🪷 Mahābhārata · Bhīṣma-Parva · Chapter 43

The Book of Bhīṣma · Parva 6 · 83 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 83 Shlokas

MBh 6.43.1
संजय उवाच पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते प्रावर्तत महाघोरं राज्ञां देहावकर्तनम्
MBh 6.43.2
कुरूणां पाण्डवानां च संग्रामे विजिगीषताम् सिंहानामिव संह्रादो दिवमुर्वीं च नादयन्
MBh 6.43.3
आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम्
MBh 6.43.4
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः
MBh 6.43.5
तोत्त्राङ्कुशनिपाताश्च आयुधानां च निस्वनाः घण्टाशब्दाश्च नागानामन्योन्यमभिधावताम्
MBh 6.43.6
तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे बभूव रथनिर्घोषः पर्जन्यनिनदोपमः
MBh 6.43.7
ते मनः क्रूरमाधाय समभित्यक्तजीविताः पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः
MBh 6.43.8
स्वयं शांतनवो राजन्नभ्यधावद्धनंजयम् प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे
MBh 6.43.9
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि
MBh 6.43.10
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि
MBh 6.43.11
सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात् तयोः समभवद्युद्धं तुमुलं लोमहर्षणम्
MBh 6.43.12
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् आनर्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम्
MBh 6.43.13
तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ
MBh 6.43.14
अभिमन्युर्महेष्वासो बृहद्बलमयोधयत् ततः कोसलको राजा सौभद्रस्य विशां पते ध्वजं चिच्छेद समरे सारथिं च न्यपातयत्
MBh 6.43.15
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ बृहद्बलं महाराज विव्याध नवभिः शरैः
MBh 6.43.16
अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः
MBh 6.43.17
मानिनं समरे दृप्तं कृतवैरं महारथम् भीमसेनस्तव सुतं दुर्योधनमयोधयत्
MBh 6.43.18
तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे
MBh 6.43.19
तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ विस्मयः सर्वभूतानां समपद्यत भारत
MBh 6.43.20
दुःशासनस्तु नकुलं प्रत्युद्याय महारथम् अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः
MBh 6.43.21
तस्य माद्रीसुतः केतुं सशरं च शरासनम् चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत्
MBh 6.43.22
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत्
MBh 6.43.23
दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम् विव्याध शरवर्षेण यतमानं महाहवे
MBh 6.43.24
सहदेवस्ततो वीरो दुर्मुखस्य महाहवे शरेण भृशतीक्ष्णेन पातयामास सारथिम्
MBh 6.43.25
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ
MBh 6.43.26
युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात् तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष
MBh 6.43.27
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम्
MBh 6.43.28
ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्
MBh 6.43.29
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम् त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम्
MBh 6.43.30
शरं चैव महाघोरं कालदण्डमिवापरम् प्रेषयामास समरे सोऽस्य काये न्यमज्जत
MBh 6.43.31
अथान्यद्धनुरादाय सायकांश्च चतुर्दश द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे तावन्योन्यं सुसंक्रुद्धौ चक्रतुः सुभृशं रणम्
MBh 6.43.32
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत्
MBh 6.43.33
तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् सौमदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत्
MBh 6.43.34
तयोः समभवद्युद्धं घोररूपं विशां पते दृप्तयोः समरे तूर्णं वृत्रवासवयोरिव
MBh 6.43.35
बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः
MBh 6.43.36
बाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम् शरैर्बहुभिरानर्छत्सिंहनादमथानदत्
MBh 6.43.37
चेदिराजस्तु संक्रुद्धो बाह्लीकं नवभिः शरैः विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम्
MBh 6.43.38
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः समीयतुः सुसंक्रुद्धावङ्गारकबुधाविव
MBh 6.43.39
राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे
MBh 6.43.40
घटोत्कचस्तु संक्रुद्धो राक्षसं तं महाबलम् नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत
MBh 6.43.41
अलम्बुसस्तु समरे भैमसेनिं महाबलम् बहुधा वारयामास शरैः संनतपर्वभिः
MBh 6.43.42
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ यथा देवासुरे युद्धे बलशक्रौ महाबलौ
MBh 6.43.43
शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम्
MBh 6.43.44
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत् शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत्
MBh 6.43.45
सायकेन सुपीतेन तीक्ष्णेन निशितेन च तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे
MBh 6.43.46
भगदत्तं रणे शूरं विराटो वाहिनीपतिः अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत
MBh 6.43.47
विराटो भगदत्तेन शरवर्षेण ताडितः अभ्यवर्षत्सुसंक्रुद्धो मेघो वृष्ट्या इवाचलम्
MBh 6.43.48
भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् छादयामास समरे मेघः सूर्यमिवोदितम्
MBh 6.43.49
बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ तं कृपः शरवर्षेण छादयामास भारत
MBh 6.43.50
गौतमं केकयः क्रुद्धः शरवृष्ट्याभ्यपूरयत् तावन्योन्यं हयान्हत्वा धनुषी विनिकृत्य वै
MBh 6.43.51
विरथावसियुद्धाय समीयतुरमर्षणौ तयोस्तदभवद्युद्धं घोररूपं सुदारुणम्
MBh 6.43.52
द्रुपदस्तु ततो राजा सैन्धवं वै जयद्रथम् अभ्युद्ययौ संप्रहृष्टो हृष्टरूपं परंतप
MBh 6.43.53
ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः ताडयामास समरे स च तं प्रत्यविध्यत
MBh 6.43.54
तयोः समभवद्युद्धं घोररूपं सुदारुणम् ईक्षितृप्रीतिजननं शुक्राङ्गारकयोरिव
MBh 6.43.55
विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत
MBh 6.43.56
विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः सुतसोमो विकर्णं च तदद्भुतमिवाभवत्
MBh 6.43.57
सुशर्माणं नरव्याघ्रं चेकितानो महारथः अभ्यद्रवत्सुसंक्रुद्धः पाण्डवार्थे पराक्रमी
MBh 6.43.58
सुशर्मा तु महाराज चेकितानं महारथम् महता शरवर्षेण वारयामास संयुगे
MBh 6.43.59
चेकितानोऽपि संरब्धः सुशर्माणं महाहवे प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम्
MBh 6.43.60
शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी अभ्यद्रवत राजेन्द्र मत्तो मत्तमिव द्विपम्
MBh 6.43.61
यौधिष्ठिरस्तु संक्रुद्धः सौबलं निशितैः शरैः व्यदारयत संग्रामे मघवानिव दानवम्
MBh 6.43.62
शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः
MBh 6.43.63
सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम् श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे
MBh 6.43.64
सुदक्षिणस्तु समरे साहदेविं महारथम् विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम्
MBh 6.43.65
श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम् शरैर्बहुभिरानर्छद्दारयन्निव सर्वशः
MBh 6.43.66
इरावानथ संक्रुद्धः श्रुतायुषममर्षणम् प्रत्युद्ययौ रणे यत्तो यत्तरूपतरं ततः
MBh 6.43.67
आर्जुनिस्तस्य समरे हयान्हत्वा महारथः ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत्
MBh 6.43.68
श्रुतायुस्त्वथ संक्रुद्धः फाल्गुनेः समरे हयान् निजघान गदाग्रेण ततो युद्धमवर्तत
MBh 6.43.69
विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् ससेनं ससुतं वीरं संससज्जतुराहवे
MBh 6.43.70
तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम् यदयुध्यन्स्थिरा भूत्वा महत्या सेनया सह
MBh 6.43.71
अनुविन्दस्तु गदया कुन्तिभोजमताडयत् कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत्
MBh 6.43.72
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः स च तं प्रतिविव्याध तदद्भुतमिवाभवत्
MBh 6.43.73
केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे
MBh 6.43.74
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् उत्तरं योधयामास विव्याध निशितैः शरैः उत्तरश्चापि तं धीरं विव्याध निशितैः शरैः
MBh 6.43.75
चेदिराट्समरे राजन्नुलूकं समभिद्रवत् उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः
MBh 6.43.76
तयोर्युद्धं समभवद्घोररूपं विशां पते दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ
MBh 6.43.77
एवं द्वंद्वसहस्राणि रथवारणवाजिनाम् पदातीनां च समरे तव तेषां च संकुलम्
MBh 6.43.78
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् तत उन्मत्तवद्राजन्न प्राज्ञायत किंचन
MBh 6.43.79
गजो गजेन समरे रथी च रथिनं ययौ अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम्
MBh 6.43.80
ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत शूराणां समरे तत्र समासाद्य परस्परम्
MBh 6.43.81
तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः प्रैक्षन्त तद्रणं घोरं देवासुररणोपमम्
MBh 6.43.82
ततो दन्तिसहस्राणि रथानां चापि मारिष अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः
MBh 6.43.83
तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 83 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.43local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷