🪷 Mahābhārata · Bhīṣma-Parva · Chapter 16
The Book of Bhīṣma · Parva 6 · 46 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 46 Shlokas
MBh 6.16.1
संजय उवाच
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि
न तु दुर्योधने दोषमिममासक्तुमर्हसि
MBh 6.16.2
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः
एनसा तेन नान्यं स उपाशङ्कितुमर्हति
MBh 6.16.3
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्
स वध्यः सर्वलोकस्य निन्दितानि समाचरन्
MBh 6.16.4
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया
अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने
MBh 6.16.5
हयानां च गजानां च शूराणां चामितौजसाम्
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च
MBh 6.16.6
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः
दिष्टमेतत्पुरा नूनमेवंभावि नराधिप
MBh 6.16.7
नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते
यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम्
MBh 6.16.8
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च
परचित्तस्य विज्ञानमतीतानागतस्य च
MBh 6.16.9
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा
शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः
MBh 6.16.10
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम्
भारतानां महद्युद्धं यथाभूल्लोमहर्षणम्
MBh 6.16.11
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः
दुर्योधनो महाराज दुःशासनमथाब्रवीत्
MBh 6.16.12
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय
MBh 6.16.13
अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः
पाण्डवानां ससैन्यानां कुरूणां च समागमः
MBh 6.16.14
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात्
हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान्
MBh 6.16.15
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम्
श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम
MBh 6.16.16
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः
शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः
MBh 6.16.17
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः
सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम्
MBh 6.16.18
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम्
मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना
MBh 6.16.19
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्
गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः
MBh 6.16.20
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः
यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु
MBh 6.16.21
ततो रजन्यां व्युष्टायां शब्दः समभवन्महान्
क्रोशतां भूमिपालानां युज्यतां युज्यतामिति
MBh 6.16.22
शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत
हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा
MBh 6.16.23
गजानां बृंहतां चैव योधानां चाभिगर्जताम्
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्
MBh 6.16.24
उदतिष्ठन्महाराज सर्वं युक्तमशेषतः
सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः
तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च
MBh 6.16.25
तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः
विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः
MBh 6.16.26
रथानीकान्यदृश्यन्त नगराणीव भूरिशः
अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत्
MBh 6.16.27
धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः
योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः
MBh 6.16.28
गजा रथाः पदाताश्च तुरगाश्च विशां पते
व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः
MBh 6.16.29
ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः
स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः
MBh 6.16.30
काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः
अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः
MBh 6.16.31
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव
संनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः
MBh 6.16.32
उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः
ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः
MBh 6.16.33
शकुनिः सौबलः शल्यः सैन्धवोऽथ जयद्रथः
विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः
MBh 6.16.34
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः
बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः
MBh 6.16.35
दशैते पुरुषव्याघ्राः शूराः परिघबाहवः
अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः
MBh 6.16.36
एते चान्ये च बहवो दुर्योधनवशानुगाः
राजानो राजपुत्राश्च नीतिमन्तो महाबलाः
MBh 6.16.37
संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः
बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः
MBh 6.16.38
सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः
समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः
MBh 6.16.39
एकादशी धार्तराष्ट्री कौरवाणां महाचमूः
अग्रतः सर्वसैन्यानां यत्र शांतनवोऽग्रणीः
MBh 6.16.40
श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम्
अपश्याम महाराज भीष्मं चन्द्रमिवोदितम्
MBh 6.16.41
हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम्
श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः
MBh 6.16.42
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः
सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः
MBh 6.16.43
जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा
धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः
MBh 6.16.44
एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत
पाण्डवानां तथा सप्त महापुरुषपालिताः
MBh 6.16.45
उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ
युगान्ते समुपेतौ द्वौ दृश्येते सागराविव
MBh 6.16.46
नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः
अनीकानां समेतानां समवायस्तथाविधः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 15
- Next chapter · Bhīṣma-Parva Ch 17 →
Sources and Connected Readings
Continue from these 46 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.16local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷