🪷 Mahābhārata · Bhīṣma-Parva · Chapter 3
The Book of Bhīṣma · Parva 6 · 46 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 46 Shlokas
MBh 6.3.1
व्यास उवाच
खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः
अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः
MBh 6.3.2
गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान्
क्रव्यादान्पक्षिणश्चैव गोमायूनपरान्मृगान्
MBh 6.3.3
त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः
MBh 6.3.4
जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः
त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः
MBh 6.3.5
तथैवान्याश्च दृश्यन्ते स्त्रियश्च ब्रह्मवादिनाम्
वैनतेयान्मयूरांश्च जनयन्त्यः पुरे तव
MBh 6.3.6
गोवत्सं वडवा सूते श्वा सृगालं महीपते
क्रकराञ्शारिकाश्चैव शुकांश्चाशुभवादिनः
MBh 6.3.7
स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः
ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च
MBh 6.3.8
पृथग्जनस्य कुडकाः स्तनपाः स्तेनवेश्मनि
नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम्
MBh 6.3.9
प्रतिमाश्चालिखन्त्यन्ये सशस्त्राः कालचोदिताः
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः
उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः
MBh 6.3.10
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च
विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति
MBh 6.3.11
अभीक्ष्णं कम्पते भूमिरर्कं राहुस्तथाग्रसत्
श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति
MBh 6.3.12
अभावं हि विशेषेण कुरूणां प्रतिपश्यति
धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति
MBh 6.3.13
सेनयोरशिवं घोरं करिष्यति महाग्रहः
मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः
MBh 6.3.14
भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते
शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते
उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते
MBh 6.3.15
श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति
MBh 6.3.16
ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते
चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः
MBh 6.3.17
वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः
ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः
MBh 6.3.18
सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी
पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः
MBh 6.3.19
प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत्
ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत
MBh 6.3.20
निश्चेरुरपिधानेभ्यः खड्गाः प्रज्वलिता भृशम्
व्यक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम्
MBh 6.3.21
अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च
कवचानां ध्वजानां च भविष्यति महान्क्षयः
MBh 6.3.22
दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः
अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम्
MBh 6.3.23
एकपक्षाक्षिचरणः शकुनिः खचरो निशि
रौद्रं वदति संरब्धः शोणितं छर्दयन्मुहुः
MBh 6.3.24
ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताविव स्थितौ
सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम्
MBh 6.3.25
संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ
विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ
MBh 6.3.26
कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन्
वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः
MBh 6.3.27
त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते
बुधः संपततेऽभीक्ष्णं जनयन्सुमहद्भयम्
MBh 6.3.28
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम्
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम्
MBh 6.3.29
चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशीम्
अपर्वणि ग्रहावेतौ प्रजाः संक्षपयिष्यतः
MBh 6.3.30
रजोवृता दिशः सर्वाः पांसुवर्षैः समन्ततः
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम्
MBh 6.3.31
मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम्
अर्धरात्रे महाघोरमतृप्यंस्तत्र राक्षसाः
MBh 6.3.32
प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः
फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव
पतन्त्युल्काः सनिर्घाताः शुष्काशनिविमिश्रिताः
MBh 6.3.33
अद्य चैव निशां व्युष्टामुदये भानुराहतः
ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम्
MBh 6.3.34
आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः
भूमिपालसहस्राणां भूमिः पास्यति शोणितम्
MBh 6.3.35
कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः
सहस्रशो महाशब्दं शिखराणि पतन्ति च
MBh 6.3.36
महाभूता भूमिकम्पे चतुरः सागरान्पृथक्
वेलामुद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः
MBh 6.3.37
वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः
पतन्ति चैत्यवृक्षाश्च ग्रामेषु नगरेषु च
MBh 6.3.38
पीतलोहितनीलश्च ज्वलत्यग्निर्हुतो द्विजैः
वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते
MBh 6.3.39
धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः
मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा
MBh 6.3.40
प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि
गृध्राः परिपतन्त्युग्रा वामं मण्डलमाश्रिताः
MBh 6.3.41
पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च
निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम्
MBh 6.3.42
ध्यायन्तः प्रकिरन्तश्च वालान्वेपथुसंयुताः
रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः
MBh 6.3.43
एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम्
यथा लोकः समुच्छेदं नायं गच्छेत भारत
MBh 6.3.44
वैशंपायन उवाच
पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम्
दिष्टमेतत्पुरा मन्ये भविष्यति न संशयः
MBh 6.3.45
क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम्
MBh 6.3.46
इह कीर्तिं परे लोके दीर्घकालं महत्सुखम्
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 2
- Next chapter · Bhīṣma-Parva Ch 4 →
Sources and Connected Readings
Continue from these 46 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.3local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷