
संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः
MBh 6.45.49
तत्रार्जुनः संत्वरितः शङ्खस्यासीत्पुरःसरः
भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत
MBh 6.45.50
हाहाकारो महानासीद्योधानां युधि युध्यताम्
तेजस्तेजसि संपृक्तमित्येवं विस्मयं ययुः
MBh 6.45.51
अथ शल्यो गदापाणिरवतीर्य महारथात्
शङ्खस्य चतुरो वाहानहनद्भरतर्षभ
MBh 6.45.52
स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः
बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत
MBh 6.45.53
ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः
यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम्
MBh 6.45.54
पाञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान्
भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः
MBh 6.45.55
उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम्
अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम्
प्रियं संबन्धिनं राजञ्शरानवकिरन्बहून्
MBh 6.45.56
अग्निनेव प्रदग्धानि वनानि शिशिरात्यये
शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह
अतिष्ठत रणे भीष्मो विधूम इव पावकः
MBh 6.45.57
मध्यंदिने यथादित्यं तपन्तमिव तेजसा
न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम्
MBh 6.45.58
वीक्षां चक्रुः समन्तात्ते पाण्डवा भयपीडिताः
त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव
MBh 6.45.59
हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते
हाहाकारो महानासीत्पाण्डुसैन्येषु भारत
MBh 6.45.60
ततो भीष्मः शांतनवो नित्यं मण्डलकार्मुकः
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव
MBh 6.45.61
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः
जघान पाण्डवरथानादिश्यादिश्य भारत
MBh 6.45.62
ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः
प्राप्ते चास्तं दिनकरे न प्राज्ञायत किंचन
MBh 6.45.63
भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे
अवहारमकुर्वन्त सैन्यानां भरतर्षभ
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 44
- Next chapter · Bhīṣma-Parva Ch 46 →
Sources and Connected Readings
Continue from these 63 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.45local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷