🪷 Mahābhārata · Bhīṣma-Parva · Chapter 4
The Book of Bhīṣma · Parva 6 · 35 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 35 Shlokas
MBh 6.4.1
वैशंपायन उवाच
एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम
पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम्
MBh 6.4.2
पुनरेवाब्रवीद्वाक्यं कालवादी महातपाः
असंशयं पार्थिवेन्द्र कालः संक्षिपते जगत्
MBh 6.4.3
सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम्
ज्ञातीनां च कुरूणां च संबन्धिसुहृदां तथा
MBh 6.4.4
धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे
क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रियम्
MBh 6.4.5
कालोऽयं पुत्ररूपेण तव जातो विशां पते
न वधः पूज्यते वेदे हितं नैतत्कथंचन
MBh 6.4.6
हन्यात्स एव यो हन्यात्कुलधर्मं स्वकां तनुम्
कालेनोत्पथगन्तासि शक्ये सति यथापथि
MBh 6.4.7
कुलस्यास्य विनाशाय तथैव च महीक्षिताम्
अनर्थो राज्यरूपेण त्यज्यतामसुखावहः
MBh 6.4.8
लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान्
किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम्
MBh 6.4.9
यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः
MBh 6.4.10
एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः
आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः
MBh 6.4.11
धृतराष्ट्र उवाच
यथा भवान्वेद तथास्मि वेत्ता; भावाभावौ विदितौ मे यथावत्
स्वार्थे हि संमुह्यति तात लोको; मां चापि लोकात्मकमेव विद्धि
MBh 6.4.12
प्रसादये त्वामतुलप्रभावं; त्वं नो गतिर्दर्शयिता च धीरः
न चापि ते वशगा मे महर्षे; न कल्मषं कर्तुमिहार्हसे माम्
MBh 6.4.13
त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः
कुरूणां पाण्डवानां च मान्यश्चासि पितामहः
MBh 6.4.14
व्यास उवाच
वैचित्रवीर्य नृपते यत्ते मनसि वर्तते
अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम्
MBh 6.4.15
धृतराष्ट्र उवाच
यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम्
तानि सर्वाणि भगवञ्श्रोतुमिच्छामि तत्त्वतः
MBh 6.4.16
व्यास उवाच
प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः
पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जयस्यैतद्भाविनो रूपमाहुः
MBh 6.4.17
गम्भीरघोषाश्च महास्वनाश्च; शङ्खा मृदङ्गाश्च नदन्ति यत्र
विशुद्धरश्मिस्तपनः शशी च; जयस्यैतद्भाविनो रूपमाहुः
MBh 6.4.18
इष्टा वाचः पृष्ठतो वायसानां; संप्रस्थितानां च गमिष्यतां च
ये पृष्ठतस्ते त्वरयन्ति राज;न्ये त्वग्रतस्ते प्रतिषेधयन्ति
MBh 6.4.19
कल्याणवाचः शकुना राजहंसाः; शुकाः क्रौञ्चाः शतपत्राश्च यत्र
प्रदक्षिणाश्चैव भवन्ति संख्ये; ध्रुवं जयं तत्र वदन्ति विप्राः
MBh 6.4.20
अलंकारैः कवचैः केतुभिश्च; मुखप्रसादैर्हेमवर्णैश्च नॄणाम्
भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस्ते विजयन्ति शत्रून्
MBh 6.4.21
हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत
न म्लायन्ते स्रजश्चैव ते तरन्ति रणे रिपून्
MBh 6.4.22
इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः
पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधते
MBh 6.4.23
शब्दरूपरसस्पर्शगन्धाश्चाविष्कृताः शुभाः
सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जयः
MBh 6.4.24
अन्वेव वायवो वान्ति तथाभ्राणि वयांसि च
अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च
MBh 6.4.25
एतानि जयमानानां लक्षणानि विशां पते
भवन्ति विपरीतानि मुमूर्षूणां जनाधिप
MBh 6.4.26
अल्पायां वा महत्यां वा सेनायामिति निश्चितम्
हर्षो योधगणस्यैकं जयलक्षणमुच्यते
MBh 6.4.27
एको दीर्णो दारयति सेनां सुमहतीमपि
तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि
MBh 6.4.28
दुर्निवारतमा चैव प्रभग्ना महती चमूः
अपामिव महावेगस्त्रस्ता मृगगणा इव
MBh 6.4.29
नैव शक्या समाधातुं संनिपाते महाचमूः
दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि
भीतान्भग्नांश्च संप्रेक्ष्य भयं भूयो विवर्धते
MBh 6.4.30
प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः
नैव स्थापयितुं शक्या शूरैरपि महाचमूः
MBh 6.4.31
संभृत्य महतीं सेनां चतुरङ्गां महीपतिः
उपायपूर्वं मेधावी यतेत सततोत्थितः
MBh 6.4.32
उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम्
जघन्य एष विजयो यो युद्धेन विशां पते
महादोषः संनिपातस्ततो व्यङ्गः स उच्यते
MBh 6.4.33
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः
पञ्चाशदपि ये शूरा मथ्नन्ति महतीं चमूम्
अथ वा पञ्च षट्सप्त विजयन्त्यनिवर्तिनः
MBh 6.4.34
न वैनतेयो गरुडः प्रशंसति महाजनम्
दृष्ट्वा सुपर्णोपचितिं महतीमपि भारत
MBh 6.4.35
न बाहुल्येन सेनाया जयो भवति भारत
अध्रुवो हि जयो नाम दैवं चात्र परायणम्
जयन्तो ह्यपि संग्रामे क्षयवन्तो भवन्त्युत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 3
- Next chapter · Bhīṣma-Parva Ch 5 →
Sources and Connected Readings
Continue from these 35 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.4local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷