🪷 Mahābhārata · Bhīṣma-Parva · Chapter 2

The Book of Bhīṣma · Parva 6 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 33 Shlokas

MBh 6.2.1
वैशंपायन उवाच ततः पूर्वापरे संध्ये समीक्ष्य भगवानृषिः सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः
MBh 6.2.2
भविष्यति रणे घोरे भरतानां पितामहः प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित्
MBh 6.2.3
वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम् शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा
MBh 6.2.4
व्यास उवाच राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम्
MBh 6.2.5
तेषु कालपरीतेषु विनश्यत्सु च भारत कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः
MBh 6.2.6
यदि त्विच्छसि संग्रामे द्रष्टुमेनं विशां पते चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय
MBh 6.2.7
धृतराष्ट्र उवाच न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा
MBh 6.2.8
वैशंपायन उवाच तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति वराणामीश्वरो दाता संजयाय वरं ददौ
MBh 6.2.9
व्यास उवाच एष ते संजयो राजन्युद्धमेतद्वदिष्यति एतस्य सर्वं संग्रामे नपरोक्षं भविष्यति
MBh 6.2.10
चक्षुषा संजयो राजन्दिव्येनैष समन्वितः कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति
MBh 6.2.11
प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः
MBh 6.2.12
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते
MBh 6.2.13
अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः
MBh 6.2.14
दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः
MBh 6.2.15
वैशंपायन उवाच एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह
MBh 6.2.16
इह युद्धे महाराज भविष्यति महान्क्षयः यथेमानि निमित्तानि भयायाद्योपलक्षये
MBh 6.2.17
श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः संपतन्ति वनान्तेषु समवायांश्च कुर्वते
MBh 6.2.18
अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम्
MBh 6.2.19
खटाखटेति वाशन्तो भैरवं भयवेदिनः कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम्
MBh 6.2.20
उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत उदयास्तमने सूर्यं कबन्धैः परिवारितम्
MBh 6.2.21
श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः त्रिवर्णाः परिघाः संधौ भानुमावारयन्त्युत
MBh 6.2.22
ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम् अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति
MBh 6.2.23
अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम् चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले
MBh 6.2.24
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः राजानो राजपुत्राश्च शूराः परिघबाहवः
MBh 6.2.25
अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये
MBh 6.2.26
देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च
MBh 6.2.27
अनाहता दुन्दुभयः प्रणदन्ति विशां पते अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः
MBh 6.2.28
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः
MBh 6.2.29
गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः
MBh 6.2.30
उभे संध्ये प्रकाशेते दिशां दाहसमन्विते आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत
MBh 6.2.31
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः
MBh 6.2.32
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम्
MBh 6.2.33
अनभ्रे च महाघोरं स्तनितं श्रूयतेऽनिशम् वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 33 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.2local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷