🪷 Mahābhārata · Bhīṣma-Parva · Chapter 44
The Book of Bhīṣma · Parva 6 · 48 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 48 Shlokas
MBh 6.44.1
संजय उवाच
राजञ्शतसहस्राणि तत्र तत्र तदा तदा
निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत
MBh 6.44.2
न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम्
न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः
MBh 6.44.3
मातुलं न च स्वस्रीयो न सखायं सखा तथा
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह
MBh 6.44.4
रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः
अभज्यन्त युगैरेव युगानि भरतर्षभ
MBh 6.44.5
रथेषाश्च रथेषाभिः कूबरा रथकूबरैः
संहताः संहतैः केचित्परस्परजिघांसवः
MBh 6.44.6
न शेकुश्चलितुं केचित्संनिपत्य रथा रथैः
प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः
MBh 6.44.7
बहुधादारयन्क्रुद्धा विषाणैरितरेतरम्
सतोमरपताकैश्च वारणाः परवारणैः
MBh 6.44.8
अभिसृत्य महाराज वेगवद्भिर्महागजैः
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः
MBh 6.44.9
अभिनीताश्च शिक्षाभिस्तोत्त्राङ्कुशसमाहताः
सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः
MBh 6.44.10
प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः
क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः
MBh 6.44.11
सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः
ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः
MBh 6.44.12
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः
प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान्
MBh 6.44.13
गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः
MBh 6.44.14
गदाभिर्मुसलैश्चैव भिण्डिपालैः सतोमरैः
आयसैः परिघैश्चैव निस्त्रिंशैर्विमलैः शितैः
MBh 6.44.15
प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः
व्यदृश्यन्त महाराज परस्परजिघांसवः
MBh 6.44.16
राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः
प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम्
MBh 6.44.17
अवक्षिप्तावधूतानामसीनां वीरबाहुभिः
संजज्ञे तुमुलः शब्दः पततां परमर्मसु
MBh 6.44.18
गदामुसलरुग्णानां भिन्नानां च वरासिभिः
दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः
MBh 6.44.19
तत्र तत्र नरौघाणां क्रोशतामितरेतरम्
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत
MBh 6.44.20
हयैरपि हयारोहाश्चामरापीडधारिभिः
हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः
MBh 6.44.21
तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः
आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः
MBh 6.44.22
अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथान्
शिरांस्याददिरे वीरा रथिनामश्वसादिनः
MBh 6.44.23
बहूनपि हयारोहान्भल्लैः संनतपर्वभिः
रथी जघान संप्राप्य बाणगोचरमागतान्
MBh 6.44.24
नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः
पादैरेवावमृद्नन्त मत्ताः कनकभूषणाः
MBh 6.44.25
पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः
प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः
MBh 6.44.26
साश्वारोहान्हयान्केचिदुन्मथ्य वरवारणाः
सहसा चिक्षिपुस्तत्र संकुले भैरवे सति
MBh 6.44.27
साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्द्विपाः
रथौघानवमृद्नन्तः सध्वजान्परिचक्रमुः
MBh 6.44.28
पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः
साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा
MBh 6.44.29
केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः
विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः
MBh 6.44.30
आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः
नराश्वकायान्निर्भिद्य लौहानि कवचानि च
MBh 6.44.31
निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः
महोल्काप्रतिमा घोरास्तत्र तत्र विशां पते
MBh 6.44.32
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मशयैरपि
विकोशैर्विमलैः खड्गैरभिजघ्नुः परान्रणे
MBh 6.44.33
अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम्
विदर्शयन्तः संपेतुः खड्गचर्मपरश्वधैः
MBh 6.44.34
शक्तिभिर्दारिताः केचित्संछिन्नाश्च परश्वधैः
हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरंगमैः
MBh 6.44.35
रथनेमिनिकृत्ताश्च निकृत्ता निशितैः शरैः
विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान्
MBh 6.44.36
पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बान्धवैः
मातुलान्भागिनेयांश्च परानपि च संयुगे
MBh 6.44.37
विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत
बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः
क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः
MBh 6.44.38
तृष्णापरिगताः केचिदल्पसत्त्वा विशां पते
भूमौ निपतिताः संख्ये जलमेव ययाचिरे
MBh 6.44.39
रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत
व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान्
MBh 6.44.40
अपरे क्षत्रियाः शूराः कृतवैराः परस्परम्
नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष
तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम्
MBh 6.44.41
निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान्
भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम्
MBh 6.44.42
अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः
निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः
MBh 6.44.43
अन्ये तु विरथाः शूरा रथमन्यस्य संयुगे
प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः
अशोभन्त महाराज पुष्पिता इव किंशुकाः
MBh 6.44.44
संबभूवुरनीकेषु बहवो भैरवस्वनाः
वर्तमाने महाभीमे तस्मिन्वीरवरक्षये
MBh 6.44.45
अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे
स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः
MBh 6.44.46
सखायं च सखा राजन्संबन्धी बान्धवं तथा
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह
MBh 6.44.47
वर्तमाने भये तस्मिन्निर्मर्यादे महाहवे
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत
MBh 6.44.48
केतुना पञ्चतारेण तालेन भरतर्षभ
राजतेन महाबाहुरुच्छ्रितेन महारथे
बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 43
- Next chapter · Bhīṣma-Parva Ch 45 →
Sources and Connected Readings
Continue from these 48 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.44local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷